भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1005, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1005

९५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] व्यः स विजिज्ञासितव्यः' (छा. ८-७-३.) इति श्रु त्या आचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमा प इन्द्रस्सम्यग्ज्ञानमित्युभयविधलिङ्गात् ॥ ३४ ॥ विपरीतज्ञानप्राप्तिरूपोभयविधार्थप्राप्तिसाधकं यल्लिङ्गं तस्मादित्यर्थः । अनेन सूत्रे उभयशब्द आवर्तते । तत्रैक उभयशब्दपर्यायः । अपर उ भयविधार्थकः । तथा च उभयोः इन्द्रविरोचनयोर्गुरूपदेशसाम्येऽपि उभयविधात् ज्ञानप्राप्त्यप्राप्तिरूपात् योग्यायोग्यजनानां सम्यग्ज्ञान विपरीतज्ञानप्राप्तिरूपोभयविधार्थस्य साधकलिङ्गादिति हेत्वर्थ उक्तो भवति । एवं हि छन्दोगोपनिषदि श्रूयते । 'तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति । तौ होचतुः य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसंकल्पस्सोऽन्वे ष्टव्यस्स विजिज्ञासितव्यः.. इति ह भगवतो वचो वेदयन्ते तमिच्छ न्ताववास्तमिति । तौ ह प्रजापतिरुवाच य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच' (छा. ८-७.) इत्यादि । अस्यार्थः- 'तौ' पूर्वप्रकृताविन्द्रविरोचनौ द्वात्रिंशत्सहस्रसङ्ख्याकानि वर्षसह स्राणि गुह्यनियमाख्यं ब्रह्मचर्यव्रतं चरन्तावृषतुर्ह किल । एवं स्वस मीपवासिनौ प्रजापतिरुवाच ह । किमिति ? 'वां' युवामत्र किमिच्छ न्ताववास्तमिति । तावेवं पृष्टौ ऊचतुर्ह । तदेवाह- 'य आत्मा' इ त्यादिना 'विजिज्ञासितव्यः' इत्यन्तेन । इत्येवं 'भगवतः' पूज्यस्य ते 'वचो' वाक्यं 'वेदयन्ते' तदर्थभूतं परमात्मानं वेत्तुमिच्छन्ति देवा सुरा इति शेषः । अतस्तमात्मानमुपदेष्टृतो ज्ञातुमिच्छन्तावावां 'अवा स्तं' अवात्स्व पुरुषादिव्यत्ययः छान्दसः । 'तौ' एवं प्रकटिताभिप्रा यौ प्रजापतिः 'उवाच' उपदिदेश-य एषोऽन्तरक्षिणीति । योऽक्षि स्थो विश्वनामा हरिरात्मा सोऽपगतपाप्मत्वादिगुणकइति । य आत्मे त्यादेरर्थस्तु दहरनयेऽभिहितः । यद्यपि य इत्यादि विजिज्ञासितव्य इ त्यन्तं वाक्यं प्रजापतिना पूर्वोक्तमेवेन्द्रविरोचनाभ्यामनूद्यत इति नो पदेशरूपमतो नैतदुदाहरणार्हं, किन्तु य एषोऽन्तरक्षिणीत्याद्येवोदाहर णीयम् । तथाऽपि भगवतो वच इत्यन्ते श्रवणादस्यापि चतुर्मुखोपदे शत्वावगमान्नासङ्गतिः । तथा च भाष्ये विजिज्ञासितव्य इत्यन्तोदाह रणं प्रतीकरूपमुपलक्षणाभिप्रायमन्यस्याप्युदाहरणीयत्वं ज्ञापयतीति द्रष्टव्यम् ॥

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 1005, कुल 1267 में से · BharatKosha