पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1006, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - ३६. ] दीपिकासहितम्. ९५९ ( ३ ) सू- ॐ ॥ अनभिभवं च दर्शयति ॥ ॐ ॥ ३५ ॥ 'दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चा सुरा नैवैतयोरभिभवः कदाचित्स्वभाव एव ह्यवतिष्ठ ते' इति स्वभावानभिभवं च दर्शयति॥ ३५ ॥ ( ४ ) सू--ॐ ॥ अन्तरा चापि तु तद्दृष्टेः ॥ ॐ ॥ ३६ ॥ ( ३ ) ननु महता प्रयत्नेन अयोग्यताया अभिभावयितुं शक्यत्वा दयोग्यानामपि ज्ञानप्राप्तिः किं न स्यात् । दृष्टं हि विश्वामित्रस्य मह ता प्रयत्नेन विप्रत्वमित्याशङ्कां परिहरत्सूत्रं पठति—अनभिभवं चेति॥ अत्र नायोग्यताऽभिभवेनायोग्यानामपि ज्ञानप्राप्तिर्युक्ता । कुतः ? अयो ग्यत्वस्य स्वभावत्वादिति हेतुसाध्ये उपस्कृत्य तत्र हेतोरसिद्धयप्रयो जकत्वशङ्कापरिहारकतया सूत्रं व्याचष्टे—दैवीमे