पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1008, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. - सू - ३८. ] दीपिकासहितम्. ९६१ ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयात् ॥ देवा दैवस्वभावेन कर्मणा चाप्यसंशयम् । सम्यग्ज्ञानेन परमां गतिं गच्छन्ति वैष्णवीम् ॥ नानयोरन्यथाभावः कदाचित्क्वापि विद्यते । मानुषा मिश्रमतयो विमिश्रगतयोऽपि च ॥ इति स्का- न्दे ॥ ३७ ॥ ( ६ ) सू—ॐ ॥ विशेषानुग्रहं च ॥ ॐ ॥ ३८ ॥ शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमति नेनीयमानः । सत्त्वरूपं ज्ञातव्यम् । केचित्तु — आसुरेण कर्मणा विपरीतेन ज्ञानेनेत्य- न्वयमाहुः । एके तु — आसुरेणेत्यस्य विवरणं-विपरीतेनेत्याहुः । तथा च ‘असुराः’ अयोग्याः ‘आसुरेण’ तामसेन स्वभावेन योग्यतया ‘स्वभावेन’ तदनुसारिणा कर्मणा, तथा आसुरेण स्वभावेन विपरी- तेन ज्ञानेन च ‘विनिश्चयात्’ निस्सन्देहं तमो यान्त्येव । ‘देवाः’ मु- क्तियोग्याः ‘दैवस्वभावेन’ दैवेन सात्त्विकेन स्वभावेन स्वभावानुसा- रिणा कर्मणा तादृशेन ज्ञानेन च असंशयं ‘परमां वैष्णवीं गतिं’ सर्वो- त्तमं विष्णुस्वरूपं तत्स्थानं वा गच्छन्ति । ‘अनयोः’ दैवासुरस्वभा- वयोस्तत्फलयोश्च कदाचित्काले क्वापि पुरुषे ‘अन्यथाभावो’ व्यत्या- सो न विद्यते । ‘मानुषाः’ नित्यसंसृतियोग्याः सम्यग्विपर्ययमिश्रराज- सबुद्धयः तादृशकर्मिणश्च, अत एव ‘विमिश्रगतयो’ विमिश्रफलशा- लिनोऽपीति स्मृत्यर्थः । स्कान्द इति । स्मर्यत इत्यन्वयः । अनेन — य- तो देवादीनां तत्तत्स्वभावत्वं अपिशब्दात्सूचितं तादृशफलं च स्मर्य- ते, अतस्तदुभयं सिद्धमिति सूत्रार्थ उक्तो भवति ॥ ( ६ ) हेत्वन्तरेण देवानामेव सम्यग्ज्ञानतत्फले, नान्येषामित्यर्थप्र- तिपादकं सूत्रमुपन्यस्य तदपेक्षितं पूरयति—विशेषेति ॥ इति श्रुति- रिति शेषः । चो भिन्नक्रमः समुच्चये । तथा च न केवलं स्मृत्युक्तत्वा- त, किन्तु यतः ‘शृण्वे’ इति श्रुतिः ‘देवेषु’ योग्येषु परमेश्वरस्य ‘विशेषानुग्रहं’ तत्फलसद्भावं च ‘दर्शयति’ प्रतिपादयत्यतोऽपि दे- वानामेवेश्वरानुग्रहसाध्ये सम्यग्ज्ञानफले, नान्येषामिति योजना । श्रु- त्यर्थस्तु — ‘वीरः’ अध्यवसायान्तगामी स्वनिश्चयानुसारेण स्वकार्य- सम्पूर्तिकर्ता नरसिंह इति वा ‘स इन्द्रः’ परमेश्वरः ‘उग्रमुग्रं’ स- र्वान् दुष्टप्रकृतीन् ‘दमायन्’ दमयन् नित्यनरकं प्रापयन् । यद्वा–अन्ये १२१