पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 102, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ३. ] दीपिका सहितम्. ५५ ( ३ ) न चानुमानस्य नियतप्रामाण्यम् । श्रुतिसाहाय्यरहितमनुमानं न कुत्राचित् । निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥ गमा गृह्यन्ते । तथाच सदागमतदर्थाज्ञानी वेदविरुद्धज्ञानी वा न मनुते' न जानाति, वेदादन्यत् जगत्कर्तारं न प्रमापयतीति यावत् । किन्तु वेदविदेव जानाति वेद एव प्रमापयतीति प्रथमश्रुत्यर्थः । पुरु षो जगत्कर्ता स औपनिषदः उपनिषदेकसमधिगम्य इत्यन्यश्रुत्यर्थः । गम्यत्वं ग्राह्यत्वं तद्धितार्थः । आदिशब्दोपात्तश्रुत्यपेक्षया 'श्रुतिभ्य श्च' इति बहुवचनम् । चशब्दोऽध्याहृतसाध्यसमुच्चये, स्वोक्तिसमु च्चये वा । अस्य शास्त्रयोनित्वादित्यनेनान्वयः । कारणस्येति शेषः । तथाचैवमादिश्रुतिभ्यः कारणस्य शास्त्रैकयोनित्वावगमात् नासिद्धि रिति भावः । नञ्द्वयाऽघटितश्रुत्युदाहरणेन सूत्र एकशब्दोऽध्याहा र्य इति सूचितम् ॥ ( ३ ) औपनिषदस्यापि कारणस्यानुमानेन सिद्धिः । किं न स्या दित्यत आह—'न च' इति । चोऽवधारणे । तथा च—'अनुमानस्य' अनुमानमात्रस्य 'प्रामाण्यं' अतीन्द्रियार्थप्रमापकत्वं नेत्यर्थः । तथा च—न तेनान्यस्य जगत्कर्तृतासाधनं युक्तमिति भावः । ननु कथमेत त् 'सर्वधर्मोपपत्तेश्च' (सू. २-१-३८.) इत्याधिकरणे स्वातन्त्र्यादिहे तुना विष्णोः पूर्णत्वादिसिद्ध्यङ्गीकारादित्यत उक्तम्—'नियत' इति। इदं च स्वातन्त्र्यार्थकं प्रमाणरूपप्रकृत्यर्थविशेषणम् । अनुमानस्येति हेतुगर्भम् । तथा च—अनुमानत्वादेव न तस्य स्वातन्त्र्येणादृष्टार्थनि श्चायकत्वं, प्रतिपक्षादिसम्भवात्, किन्त्वस्वातन्त्र्येण । स्वातन्त्र्यं च सहायराहित्यम् । तच्च न स्वातन्त्र्यादिहेतावस्ति श्रुतिसहितत्वात् । पू र्वपक्ष्याशङ्कितसर्वज्ञत्वकार्यत्वाद्यनुमानस्य तु श्रुतिसाहाय्यरहितत्वेन स्वतन्त्रत्वान्न प्रमाणत्वमिति भावः । कुतो नानुमानस्य नियतप्रामा ण्यमित्यत आह—'श्रुति' इति । स्मृतेरप्युपलक्षकमेतत् । अत्र सहाय शब्दो मूलवाची । तस्मात्स्वार्थे ष्यञ् । श्रुतिश्च तत्साहाय्यं चेति कर्म धारयः, ततस्तेन रहितमिति तत्पुरुषः । श्रुत्यनुग्राह्यत्वरहितमिति या वत् । चः समुच्चये । एवशब्दो भिन्नक्रमः । तथा च—'कुत्राचित्' अ