पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 101, कुल 1267 में से
संदर्भ में पढ़ें५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) “नावेदविन्मनुते तं बृहन्तं । सर्वानुभुमात्मानꣲ साम्पराये” ( तै. ब्रा. ३-१२-९. ) “औपनिषदः पुरुषः” ( ) इत्यादि श्रुतिभ्यश्च । तथा च—शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वात् व्यतिरेकेण यज्ञदत्तव त् इत्याद्यनुमानात् विष्णोः 'अन्ये' रुद्रादयोऽपि जगत्कारणत्वेन 'न कल्पनीयाः' न शङ्कया इत्यर्थः । कुत इत्यतस्तत्र हेत्वाकाङ्क्षायां सूत्रमु पन्यस्यति—'शास्त्रयोनित्वात्' इति । जगत्कारणस्येति शेषः । “त न्निर्धारितयुक्तिर्वा” इत्यनुव्याख्यापदे “तन्निर्धारितेत्यतः परं व्याप्ति शब्दोऽध्याहार्यः” इति सुधोक्तेर्यथा तत्र मध्येऽध्याहारः, यथा वा “सर्वेन्द्रियविवर्जितत्वाद्यर्थ उक्तः” इति गीताभाष्यप्रमेयदीपे आ दीत्यतः परं शब्दशब्दोऽध्याहार्य इत्युक्तेस्तत्र यथामध्येऽध्याहारः, य था वा “पुरुषाङ्गश्वविकारसमूहेतेनकृतेषु” इति महाभाष्यवाक्ये समासमध्ये तेनेति पदाध्याहारः, तथाऽत्रापि शास्त्रशब्दात्परमेकश ब्दोऽध्याहार्यः योनिशब्दात्प्राक् ज्ञप्तिशब्दश्च । तथा च—ऋगादिरूपं शास्त्रं च तदेकमसहायं च ज्ञप्तियोनिर्ज्ञप्तिकारणं यस्य वस्तुनः तत्त थोक्तं तस्य भावस्तत्त्वं तस्मादितिसूत्रार्थः । अनेन न जगत्कारणमानु मानिकं तस्य शास्त्रैकसमधिगम्यत्वात् धर्मादिवत् इत्यनुमानमुक्तं भव ति । न च दृष्टान्ते साध्यवैकल्यम् । न हि धर्मादिनिश्चयोऽनुमानेन भ वति । तथा च—अनुमानादन्येषां जगत्कारणतासाधनमयुक्तमिति न तेषु लक्षणस्यातिव्याप्तिरिति भावः ॥ ( २ ) कारणस्य शास्त्रैकवेद्यत्वं कुत इत्यत आह—'न' इति । तै त्तिरीयवाक्यमिदम् । अत्र ह्रस्वोकारपाठः । 'औपनिषदः' इति श्रुत्य न्तरम् । अत्राङः प्रश्लेषः कार्यः । आदिशब्देन “सर्वेवेदा यत्पदं” ( कठ. उ. २-१५ ) “वेदाह्येनं” ( भाल्लवेयं ) “तं त्वौपनिषदं पुरुषं पृच्छामि” ( बृ. उ. ३-९-२६ ) इति वाक्यं च गृह्यते । ‘तं’ पूर्वप्रकृतं ‘बृहन्तं’ पूर्णं ‘सर्वानुभुं’ सर्वमनुभवतीति सर्वा नुभूः तं सर्वज्ञम् । यद्वा—सर्वमनुभावयतीति सर्वानुभुस्तं आत्मानं सर्वजगत्कर्तारं सर्वस्वामिनं वा । 'साम्पराये' सम्यक्परस्याव्यः प्रा प्तिः सम्परायः स एव साम्परायः, तदर्थ्ये सप्तमी, तथा च मोक्षाय। ‘अवेदवित्’—विष्णुतत्त्वनिर्णयटीकोक्तरीत्या अत्र वेदशब्देन सदा