पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 100, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ३. ] दीपिकासहितम्. ५३ ( ६ ) यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ॥ ( ऋ. सं. १०-८२-३. ) इत्यादि च ॥ २ ॥ —: ❖ :— ३. अधिकरणम् ॥ ( १ ) अनुमानतोऽन्ये न कल्पनीयाः । सू—ॐ ॥ शास्त्रयोनित्वात् ॥ ॐ ॥ ३ ॥ मस्य ते महिमानं त्वमेव वित्से । त्वमेव महिम्नः महिमसमुदायस्या न्तं ब्रह्मणः श्रियो वा महिमानमतिशयितो हि विष्णुमहिमा अन्यम हिम्नां परं अन्तं ते महिमानं न कश्चिदाप । यन्नाकं नास्ति तन्नाकम् । ऋष्वं प्रकाशरूपम् । बृहन्तं पूर्णं लोकं उदस्तभाः उदस्तम्भः उच्चैर स्तम्भयः । पृथिव्याः पृथिव्यात्मकस्य ब्रह्माण्डस्य प्राचीं ककुभं दि शं इन्द्रस्थापनेन दाधर्थ धृतवानसि । सर्वधारणोपलक्षणमेतदिति । ( ६ ) जगत्कारणत्वं च ब्रह्मणो न विकारित्वेन, किन्तु पितृत्वन्निमि त्त्वेनैवेति श्रुत्या दर्शयति,— 'यः' इति । 'यः' एक एव 'नः' अस्म दादिसर्वेषां 'जनिता' जनयितैव 'पिता' न दत्तपुत्रपितृत्वत् पालकपि तृमात्रम् । यद्वा—" स एव पितृसंस्थस्तुपातृत्वात्पितृनामकः " इत्यै तरेयभाष्यादिशा " पिता पाता " इति तत्त्वप्रदीपोक्तेः ' जनिता ' जन कः 'पिता' पाता चेत्यर्थः । 'यो विधाता' विशेषेण धारकः पोषकः, “मुक्तानां पोषणं च ज्ञानमोक्षदानेन ” इति तत्त्वप्रदीपोक्तेः । "विधा ता कर्ता" इति प्रमेयदीपोक्तिः । तस्या धारणपोषणयोरिति भावः । यो 'विश्वा' विश्वानि सर्वाणि भुवनानि तद्गत 'धामानि' गृहाणि जीवादिस्वरूपाणि च 'वेद' जानातीत्यर्थः । 'इत्यादि' इति वाक्यं 'उक्तार्थे प्रमाणं' इति शेषः । आदिशब्देन एतज्जातीयकश्रुत्यन्तरं "द्यावाभूमी जनयन्" इति च गृह्यते ॥ २ ॥ ॥ इति जन्माधिकरणम् ॥ —: ❖ :— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पूर्वोक्तजगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य रुद्रादिष्वतिव्याप्तिपरिहाराय जगत्कारणे प्रमाणमुच्यते । सिद्धान्तप्र तिज्ञामुपस्कृत्य दर्शयति—'अनुमानतः' इति । कारणत्वेनेति शेषः