भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 99, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 99

५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (५) परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप ॥ ( ऋ. सं. ७-९९-१२. ) अनन्तो गरुडो वायुः चत्वारो ब्रह्मणा सह ॥ इति प्रमाणानुसारेण प्रकारान्तरेण चतुरुत्तरनवतिरुक्ता । तत्रैव ना मवद्भिः कीर्तिमाद्भिरिति च व्याख्यातम् । (५) एतेषां लक्षणानामतिव्याप्तिं विष्णवेकनिष्ठत्वोक्त्या स्मृत्या चार्थात् परिहृतामपि साक्षादन्यत्र लक्षणाभावं प्रतिपादयन्त्या श्रुत्या निराह—‘परः’ इति । विष्णावित्याकृष्यते । तत्वोद्योतटीकोक्तरीत्या मुक्ता अमुक्ताश्चेति शेषः । अत एव टीकायां क इत्युक्तम् । तथा च- ‘तन्वा’ स्वमूर्त्यैव न तु कीर्तिमात्रेण ‘वृधान’ अपरिच्छिन्न हे वि- ष्णो त्वं यतो ‘मात्रया’ मितेः ‘परः’ विलक्षणोऽसि अपरिमितोऽसी- ति यावत् । अत एवंभूतस्य ‘ते महित्वं’ जगत्सृष्ट्यादिरूपं महिमा- नं’ ‘अनु’ अपि केऽपि मुक्ता अमुक्ताश्च ‘नाश्नुवन्ति’ न प्राप्नुव- न्तीत्यर्थः । यद्वा—‘नाश्नुवन्ति’ नानुभवन्तीत्यर्थः । नाश्नुवन्तीति वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह—‘न’ इति । प्राप्नोतीति शे- षः । तथा च—हे ‘विष्णो’ ‘देवमहिम्नः’ रमादिमहिम्नः ‘परं अन्तं’ सीमानं महिमतारतम्यपरावधिभूतं ‘ते महित्वं’ महिमानं ‘जायमा- नो’ न प्राप्नोति, जातो ‘नाप’ इत्यर्थः । उपलक्षणं चैतत् जनिष्यमा- णो न प्राप्स्यतीत्यपि द्रष्टव्यम् । अत एव तत्त्वप्रदीपे—“परो मात्रया तन्वा वृधान । न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथि- व्या विष्णो देवत्वं परमस्य वित्से । न ते विष्णो जायमानो न जा- तो देवमहिम्नः परमन्तमाप । उदस्तम्भा नाकमृष्वं बृहन्तं दाधर्थ प्रा- चीं ककुभं पृथिव्याः” इति ऋग्द्वयमेवमेव व्याख्यातम् । तथा हि—मा- त्रायाः परः परिमाणातीतः तन्वा वृधानः तन्वा वर्धमानः देहेन पू- र्णः—इत्थं भावे तृतीया—देहरूपेण पूर्ण इत्यर्थः । यतश्चिदानन्दाद्या- त्मको विष्णोरभिन्नश्च देहः । ते महित्वं महिमानं नानुभवन्ति न प्रा- प्नुवन्ति च । ते त्वदीयायाः पृथिव्याः प्रकृतेः रजसी रजोगुणकार्ये उभे पुण्यपापे वयं विद्मः । प्रकृतेः रजसा हि पुण्यपापे सृज्येते । पर