पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 98, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २. सू - २. ] दीपिका सहितम्. ५१ ( ४ ) य उ त्रिधातु पृथिवीमुत द्यां एको दाधार भुवनानि विश्वा ॥ ( ऋ. सं. १-१५४-४. ) चतुर्भिस्साकं नवतिं च नामभिः चक्रं न वृत्तं व्यतीँरवीविपत् ॥ ( ऋ. सं. १-१५५-६. ) च—‘इमानि भूतानि यतो जायन्ते येन जातानि’ उत्पन्नानि ‘जीव न्ति’ प्राणं दधति ‘यत्’ च प्रलये ‘प्रयन्ति’ प्रविशन्ति यच्च ‘अ भि’ स्वेच्छया सम्यक् ‘विशन्ति’ मुक्तौ ‘तत्’ तदेव ‘ब्रह्म’ ना न्यत् । मुख्यतः तज्ज्ञानाय वेदार्थभूतं ‘तद्विजिज्ञासस्व’ तद्विषयक विचारं कुर्वित्यर्थः । इतिशब्दः श्रुतिस्थ एव । तस्य ‘इति वरुणो भृ गुमुवाच’ इति क्रियापदेनान्वयः ॥ ( ४ ) लक्षणस्यातिव्याप्तिशङ्कां उक्तानुमानस्य व्यभिचारशङ्कां वा परिहर्तुं स्पष्टार्थत्वात्प्रथमं स्मृतिमुपन्यस्य इदानीं सृष्ट्यादिकर्तृत्वं प्रत्येकमपि विष्णवेकनिष्ठं किमु सर्वमिति भावेन स्थितिकर्तृत्वस्य विष्णवेकनिष्ठत्वे श्रुतिमाह—‘यः’ इति । उशब्द एवार्थः, त्रिधात्वित्ये कं पदं, उतशब्दस्समुच्चये । तथा च—‘यो’ विष्णुः ‘एकः’ एव ‘त्रि धातु’ प्रकृतिपुरुषकालधारकः ‘पृथिवीं’ भूमिं ‘द्यां’ श्रियं च ‘वि श्वा’ विश्वानि सर्वाणि च ‘भुवनानि’ ‘दाधार’ दधारेत्यर्थः । नियम नस्यापि विष्णवेककर्तृत्वे श्रुतिमाह—‘चतुर्भिः’ इति । स इति शेषः, नशब्द इवार्थः, चशब्दो मात्रार्थः । तथा च—स बृहच्छरीरो मूलरूपी विष्णुः ‘नामभिश्च’ नाममात्रैः स्वरूपभेदशून्यैः ‘चतुर्भिः’ वासुदेव सङ्कर्षणप्रद्युम्नानिरुद्धैः ‘साकं नवतिं’ नवतिसङ्ख्याकान् ‘व्यतीन्’— देवेषु यौगिकोयं शब्दः—विशेषेणाधिकान् देवान् किमुतान्यान् ‘वृत्तं चक्रं न’ वर्तुलं रथाङ्गमिव युगपत् ‘अवीविपत्’, विपपरिवर्तन इति धातुः, पर्यवर्तयदित्यर्थः । अष्टौ वसवः एकादश रुद्राः विष्णुव्यतिरि क्तैकादशादित्याः हिरण्यगर्भेण सह दश प्रजेश्वराः प्रधानेन पञ्चाश न्मरुत इति नवतिः । तत्त्वप्रदीपे तु—प्रथमं टीकोक्तार्थमभिधाय— आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि । बृहस्पतिश्च कामश्च मनुर्दक्षो विनायकः । भृगुश्चैवानिरुद्धश्च धर्मो निर्ऋतिरेव च । कुबेरसहिता देवाः नवतिस्सम्प्रकीर्तिताः ।