पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1021, कुल 1267 में से
संदर्भ में पढ़ें९७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] 'ब्रह्मविदाप्नोति परम्' (तै. २-१.) इत्यादि फलं स्वामिनां देवानामेव भवति । 'यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भव ति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः' इ ति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ ४४ ॥ (२) सू-ॐ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रि यते ॥ ॐ ॥ ४५ ॥ शंकं सूत्रमुपन्यस्य व्याचष्टे—स्वामिन इति ॥ इत्यादीति लुप्तविभ क्तिकम् । उक्तमिति शेषः । फलं स्वामिनामित्यनेन स्वामिन इति स मुदायैकवचनान्तं हेतुगर्भं, फलेति लुप्तविभक्तिकमिति सूचितम् । त था च 'ब्रह्मवित्' इत्यादिनोक्तं ज्ञानफलं 'स्वामिनो' ज्ञानस्वामिनां देवानामेव भवति, न प्रजानाम् । कुतः ? श्रुतेः 'यदु किञ्चेमाः' इति फलश्रुतेः । देवानामिन्द्रियादिप्रेरकत्वेन ज्ञाने स्वामित्वाच्चैवाचार्य आत्रेयोपि मन्यत इति योजना । श्रुतावुशब्द एवार्थः । तथा चेमाः प्रजाः यदेव किञ्चन शुभं कर्माचरन्ति तद्देवा एवाचरन्ति । तेषां कर्म साधनेन्द्रियादिप्रेरकत्वेन तत्स्वामित्वादिति भावः । एवं प्रजाः यदे व किमपि विजानते तद्देवा एव जानन्तीत्यर्थः । भावस्तु पूर्वोक्त एव । ननु प्रजाकर्तृकयोः कर्मज्ञानयोः कथं देवस्वामिकत्वमित्यत आह— देवानां हीति । 'हि' यतो देवानामेतच्छुभकर्मादि भवतस्तस्तेषामेव फलं भवतीत्यर्थः । ननु कर्तुरेव फलावश्यंभावात् कथं स्वामिनः फ लमित्यतो दृष्टान्तमाह—स्वामी हीति । लोक इति शेषः । कृष्यादि स्थले तथा दर्शनादिति हिशब्दार्थः । तत्त्वप्रदीपे तु न हान्य उपास्ते न हान्यः फलमश्नुत इति समञ्जसं भवेदित्यादिना प्रजानामेव फलं न स्वामिनामिति प्राप्ते स्वामिनामपि फलं, तस्य महत्त्वाद्भाष्ये एवश ब्दः । प्रजानां त्वल्पमिति सिद्धान्तपरतयेदं सूत्रं व्याख्यातम् ॥ (२) एवमात्रेयमतावलम्बेन पूर्वपक्षिते सिद्धान्तयत्सूत्रं पठति— आर्त्विज्यमिति । अत्रार्त्विज्यमिति लुप्तोपमानम् । ऋत्विजामिदमा र्त्विज्यम् । ऋत्विजां यज्ञफलमिवेति यावदित्याशयेन सूत्रं व्याचष्टे— सत्रयागेष्विति । ऋत्विजामपीति । अगृहपतीनामिति शेषः । न केवलं गृहपतेरित्यपेरर्थः । अगृहपतीनामपीति वा । फलं यज्ञफलम् । अनेन