पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1025, कुल 1267 में से
संदर्भ में पढ़ें९७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] विहितस्सहकारित्वे सहकार्यन्तरं प्रजाः । पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥ तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् । ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम् ॥ इति ॥ ४६ ॥ -- ८. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ॐ ॥ ४७ ॥ त एव प्राक् स्ववाक्ये सहकारित्वेनेत्येतावदेवोक्तम् । राज्ञः पातृत्वेन निमित्तेन प्रजास्तस्य सहकार्यन्तरमित्यन्वयः । पालने व्याख्याने चेति क्रमेण शेषः । तस्माद्देवानां ज्ञानदाने प्रजानां सहकारिमात्रत्वादाचा- र्याणां मुख्यसहकारित्वात्तासां प्रजानां 'यावच्छ्रुतं' यावत्प्रमाणसिद्धं तावत्फलं भवति । अतो 'महत्तरं' महत्फलं आचार्याणां भवति । 'त- तः' आचार्यात् 'देवानां' ब्रह्मान्तानां 'उत्तरोत्तरं' महत्तरं 'मुक्ताव- ष्टगुणं शिष्याद्गुरोराप्नोति' इत्युक्तरीत्याऽतिशयितं फलं भवतीत्यर्थः । इति वाराहे इत्यन्वयः । न केवलं सूत्रकृतेति चशब्दार्थः । वाराह इत्य- नन्तरं देवानामित्यादिनोक्तमभिहितमिति वाक्यशेषः ॥ सूत्रार्थस्तु 'तत्' वक्ष्यमाणं 'पक्षेण' पक्षत्वेन 'तृतीयं' तृती- यः पक्षः । स च स्वस्य भगवतो बादरायणस्यैव पक्षः, नौडुलोमिना ज्ञातः । कोऽसौ ? यो देवानां स्वविहिते ज्ञानदाने कर्मणि प्रजानां 'स- हकार्यन्तरविधिः' यद्देवैराचार्याणां सहकारित्वेन प्रजानां सहकार्य- न्तरत्वेन कारणम्, अत एवोभयोः फलवैलक्षण्यं च । तत् कथं ? 'त- द्वतो विध्यादिवत्' यथा प्रजावतो राज्ञः शिष्यवतो गुरोश्च पालने व्याख्याने च प्रजानां शिष्याणां च सहकारितया विधिः तथेति । आ- दिशब्दो गुरो राज्ञश्च महत्फलमिति सूचयति ॥ ७ ॥ ॥ इति फलभूत्यधिकरणम् ॥ -- ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मज्ञाने विशेषाधिकारिणां यतीनां सर्वाश्र- मिभ्योऽतिशयसमर्थनेन ज्ञानमहिमा वर्ण्यते । पूर्वपक्षादिप्रदर्शनार्थं सूत्रं पठति—कृत्स्नेति ॥ अत्र गृहिणोपसंहार इत्यंशसूचितं सयुक्ति