पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1033, कुल 1267 में से
संदर्भ में पढ़ें९८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] सितव्यः' (बृ. ४-४-५.) इति दर्शनार्थं श्रवणादि विधीयते। तच्च दर्शनमैहिकमेव प्रारब्धप्रतिबन्धाभावे। (२) श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्य इहैव दृष्टिं परमस्य विन्देत्। यद्यारब्धं कर्म निबन्धकं स्या त्प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य ॥ श्रुतिप्रकृतपरामर्शीत्याशयेन तत्पदार्थं वदन् तस्यैहिकपदेनान्वयं प्रदर्श यति—आत्मेति। तच्च तद्दर्शनं चेति विग्रहः। दर्शनं ब्रह्मदर्शनम्। च शब्दो विशेषणसमुच्चये। तथा च 'आत्मा' इति श्रुतौ यद्दर्शनार्थं श्र वणादि विधीयते तच्छ्रवणादिसाध्यत्वेन श्रुतं दर्शनं 'ऐहिकं' इह जन्मनि भवमेव यस्मिन् जन्मनि श्रवणादिसम्पत्तिः तज्जन्मभवमेव, न तु तस्मिन् जन्मन्येवेति नियम इत्यर्थः। न च क्वचिच्छ्रवणादिसम्प त्तिजन्मनि ज्ञानानुदयविरोध इत्यतः प्रवृत्तस्याप्रस्तुतप्रतिबन्ध इत्य स्यार्थमाह—प्रारब्धेति। ज्ञानोदयविघटकत्वेन प्रसक्तप्रतिबन्धकाभा वे इत्यर्थः। तथा च प्रतिबन्धकाभावे तद्दर्शनमैहिकमेव, प्रतिबन्धे तु जन्मान्तर इति अनियमाभ्युपगमात्। क्वचित्कारणे सत्यपि कार्यानुद यस्य प्रतिबन्धकप्रयुक्तत्वान्नोक्तदोष इति भावः। अनेन सूत्रे ऐहिक मित्यावर्तते तच्च सावधारणम्। तदिति व्यस्तमावर्तते। तथा च त च्छ्रुतौ श्रवणादिफलत्वेनोक्तं ब्रह्मदर्शनमैहिकमेव। न च क्वचित्तदभा वविरोधः। यतस्तद्दर्शनं प्रस्तुतप्रतिबन्धे जन्मान्तरे भवं' अप्रस्तुतप्र तिबन्धे त्वैहिकमेवेत्यनियमाभ्युपगमोऽत इति सूत्रखण्डार्थ उक्तो भ वति ॥ (२) उभयं कुत इत्यतः तद्दर्शनादित्येतद्व्याचष्टे—श्रुत्वेति॥ 'आ त्मानं' परमात्मानं श्रुत्वा अथ 'मतिपूर्वं' मननपूर्वकं 'उपास्य' ध्या त्वा 'इहैव' श्रवणादिसम्पत्तिजन्मन्येव 'परमस्य' विष्णोर्दर्शनं 'वि न्देत्' प्राप्नुयात्। प्रारब्धप्रतिबन्धाभाव इति शेषः। तत्सत्त्वे त्वाह— यदीति। 'निबन्धकं' नितरां बन्धकं आरब्धं ज्ञानप्रतिबन्धकं कर्म य दि स्यात्। तर्हीति शेषः। 'प्रेत्य' अस्माच्छरीरान्मुक्त्वा ज्ञानं तु योगमुद्दिष्टं युज्यते तेन यत्सुखम्। क्वचियोग उपायस्स्यात्क्वचिच्चित्तनिरोधनम् ॥ इत्यभिधानाद्योगशब्दोक्तं श्रवणाद्युपायं पुनः किंचित् 'अन्ववेक्ष्य'