पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1034, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - ५०. ] दीपिका सहितम्. ९८७ इति सौपर्णश्रुतौ तद्दर्शनात् । ( ३) अनादिजन्म सम्बन्धं निर्भेत्तुं पापपञ्जरम् । यावत्या सेवया शक्यं तावत्कार्यं न संशयः ॥ यावद्दूरे स्थितो गम्यात्तावद्गन्तव्यमेव हि । इह जन्मान्तरे वापि तावत्यैव तु दर्शनम् ॥ (४) श्रवणं मननं चैव निधिध्यासनमेव च । परे गुरौ च या भक्तिः परिचर्यादिकं हरेः ॥ अपेक्ष्यैव कृत्वैव परमस्य दृष्टिं विन्देदित्यर्थः । श्रुतौ दर्शनादित्यनेन तस्यां श्रुतौ तस्यार्थस्य प्रतिबन्धकसदसत्त्वयोरैहिकानन्तर्यकत्वरू- पार्थस्य दर्शनादुक्तत्वादिति सूत्रखण्डार्थ उक्तो भवति ॥ ( ३ ) श्रुतिसिद्धार्थे स्मृतिं चाह—अनादीति ॥ पञ्जरशब्दोऽस्त्री- लिङ्गः पतत्रिगतिप्रतिबन्धकनीडवाची । तथा च प्रवाहतोऽनादिजन्म- भिः सम्बन्धो यस्य तत्, अनादिजन्म सम्बन्धं अनादिजन्मकारणं पा- पमेव पञ्जरसदृशं पापरूपज्ञानप्रतिबन्धकं ‘यावत्या सेवया’ यावज्ज- न्मभवेन सेवनेन ‘निर्भेत्तुं’ विदारयितुं शक्यं तावत्सेवनं कार्यमित्यर्थः । अनादीति व्यस्तं वा पदं पापविशेषणम् । तथात्वे जन्मसम्बन्धमिति कर्मणि घञन्तं, जन्मभिः सम्बन्धं यदनादि पापं तदेव पञ्जरमित्यर्थः । अत्र निदर्शनमाह—यावदिति । ‘गम्यात्’ प्राप्याद्ग्रामादेस्तदपेक्ष्य यावद्दूरे स्थितो जनः तावद्दूरं तेन गन्तव्यमिति हि प्रसिद्धमित्यर्थः । ननु ‘तद्यथा पुष्करपलाशे’ (छां.४-१४-३.) ‘यथेषीकातूलम्’ (छा.५-२४- ३.) इत्यादि श्रुतेः ब्रह्मदर्शनैकसाध्यः पापपञ्जरनिर्भेदः कथं सेवया भवेदित्यत आह—इहेति । इह सेवाजन्मनि जन्मान्तरे वा यावत्या सेवया पापपञ्जरं निर्भेत्तुं शक्यं तावत्यैव सेवया दर्शनं भवति । अथ पापपञ्जरनिर्भेदो भवतीत्यर्थः । तुशब्दः प्रतिबन्धकाभावभावयोरिह जन्मान्तरे वेति विशेषद्योतकः । तथा च पापपञ्जरनिर्भेदस्येह जन्मनि जन्मान्तरे वा सेवासाध्यदर्शनसाध्यत्वाभ्युपगमात् साक्षात्सेवासाध्य- त्वानभ्युपगमान्न श्रुतिविरोध इति भावः ॥ (४) ननु श्रवणाद्येकसाध्यं ज्ञानं कथं शुश्रूषारूपसेवया स्यादित्य- त आह—श्रवणमिति ॥ चशब्दः परस्परसमुच्चये । एवशब्दावेवमि- त्यर्थौ । ‘परे’ परमात्मनि विषये परिचर्या पूजा । आदिपदाच्छमनादि