पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1037, कुल 1267 में से
संदर्भ में पढ़ें९९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ] न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः ॥ इति नारायणाध्यात्मे ॥ ५१ ॥ --- इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र भाष्ये तृतीयाध्यायस्य चतुर्थः पादः. ॥ तृतीयाध्यायस्समाप्तः ॥ :--: ॥ ॐ ॥ ─ इत्यादिनाको नियमः युक्त इति पूर्वेणान्वयः । सूत्रे फलशब्दो ज्ञानफ लेषु मोक्षस्य प्राधान्यज्ञापनार्थः । तदुक्तं तत्त्वप्रदीपे—सर्वपुरुषार्थप्रा प्तिदर्शनादित्युक्तेऽपि इतरेषामानुषङ्गिकत्वं, साक्षात्फलत्वं मुक्तेरेवेति फलशब्द इति । द्विरुक्तिस्त्वेतदध्यायार्थस्य प्रामाणिकत्वसूचनार्थेति द्रष्टव्यम् । तदुक्तमैतरेयभाष्ये— सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः । अध्यायान्ते द्विरुक्तिस्स्यात्पूर्वोक्तस्यावधारणे ॥ इति ॥ 'अवधारणे' निर्णयकग्रन्थे । 'आध्यायमूलतः' अध्यायमूलमारभ्य पूर्वोक्तस्यार्थस्य सर्वप्रमाणसिद्धत्वं वक्तुं अध्यायान्ते द्विरुक्तिस्स्या दित्यर्थः ॥ ११ ॥ ॥ इति मुक्तिफलाधिकरणम् ॥ ───────────────── इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां तृतीयाध्यायस्य चतुर्थः पादः. ॥ तृतीयाध्यायस्समाप्तः ॥ --:-:- ॥ ॐ ॥ ─