पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1036, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. - सू - ५१. ] दीपिकासहितम्. ९८९ त्येव ब्रह्मसंस्थोऽमृतत्वमेत्येव ' ( ) इति ब्र ह्मसंस्थस्य मोक्षस्यैवावधारणात् । ( ३ ) विद्वानमृतमाप्नोति नात्र कार्या विचारणा । अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ॥ स्थावधृतेरित्यंशं तच्छ्रुत्युदाहरणपूर्वकं व्याचष्टे—धर्मीति ॥ 'धर्मी' पुण्यकर्मवान् 'विधर्मी' पापकर्मवान् तत्कर्ता 'ब्रह्मसंस्थो' ब्रह्मद र्शी 'अमृतत्वं' मुक्तिं 'एति' प्राप्नोति एवशब्देन क्वचित् तद्योगं व्य वच्छिनत्ति एत्येव ब्रह्मसंस्थोऽमृतत्वमिति । द्विर्वचनं तात्पर्यद्योतनार्थ म् । इतीत्यनन्तरं श्रुताविति शेषः । 'ब्रह्मसंस्थस्य' ब्रह्मदर्शिनः ब्रह्म ज्ञानस्येति यावत् । 'मोक्षस्यैव' मुक्तिहेतुत्वस्यैव । आवर्तनीयोऽयमे वशब्दः । तथा चैवशब्देन मुक्तिहेतुत्वस्यैवावधारणात् एतज्जन्मन्येवे त्यनवधारणादित्यर्थः । अनेन प्रतिबन्धकदशायां सति ज्ञाने मोक्षाभा वेनावधारणानुपपत्तिः । प्रतिबन्धकाभावेऽपि ज्ञाने सति मोक्षाभावे तु ब्रह्मसंस्थस्य तद्दर्शनस्य मोक्षहेतुत्वावधारणानुपपत्तिरेव । अतः श्रौत मोक्षहेतुत्वावधारणान्यथाऽनुपपत्त्या प्रतिबन्धककल्पना युक्ता । तथा च प्रतिबन्धकसद्भावोऽनियमहेतुः, तदाक्षेपकं चावधारणं, तस्यासि द्धिनिवारिका श्रुतिरित्युक्तं भवति । अथ वा—ज्ञानिनः तद्देहपातान न्तरमेव मोक्षो जन्मान्तराणि प्राप्य वा इति मोक्षफलानियमे एव श्रु तिः प्रमाणम् । अत्र पक्षे श्रुतौ ज्ञानिनो मोक्षस्यैवावधारणादेतद्देहपा तानन्तरमेवेत्येवंरूपनियमस्यानवधारणान्नियमायोगस्याव्यवच्छेदान्नि यमानुक्तेरिति हेतुवाक्यार्थस्यैव मुक्तिफलानियम इति साध्येनान्वयः । अत्र भाष्यस्थैवकारोऽन्ययोगव्यवच्छेदकः, श्रुतिगतस्त्वयोगव्यवच्छे दक इति द्रष्टव्यम् ॥ ( ३ ) ननु श्रुतौ नियमानुक्तिमात्रं नानियमसाधकमित्यतः स्मृति मुदाहरति—विद्वानिति ॥ 'विद्वान्' ब्रह्मापरोक्षज्ञानी 'अमृतं' मुक्ति माप्नोत्येव । नात्र सन्देहः कार्य इत्यर्थः । परन्तु यस्मिन् जन्मनि ज्ञान मुत्पन्नं तद्देहपातानन्तरमेवेति न नियम इत्याह—अवसन्नमिति । 'य त्' यदि आरब्धं कर्म 'तत्रैव' तद्देह एव 'अवसन्नं' पर्यवसन्नं तद्दे हपातानन्तरमेवामृतं 'गच्छति' प्राप्नोति । अवसन्नं न चेत् बहूनि ज न्मानि प्राप्यैव जन्मान्तरं प्राप्यैव 'अन्ते' प्रारब्धक्षयान्ते अमृतं गच्छ ति नात्र संशय इत्यर्थः । नारायणाध्यात्म इत्यस्य 'प्रारब्धकर्माभावे'