भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1039, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1039

१९२ ब्रह्मसूत्रभाष्यम् [ अध्या - ४. पा - १. ] ष्यते । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः । ( २ ) सू—ॐ ॥ आवृत्तिरसकृदुपदेशात् ॥ ॐ ॥ १ ॥ 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- सितव्यः' ( बृ. ४-४-५. ) इत्यादीनां नाग्निष्टोमादिव- देकवारेणैव फलप्राप्तिः, किन्त्वावृत्तिः कर्तव्या । ' स वपि न व्यवस्थाऽभावलक्षणविरोधो भवति। कुतः ? समन्वयाध्याया- नां नामादिपादानां च 'प्रायिकत्वात्' प्राचुर्येण स्वस्वैकार्थप्रतिपाद- कत्वादिति योजना । न चास्य पादस्य कर्मक्षये प्रायिकत्वानुपपत्तिः, अधिकरणसप्तके साधनविचारात् फलस्य चैकस्मिन्नेवाधिकरणे वि- चारादिति वा वाच्यम् । योऽर्थः प्रायेण कार्त्स्न्येन प्राधान्येन च यत्र प्रतिपाद्यते सोऽध्यायादिस्तदर्थक इत्यस्यार्थस्यात्र विवक्षितत्वात् । त- था च कर्मक्षयवत् साधनस्य कार्त्स्न्येन प्राधान्येन एतत्पादविचार्य- त्वाभावान्नोक्तानुपपत्तिरिति भावः ॥ ( २ ) तत्र सङ्गत्यादिजिज्ञासाजननाय सूत्रमेवादौ पठति—आवृ- त्तिरिति ॥ सूत्रे आवृत्तिरिति प्रतिज्ञांशं कर्तव्येति पदाध्याहारेणावृत्ति- पदसूचितपूर्वपक्षनिषेधपूर्वकं व्याचष्टे—आत्मेति । इत्यादीनामिति । इति श्रुत्या आदीर्यन्ते उपादीयन्ते वाच्यतयेति इत्यादीनि तेषामित्य- र्थः । श्रवणादीनामिति शेषः । यद्वा—इत्यादिश्रुत्युक्तानां श्रवणादीना- मित्यर्थः । अत्रादिशब्देनैतज्जातीयवाक्यान्तरं गृह्यते । प्राप्तिरिति प्रथ- मा पञ्चम्यर्थे । यत इति शेषो वा । नेत्यावर्तते, इतीति च । अग्निष्टोमा- दीत्यादिशब्देन दर्शपूर्णमासादिकं गृह्यते आवृत्तिरिति सावधारणमे- तत् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेन वाक्येन अन्येन वा अवगतिः श्रवणावृत्तिः । युक्त्या मननावृत्तिरप्येवमेव । तथा च 'अग्निष्टोमादिवत्' यथा सकृदनुष्ठिताग्निष्टोमादेः स्वर्गफलसिद्धिरस्त- था श्रवणादीनामपि 'एकवारेण' सकृदनुष्ठानेनैव 'फलप्राप्तेः' फल- सिद्धेः 'आत्मा' इत्यादिश्रुत्युक्तानां श्रवणादीनां नावृत्तिरतोऽनावृत्तिरि- ति पूर्वपक्षो न, किन्तु श्रवणादीनामावृत्तिरेव कर्तव्येति योजना । कुत इत्यतोऽसकृदुपदेशादिति हेत्वंशं व्याचष्टे-स इति । इत्यादीति । इत्यादि- रूपो योऽयमसकृदुपदेशः अनेकवारमुक्तिस्तस्मादित्यर्थः । आदिशब्देन 'स आत्मा तत्त्वमसि' (छा.६-८-७.) इति शिष्टवाक्यं गृह्यते । श्वेतकेतुं प्रति उद्दालकवाक्यमेतत् । प्रकृतः परदेवताख्यो विष्णुः सारत्वात्सः।