भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1040, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1040

[ अधि - १. सू - २. ] दीपिकासहितम्. ९९३ य एषोऽणिमैतदात्म्यमिदं सर्वम्' (छा. ६-८-७.) इत्याद्यसकृदुपदेशात् ॥ १ ॥ ( ३ ) सू— ॐ ॥ लिङ्गाच्च ॥ ॐ ॥ २ ॥ ‘स तपोऽतप्यत.. पुनरेव वरुणं पितरमुपससार’ (तै. ३-१,२.) इत्याद्यावर्तनलिङ्गाच्च । नियमनात् ज्ञानरूपत्वाद्वा यः । सर्वस्येष्टत्वादविग्नसर्वेच्छारूपत्वाद्वा एषः। सूक्ष्मज्ञानविषयत्वादतिसूक्ष्मपरिमाणत्वाद्वा अणिमा। 'इदं सर्वं' जगत् 'ऐतदात्म्यं' एतत् सत् आत्मा स्वामी यस्य तत्तथोक्तम्। यद्वा- एष चासावात्मा च तदात्मा विचित्रा हि तद्धितगतिरिति वचनात्, त स्येशमित्यर्थे ष्यञ्प्रत्ययः तद्वशमित्यर्थः । तत्तत्वात् तत् परमानन्दत्व तः साधुस्वरूपत्वाद्वा सत्यं साधनात् सः पूर्णगुणत्वादात्मा। तत्त्वं अ तत् त्वमिति च पदच्छेदः। तथा च त्वं 'तत्त्वं' तत्त्वतः 'अतदसि' त स्मादन्योऽसीति छन्दोगश्रुत्यर्थः । अनेनोद्दालकेन श्वेतकेतुं प्रति परत त्त्वस्य 'असकृत्' नवकृत्वः 'उपदेशादुपदिष्टत्वात् ज्ञानार्थं श्रवणा दीनामावृत्तिः एव कर्तव्या । श्रवणादेः सकृदेव कर्तव्यत्वे किमर्थमसा वसकृदुपदिशेदिति भाव इति सूत्रार्थ उक्तो भवति ॥ ( ३ ) हेत्वन्तरेण श्रवणाद्यावृत्तिं साधयत्सूत्रं पठित्वा व्याचष्टे— लिङ्गाच्चेति ॥ आदिशब्देन 'अधीहि भगवो ब्रह्मेति । तꣳ होवाच । तप सा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति' (तै. ३ - २.) इत्यादिकं गृह्यते । 'स तपः' इत्यतः प्रागपि 'तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुःश्रोत्रं मनो वाचमिति । तꣳहोवाच । यतो वा इमानि भूतानि जायन्ते' (तै. ३ - १.) इत्यादिकमप्युदाहरणीयम् । इत्थं हि तैत्तिरीये आख्यायिका—वरुणपुत्रो भृगुः ब्रह्माध्यापयेति पित रमुपसादितवान् । अथ वरुणस्तस्मै भृगवे अन्नमयादिरूपाष्टकमुप दिदेश । तेषां जगज्जन्मादिकारणत्वादिलक्षणान्यप्युवाच । एवं श्रुता न्नादिरूपो भृगुः पुनःपुनस्तद्विषय एवापृच्छत । तथैव वरुणो ऽप्युपदिदेश । एवमुपदिष्टस्स भृगुः 'तपः' आलोचनं 'अतप्यत' अ करोत् । स तपस्तप्त्वा अन्नमयाख्यमनिरुद्धरूपं जगज्जन्मादिकर्तृत्वल क्षणवत्तया साक्षात्कृतवान् । स भृगुरेकरूपं साक्षात्कृत्य द्वितीयमपि साक्षात्कर्तुं गुर्वनुग्रहार्थं पुनरेव वरुणं पितरं 'उपससार' उपसादि तवान् । हे 'भगवो' भगवन् प्राणमयाख्यं ब्रह्म साक्षात्कर्तुमिति शेषः। १२५