पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1041, कुल 1267 में से
संदर्भ में पढ़ें९९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] नित्यशः श्रवणं चैव मननं ध्यानमेव च । कर्तव्यमेव पुरुषैर्ब्रह्मदर्शनमिच्छुभिः ॥ इति बृहत्तन्त्रे ॥ २ ॥ -- २. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ॐ ॥ ३ ॥ ‘अधीहि’ अनुज्ञां देहि अनुजानीहीति वाच्ये विनयप्रदर्शनायैवमुक्तिः । एवं भृगुणोक्तो वरुण उवाच । किमिति ? ‘तपसा’ ज्ञानानुसन्धानरू- पालोचनेन ब्रह्म विजिज्ञासस्व ‘तपो ब्रह्म’ ज्ञानरूपं ब्रह्मेति तपसो ब्र- ह्मज्ञानहेतुत्वात्तपो ब्रह्मेत्यभेदोपचार इति ग्रन्थान्तरे । इत्याद्यावर्तन- लिङ्गादिति । एवमादिवाक्यबोध्यं यदनुज्ञाप्रार्थनाऽऽवर्तनादिरूपं श्र- वणावर्तनलिङ्गं तस्मादित्यर्थः । चशब्दो न केवलं उपदेशाख्यगुरुव्या- पाराद्धेतोरावृत्तेः कर्तव्यतासिद्धिः, किन्तु श्रुतस्य पुनरालोचनेनापरो- क्षितत्वरूपशिष्यव्यापाराख्यलिङ्गदर्शनादपीति हेतुसमुच्चये । लिङ्गा- च्चेत्यस्यावृत्तिः कर्तव्येति पूर्वेणान्वयः । अस्य श्रवणादित्रितयावृत्ति- साधकत्वादयोगविभागः । यद्यपि श्रौतलिङ्गदर्शनवलान्मनननिदिध्या- सनयोरेवावृत्तिः सिद्ध्यति, न श्रवणादीनां त्रयाणाम् । तथाऽपि श्रुता- न्नमयादीनां जगज्जन्मादिकारणत्वेन यद्ब्रह्मत्वं प्रागुक्तम्, तस्य ‘तपो ब्रह्म’ इत्यनेन सर्वत्र तद्घटकसार्धश्लोकोक्तोपपादनस्य श्रवणाद्यावर्तने लिङ्गत्वं सम्भवत्येव । न चान्नमयरूपे तपश्शब्दोक्तसार्धश्लोकेन ब्रह्मत्वा- नुपपादनात्कथमेतत्षड्रूपाणां श्रवणाद्यावर्त्तनलिङ्गत्वमिति वाच्यम् । तत्रालिङ्गत्वेऽपि तदितररूपेषु लिङ्गत्वसम्भवेन ब्रह्मविषयकश्रवणा- द्यावृत्तावस्य लिङ्गत्वाविरोधात् । न च भृगुकर्तृकश्रवणादेरेकरूपवि- षयत्वाभावात्कथमियमावृत्तिरिति वाच्यम् । एकैकरूपविषयेऽपि सा- मान्यविशेषाभ्यां द्विश्चश्रवणादिप्राप्तेः ॥ १ ॥ ॥ इति आवृत्त्यधिकरणम् ॥ -- २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आत्मत्वोपास्तेर्नित्यशः कार्यत्वं समर्थ्यते । आत्मत्वं न सर्वथा सदोपास्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य- ति—आत्मेति ॥ अत्रात्मशब्दः प्रकारार्थः, इतिशब्दश्चावर्तते । तत्रा-