भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 104, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 104

[ अधि - ३. सू - ३ ] दीपिकासहितम्. ५७ ( ६ ) शक्यत्वाच्चानुमानां सर्वत्र । ( ७ ) सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा । तस्मान्न सा शक्तिमती विनाऽगममुदीक्षितुम् ॥ इति वाराहे । ( ८ ) रेतो धातुर्वटकणिका घृतधूमाधिवासनम् । जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् । प्रेत्य भूताप्ययश्चैव देवताऽभ्युपयाचनम् । कार्य इत्यर्थः । केचित्तु-क इत्यस्योभयार्थत्वमाश्रित्य “कश्छन्दसा म् ” ( ऋ० १०-११५-२. ) इति वाक्यं 'अत्र' इत्यनेन परामृश्यते । अतएव 'इत्याद्यं' इत्यपि युक्तमित्याहुः । 'कौर्मे' इत्यनन्तरं पुराणे यत उक्तमिति शेषः । अस्य 'न च' इत्यनेनान्वयः ॥ ( ६ ) न केवलं श्रुत्यादिसाहित्यहीनानुमानस्य प्रामाण्याभावे सा धकसद्भावः, अपि तु तत्प्रामाण्याभ्युपगमे बाधकं चास्तीत्याह—'श क्यत्वात्' इति ॥ प्रयोक्तुमिति शेषः । 'अनुमानां' इति कर्मणि ष ष्ठी । चशब्दो न केवलमित्युक्तसमुच्चयार्थः । तथा च—श्रुत्यादिसा हित्यहीनानां 'अनुमानां' चेतनत्ववस्तुत्वादिरूपकेवलहेतूनां 'स र्वत्र' रुद्रादेर्जगत्कारणत्वाभावादौ शशादेः शृङ्गित्वादौ साध्येऽपि प्रयोक्तुं 'शक्यत्वात्' नानुमानस्य नियतप्रामाण्यमिति योजना ॥ ( ७ ) अत्रैव प्रमाणमाह—सर्वत्रेति ॥ 'हि' यस्मात् 'आगमं वि ना' तद्धीना 'अनुमा' 'सर्वत्र' ईश्वरकारणत्वाभावादौ 'कर्तुं' प्र योक्तुं 'शक्यते' 'तस्मात्' अनुमा 'आगमं विना उदीक्षितुं' उदी क्षयितुं ज्ञापयितुं अर्थमिति शेषः 'शक्तिमती' सामर्थ्ययुता नेत्यर्थः । 'वाराहे' इत्यस्यापि 'कौर्मे' इतिवदन्वयः । तस्मात्केवलानुमान स्यानिर्णायकत्वाच्छास्त्रेणैव कर्तृत्वनिश्चय इति स्थितम् ॥ ( ८ ) नन्वतीन्द्रियार्थाभावेन प्रत्यक्षेतरस्याप्रामाण्यात्कथं शास्त्रा दीश्वरसिद्धिरिति नास्तिक्यवादं मोक्षधर्मवचनेन निराचष्टे—रेत इ ति ॥ रेतइत्यादिप्रथमैकवचनान्तानां पदानां प्रत्येकं प्रमाणमिति प देनान्वयः । 'अत्रार्थे' इति शेषः । तथा च--रेतोधात्वादि 'अत्रा र्थे' अतीन्द्रियार्थसत्त्वे अनुमानादिप्रामाण्ये च प्रमाणं प्रमापकं भव ८