भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 105, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 105

५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः । इति मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते ॥ तीत्यर्थः । भाष्यकारीयद्वितीयेतिशब्दस्य एवं मोक्षधर्मवचनात्प्रतीतैर्हे- तुभिर्नास्तिक्यवादो न युज्यत इति योजना । नास्तिका एव नास्ति- क्यं, नास्तिकसमुदायो वा नास्तिक्यम् । तथा च—नास्ति परलोकः, धर्मो नास्ति, अधर्मो नास्तीति धिया वाद इत्यर्थः । यद्वा—न्यायदी- पिकोक्तरीत्या—आस्तिक्यं धर्मादावस्त्येनेन प्रयोजनमिति भावो बु- द्धिः, तत्पूर्वको वादः, तदन्यो नास्तिक्यवाद इत्यर्थः । रेतोधात्वादी- नामनुमापकत्वप्रकारस्त्वित्थम्—रेतःशब्दितचरमधातुशरीरयोः का- र्यकारणभावो न प्रत्यक्षः, किन्त्वन्वयव्यतिरेकाख्यानुमानगम्य इति तत्प्रामाण्यसिद्धिः । मृतशरीरे सिक्तस्य रेतसः शरीराकारणत्वेन य- दधिष्ठिते शरीरे सिक्तं रेतः शरीरात्मना परिणमति तज्जीवसिद्धिः । वन्ध्यादिसर्वशरीरे सिक्तस्य रेतसः कार्याकरत्वेन यत्प्रेरितं रेतः कार्यं करं तदीश्वरादृष्टसिद्धिः । तत एव तत्प्रतिपादकागमप्रामाण्यसि- द्धिः । एवं वातपित्तादिधातुरपथ्यादिना जीवच्छरीरे क्वचिदेव विक्रि- यते, न मृतशरीरे, नापि जीवत्सर्वशरीरेषु । ततो जीवेश्वरतद्बोधका- गमप्रामाण्यादिसिद्धिः । वटकणिकापदोक्तवटबीजाद्वट उत्पद्यत इति सुप्रसिद्धम्, न च भर्जितायास्तस्याः, नाप्यभर्जिताभ्यस्सर्वाभ्य इति तत्प्रेरकेश्वरादृष्टसिद्धिः । घृतेन जीवच्छरीर एव पीनता जायते, न मृतशरीरे क्षिप्तेन, नापि जीवत्सर्वशरीरेषु । 'धूमाधिवासनं' नाम पुष्पादिसम्पत्त्यर्थः धूमेन वृक्षस्य संस्कारः । तेनाशुष्कवृक्षेष्वेव पुष्पा- दिसम्पत्तिः, न शुष्के, नाप्यशुष्केषु सर्वेषु । एताभ्यामपि लिङ्गाभ्यां जीवेश्वरादृष्टादिसिद्धिः । केषां चित्साधनविशेषात् 'जातिस्मृतिः' पूर्वजन्मस्मृतिर्भवति अनेनैव पुण्येन एवं स्वर्गोऽनुभूतः, अनेन पापेने- त्थं नरकमनुभूतमिति । सा च कस्यचिदेव, न सर्वस्य, न चेतनाद्य- भावे सा युक्तेत्यतोऽपि चेतनादृष्टादिसिद्धिः । अयस्कान्ताख्यशिला- विशेषेणायो भ्रमति, न चाचेतने चेष्टकत्वं दृष्टं, नापि सर्वचेतनाना- मित्येतस्मादपि तत्प्रेरकेश्वरादृष्टादिसिद्धिः । सूर्यकान्ताख्यशिला- विशेषेणाग्निर्जायते, न चासौ शक्तिरचेतने युक्ता । अतोऽपि प्रेरकेश्व- रादृष्टादिसिद्धिः । अम्बुभक्षणेन जीवच्छरीर एव तृष्णा निवर्तते, न