भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 106, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 106

[ अधि - ३. सू - ३. ] दीपिकासहितम्. ५९ (९) दर्शनाच्च तपआदिफलस्य । (१०) ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥ (११) यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥ [इति स्कान्दे ।] च तन्मृतशरीरे पात्रान्तरे वा निहितं पच्यते । नापि जीवत्सर्वशरी रेषु । तस्मादपि जीवेश्वरादिसिद्धिः । प्रेत्येत्यनन्तरं स्थितस्येति शे षः । 'प्रेत्य' जीवं विहाय स्थितस्य देहस्य 'भूताप्ययो' भूतेषु लय इत्यर्थः । तथा च-मरणेन देहस्य पृथिव्यादिपञ्चभूतेषु लयो भवति, न जीवतो, न चेच्छयेत्यतोऽपि तन्नियामकेश्वरादिसिद्धिः । एवं देव ताऽभ्युपयाचनेन तत्प्रार्थनेन केषां चिदेव सम्पदादिकं भवति, एवं मृ ते देहे चेष्टानिवृत्तिर्भवति, न पुरा न स्वेच्छया । अतोऽपि जीवेश्वरादृ ष्टादिसिद्धिरिति ॥ (९) युक्त्यन्तरेणापि नास्तिक्यवादं दूषयति—दर्शनाच्चेति ॥ चो युक्तिसमुच्चये । आदिशब्देन पापं गृह्यते । तथा च—स्वाध्यायब्र ह्मचर्यादिरूपात्युत्कटतपआदिफलस्य तेजस्स्वित्वादेः

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 106, कुल 1267 में से · BharatKosha