भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 107, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 107

६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]


( १२ ) साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । इत्यारभ्य वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरा


दिरूपग्रन्थविस्तरः 'तन्नैव शास्त्रम्', किन्तु 'कुवर्त्म' कुत्सितमा- र्गः, मार्ग इव मार्गः, कुत्सितज्ञानोपायोऽमानमित्यर्थः । ऋगादिकमेवे- त्येवकारस्तु विरुद्धादिविषय इति भावः । स्कान्दे पुराणे इत्युक्तमित्य- न्वयः । पाशुपतादेः कुवर्त्मत्वमितिशब्दार्थः ॥ ( १२ ) इतोऽपि पाशुपतादिकं कुवर्त्मेत्याह—साङ्ख्यमिति ॥ अत्रैवं योजना—न केवलं स्कान्दे, किन्तु मोक्षधर्मेष्वपि । 'साङ्ख्यं योगः पा- शुपतं वेदारण्यकमेव च ' 'इत्यारभ्यो' उपक्रम्याधीतेन पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ॥ इत्युत्तरवाक्येन साङ्ख्यादिषु प्रकृतेष्वपि तत्परित्यागेन पञ्चरात्रस्यै- व प्रामाण्यरूपमाधिक्यमुक्तं यतोऽतः पाशुपतादिकं कुवर्त्म अमानमे- वेति । नन्वनेन पाञ्चरात्रप्रामाण्यमेव भवेन्नान्याप्रामाण्यमित्यत आ- ह—इतरेषामिति । वेदपञ्चरात्रयोरन्येषां साङ्ख्यादीनामित्यर्थः । 'भिन्नमतत्वं' विरुद्धदर्शनत्वं 'प्रदर्श्य' ज्ञापयित्वा प्रतिपादयेति या- वत् । साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥ इति वाक्यशेषेणेति शेषः । प्रदर्श्येत्यस्य पञ्चरात्रस्यैव प्रामाण्यमुक्त- मित्यनेनान्वयः । परस्परविरुद्धानामेकप्रामाण्योक्तावन्याप्रामाण्यला- भादिति भावः । तर्हि वेदारण्यकस्याप्यप्रामाण्यं स्यादित्यत आह— वेदेति । 'ऐक्याभिप्रायेण' इति । एकार्थत्वरूपमूलमूलिभावाभिप्राये- णेत्यर्थः । तथा च—पञ्चरात्रस्य वेदसमानार्थत्वेन तत्प्रामाण्योक्तौ वेदप्रामाण्यमेवोक्तं भवतीति न तस्याप्रामाण्यमिति भावः । न चैक्या- भिप्रायः कुतः कल्प्यत इति वाच्यम्, यतोऽदृष्टविषयस्य पौरुषेयस्य पञ्चरात्रस्य निर्मूलत्वेऽप्रामाण्यादाधिक्यकथनमसङ्गतं स्यात् । 'सा- ङ्ख्यं' ईश्वरावतारान्यकपिलोक्तं शास्त्रम् । कपिलो वासुदेवाख्यः तन्त्रं साङ्ख्यं जगाद ह । सर्वागमविरुद्धं च कपिलोऽन्यो जगाद ह ॥