भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 108, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 108

[ अधि - ३. सू - ३. ] दीपिकासहितम्. ६१ अस्यैव प्रामाण्यमुक्तमितरेषां भिन्नमतत्त्वं प्रदर्श्य मोक्षधर्मेष्वपि ॥ ( १३ ) शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनि ॥ ३ ॥ इत्युक्तत्वात् । 'योगो' हि हिरण्यगर्भोक्तं पातञ्जलम् । 'पाशुपतं' पशु- पतिना प्रोक्तम् । अरण्ये निर्जने देशे अध्येतव्यत्वादारण्यकमित्युपनि- षदुच्यते । वेदाश्चारण्यकानि च, तेषां समाहारः वेदारण्यकं, द्वन्द्वैक- वद्भावो वा । वर्णाश्रमराजदानधर्मादिप्रतिपाद्यधर्मबहुत्वात् मोक्षधर्मा- णां भेदाद्वा मोक्षधर्मेष्विति बहुवचनम् । अत एव तत्त्वप्रदीपे—मोक्ष- धर्मेष्विति बहुवचनं धर्मभेदादित्युकम् । मोक्षधर्मे हि- साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि उताहो नेति चोच्यताम् ॥ इति वैशम्पायनं प्रति जनमेजयप्रश्नः । तस्य- साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्रकार्या विचारणा ॥ इति वैशम्पायनोक्तं प्रतिवचनं चास्ति । इमे युधिष्ठिरभीष्मकर्तृके च । भगवतः ज्ञानानि ज्ञानसाधनानि भिन्नानि भिन्नमतानि । विरुद्धा- नामपि मतानां न सर्वेषां प्रामाण्यं सम्भवति वस्तुनो बहुरूपत्वाभा- वात्, किन्त्वेकस्यात्र प्रामाण्यमितरेषामप्रामाण्यं वाच्यम् । तत्र कस्य प्रामाण्यं कस्य वाऽप्रामाण्यमिति पुनर्युधिष्ठिरजनमेजयहार्दप्रश्नोत्तर- माह भीष्मो वैशम्पायनश्च । “ साङ्ख्यस्यवक्ता कपिलः ” इत्यारभ्य “पञ्चरात्रस्य कृत्स्नस्य” इत्यनेन ज्ञानेषु ज्ञानसाधनेषु एतत्पञ्चरात्रम्। अभिप्रायस्तु-परमाप्ततमेन नारायणेन सर्वस्य पञ्चरात्रस्य कृतत्वा- त्प्रामाण्यं तावत्सिद्धम्, विरुद्धानां चैकप्रामाण्ये अन्याप्रामाण्यं च। ए- तच्चाद्यवाक्यस्थवेदारण्यकपदेन वेदमूलकपञ्चरात्रस्योत्तरवाक्यस्थ- पञ्चरात्रपदेन च मूलभूतवेदारण्यकस्योपलक्षणामङ्गीकृत्योभयोरेक- वाक्यतायामेव सम्भवति । अन्यथा पञ्चरात्रस्य पूर्वमप्रकृतत्वेन पू- र्वोत्तरवाक्ययोरसङ्गतत्वापातः । उपलक्षणामङ्गीकृत्यैकवाक्यतायां च स्वीकृतायां वेदपञ्चरात्रयोरेव प्रामाण्यं सिद्ध्यति । न तद्विरुद्धपा- शुपतादीनामिति तेषामप्रामाण्यमेवेति ॥ ( १३ ) एवं सूत्रं व्याख्याय यत्परेणोक्तं शास्त्रस्य योनिरिति तद्यु-