पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1055, कुल 1267 में से
संदर्भ में पढ़ें१००८ ब्रह्मसूत्रभाष्यम् [ अध्या - ४, पा - १. ] ( ६ ) सू–ॐ ॥ यत्रैकाग्रता तत्राविशेषात् ॥ ॐ ॥११॥ देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थात व्यम् । ( ७ ) तमेव देशं सेवेत तं कालं तामवस्थितिम् । तानेव भोगान् भुञ्जीत मनो यत्र प्रसीदति ॥ ( ६ ) नन्वासनादिनियतिवत् देशकालादिनियतिरप्यङ्गीकार्या । पर्वताग्रे नदीतीरे.... इति स्मृतेः । ब्राह्मे मुहूर्ते उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ इति भागवतवचनात् । ब्राह्मे मुहूर्ते उत्थाय धर्मार्थानुपचिन्तयेत् । इति मनुस्मृतेश्चेत्याशङ्कां निवारयत्सूत्रं पठति—यत्रेति ॥ अत्र ध्याना- दित्यस्य षष्ठ्यन्ततया विपरिणामेन अनुवृत्तिर् भवतीति शेषं चाभिप्रे- त्य यत्रेति प्रतिज्ञांशं व्याचष्टे—देशेति । यत्र तत्रेत्यनुवादः, देशकाला- वस्थादिष्विति व्याख्यानम् । अवस्था आसनम् । आदिशब्देन भोगो गृह्यते । ‘ एकाग्रता ’ एकविषयता । ध्यानस्येति शेषः । स्थातव्यमि- त्येतत्तस्मिन्नेव देशे स्थातव्यं तस्मिन्नेव काले ध्यातव्यं तदेवासनं ग्रा- ह्यं तदेव भोग्यं भोक्तव्यमिति सर्वेषां स्मृत्युक्तानामुपलक्षकम् । अनेन सूत्रे तत्रेति सावधानं ध्यानं कार्यमिति शेष इत्युक्तं भवति ॥ ( ७ ) अविशेषादिति हेत्वंशस्य स्मृत्येव व्याख्यानात्तमव्याख्या- य समग्रसूत्रार्थं स्मृतिमाह—तमेवेति ॥ अत्र देशकालादीनां किमा- सनादिवत् ध्यानोपयोगितयाऽऽवश्यकत्वम् , उत पृथगेव ज्ञानोपयो- गित्वादिति विकल्प्याद्यस्य दूषणमाह-तमेवेति । अवस्थितिरासनम् । अत्र हेतुमाह—न हीति । यतः ‘ देशादिभिः ’ नियतदेशकालादिना ‘ कश्चिद्विशेषः ’ अतिशयो नास्ति ध्याने इति शेषः । अतस्तदेव देशा- दिकं सेवेत न तु नियतमित्यर्थः । द्वितीयस्य दूषणमाह—न हीति । अस्मिन् पक्षे ज्ञान इति शेषः । तथा च ज्ञाने देशादिभिः केवलैर्न क- श्चिद्विशेष इत्यर्थः । तत्र हेतुः—मनःप्रसादनार्थमिति । प्रसादनं वृत्ति- रचाञ्चल्यं वा । तदर्थं तत्संपादनार्थमित्यर्थः । ‘ हि ’ यतः ‘ चिन्तना ’ मार्गणं यद्वा—‘ चिन्तना ’ विचारः योगशास्त्र इति शेषः । उक्तं हि तत्त्वप्रदीपे—या तु योगशास्त्रे हरिक्षेत्रदिनादिदेशकालविशेषादिचि-