पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1056, कुल 1267 में से
संदर्भ में पढ़ें[ अधि-७. सू-१२. ] दीपिकासहितम्. १००९ न हि देशादिभिः कश्चिद्विशेषस्समुदीरितः । मनःप्रसादनाथें हि देशकालादिचिन्तना ॥ इति वा राहे ॥ ११ ॥ ७. अधिकरणम् ॥ (१) सू- ॐ ॥ आ प्रायणात्तत्रापि हि दृष्टम् ॥ ॐ ॥ १२ ॥ यावन्मोक्षस्तावदुपासनादि कार्यम् । न्ता क्रियते सा हरेर्विशेषाभिव्यक्तिहेतुत्वेन तेषां मनःप्रसादकरत्वेने व, नान्यविशेषहेतोरिति । अतोऽन्यथासिद्धत्वान्न देशादेः ज्ञानोप योगित्वमिति भावः। न च देशकालादिवदासनस्याप्यनियतत्वे ‘आसी नः’ इति तन्नियमोक्तिविरोध इति वाच्यम् । वीरासनमेव पद्मासनमेव ध्यानोपयोगीति विशेषनियमस्यैवात्र निषेधात् । उपवेशनार्थमासन सामान्यनियमस्यानिषेधात् । तस्यैव पूर्वमभिहितत्वात् । न च ‘पर्व ताग्रे’ इत्याद्युक्तिविरोधः । प्रायेण मनःप्रसादनाथेंत्वेन तदुक्तिसम्भवा त् । वाराहे इत्यनन्तरमुक्तत्वादिति शेषः । अस्य पूर्वेणान्वयः ॥ ६ ॥ ॥ इति आसीनाधिकरणम् ॥ ७. अधिकरणम् ॥ (१) अत्राधिकरणे ध्यानस्य प्रायणान्तत्वं समर्थ्यते । साधनस्य कार्यपर्यन्तमेवानुष्ठेयत्वात् ज्ञानपर्यन्तमेव ध्यानमावश्यकं, न तु मुक्ति पर्यन्तमपीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—आ प्रायणादिति॥ अत्राङ् मर्यादायाम् । टीकारीत्या प्रायणं चरमशरीरोत्क्रमणं, तत्त्वप्र दीपरीत्या तु प्रायणं प्रकर्षणायनं नारायणं प्रति गमनं मोक्षस्तत्पर्यन्त मित्यर्थ इत्याशयेनाप्रायणादित्यंशं व्याचष्टे—यावन्मोक्ष इति । उपा सनादि कार्यमिति शेषोक्तिः । कार्यमिति सावधारणं, मुमुक्षूणामिति शेषः । उपासनं ध्यानम् । आदिपदेन श्रवणादिर्गृह्यते । तत्त्वप्रदीपुरी त्याऽर्चनादिकं च । तत्रायं विवेकः—ज्ञानात्पूर्वं तावच्छ्रवणादियुतं ध्यानं कर्तव्यं, आनन्दातिशयार्थं ज्ञानान्तरमपि प्रायेण केवलं ध्यानं कर्तव्यम् । न च श्रवणादिनाऽपि तत्सिद्धिः । ध्यानस्य प्रधानसाधनत्वे न तदयोगात् । सम्यक् ध्यानाभावे श्रवणादीति ॥ १२७