पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1057, कुल 1267 में से
संदर्भ में पढ़ें१०१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] (२) 'स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्या यीत्' (प्र. ५-१.) इति हि श्रुतिः । (३) 'सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपा सते' इति सौपर्णश्रुतिः । (४) शृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥ (२) ननु ध्यानस्य ज्ञानफलकत्वेन तत्पर्यन्तमनुष्ठानेऽपि तदनन्त रमपि मुक्तिपर्यन्तं तदनुवर्तनीयमिति कुतो ज्ञायत इत्यतो ज्ञानात्पूर्वं ध्यानस्य कर्तव्यत्वे विवादाभावात्तत्सिद्धवत्कृत्य तदुत्तरं तस्य कार्य त्वे श्रुतिप्रमाणसूचकतया दृष्टं हीत्येतद्व्याचष्टे—स इति ॥ 'हि' यतः। इति षट्प्रश्नश्रुतिरस्तीत्यर्थः । अस्य यावन्मोक्ष इत्यनेनान्वयः । हे 'भग वन्' पूज्य 'एतत्' एतेषु ज्ञानिमनुष्येषु स यः कश्चित् 'प्रायणान्तं' प्रायणपर्यन्तं यावच्छरीरादुत्क्रमणं तावदिति यावत् । 'ओंकारं' ओ मित्यभिक्रियमाणं तद्वाच्यं परमात्मानं 'अभिध्यायीत' प्रणवेन सर्वदा हरिं चिन्तयेदिति यावत् । 'सः' पुरुषस्तेन ध्यानेन कतमं लोकं प्रा प्नोतीति श्रुत्यर्थः । पिप्पलादं प्रति शैब्यवाक्यमेतत् ॥ (३) कैमुत्येनापि ध्यानस्य मुक्तिपर्यन्तत्वं साधयितुं सूत्रखण्डः— तत्रापीति । तत्रापिः कैमुत्ये । तथा च मुक्तावपि ध्यानं कुर्वन्ति सन्तः, किमु ततः पूर्वमिति तस्यासिद्धिपरिहारार्थमपि दृष्टं हीत्यंशो योज्य इ त्याशयेन तत्सूचितश्रुतिं दर्शयति—सर्वदेति ॥ ज्ञानात्पूर्वं तदुत्तरं चे त्यर्थः । अस्योत्तरावधिमाह—यावद्विमुक्तिरिति । एवं कैमुत्योपयुक्तं साध्यमभिधाय तद्धेतुं कैमुत्यमाह—मुक्ता अपीति । अपिशब्दः कैमु त्ये । हिशब्दो यत इत्यर्थे । श्रुतिश्चेत्यन्वयः । चः श्रुतिद्वयसमुच्चये । य त इति शेषः । अस्यातो यावन्मोक्ष इति साध्यवाक्येनान्वयः ॥ (४) ज्ञानपर्यन्तं श्रवणादियुतं ध्यानं कार्यमित्यत्र स्मृतिं चाह— शृणुयादिति ॥ अज्ञानशब्देन तन्निवृत्तिर्लक्ष्यते । तावदिति शेषः । ए वमुत्तरत्रापि । मतिर्मननम् । 'अयुक्तता' विपर्ययः । युक्तायुक्तत्वसं शयो वा । एतदपि निवृत्त्युपलक्षकम् । कार्येति कार्यमिति च क्रमेण शेषः । तत्त्वस्येति सर्वत्रान्वीयते । श्रवणादेरिव ज्ञानस्याप्यावृत्तावेव मोक्षो न त्वावृत्त्यभाव इति न वाच्यमिति भावेनाह—नेक्षेति । 'ईक्षा' ब्रह्मदृष्टिः 'क्वचन' कादाचित्काऽपि 'न बाध्यते' न मोक्षसाधिका भ