भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1062, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1062

[ अधि - ८. सू - १५. ] दीपिकासहितम्. १०१५ ( छा. ६-१४-२.) इति तदवधेः । ( ६ ) तुशब्दः स्मृतिद्योतकः । यदनारब्धपापं स्यात्तद्विनश्यति निश्चयात् । पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः । द्विषतो वा भवेत्पुण्यनाशो नास्त्यत्र संशयः ॥ ( ७ ) तस्याप्यारब्धकार्यस्य न विनाशोऽस्ति कुत्र चित् । आरब्धयोश्च नाशस्स्यादल्पयोः पुण्यपापयोः ॥ मोक्षस्य तदवधित्वस्य प्रारब्धकर्मनिवृत्त्यवधिकत्वस्य 'तस्य' इत्या दौ श्रवणादित्यर्थः । तथा च ज्ञानोत्तरमपि कर्मसद्भावो ज्ञायत इति वाक्यशेषः । 'तस्य' अपरोक्षज्ञानिनः 'तावदेव' तावानेव 'चिरं' मोक्षविलम्बः । कियत्कालं ? यावत् ज्ञानी प्रारब्धेन कर्मणा 'न विमो क्ष्ये' न विमोक्ष्यते । 'अथ' कर्मनिवृत्त्यनन्तरं ब्रह्म 'सम्पत्स्यते' मु क्तो भवतीति छन्दोगश्रुत्यर्थः । अत्र विमोक्ष्ये इति प्रथमपुरुषः, मुचेः कर्मणि लृट्प्रत्यये विमोक्ष्यते इति रूपं, तस्य व्यत्ययेन विमोक्ष्येतेत्यर्थः। तत्र 'लोपस्त आत्मनेपदेषु' इति तलोपः । सम्पत्स्यत इति प्रथमपुरु षे तु तकारस्सत्त्वेव । तत्त्वप्रदीपे तु न विमोक्ष्ये इत्यत्र पुरुषव्यत्यय ए व, न लार्थव्यत्यय इत्युक्तम् ॥ ( ६ ) नन्वस्यां श्रुतौ प्रारब्धकर्मसद्भावो न स्फुटं प्रतीयते इत्यतः प्रयुक्तस्य तुशब्दस्य तदवधेरित्यनेनान्वयं चार्थत्वं चाभिप्रेत्य तद्व्या चष्टे—तुशब्द इति । स्मृतिद्योतक इति । विशेषबोधकस्मृतिसमुच्चा यक इत्यर्थः । तां स्मृतिं पठति—यदिति । यथा 'निर्द्वन्द्वं' समाधि कशून्यं ब्रह्म 'पश्यतो' दृष्टवतो 'यदनारब्धपापं' प्रारब्धकार्यकभिन्नं पापं स्यात्तन्निश्चयात् 'विनश्यति' विनश्यत्येव । एवं ब्रह्म 'हीनं' गु णाकृतिहीनत्वेन हीनजीवैक्येन च 'पश्यतो' जानतो ब्रह्म 'द्विषतो वा' द्विषतश्च 'पुण्यनाशो' मिथ्याज्ञानपूर्वकालीनधर्मनाशो भवेदि ति योजना । केचित्तु—तमोयोग्यानामपि ब्रह्मसाक्षात्कारोऽस्त्येव, कि न्तु धर्मिणि प्रत्यक्षे सति तत्र हीनत्वं दोषांश्च पश्यन्ति रामकृष्णादौ छेदादीनि च । तथा च पश्यत इत्यस्य यथाश्रुत एवार्थ इत्याहुः ॥ ( ७ ) उक्तस्यापवादमाह--तस्यापीति ॥ द्वेषिपुण्यस्यापीत्यर्थः । न केवलं ज्ञानिपापस्येत्यपेरर्थः । ज्ञानिद्वेषिसम्बन्धिनोऽपि पुण्यस्य पा