भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1063, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1063

१०१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] इति नारायणतन्त्रे ॥ १६ ॥ (८) सू- ॐ ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ ॐ ॥ १६ ॥ अग्निहोत्राद्यपि तु मोक्षानुभावायैव। तुशब्दाद्ब्रह्मदर्शनवतः। पश्येति वा 'विनाशः' स्वरूपतः 'कुत्रचित्' काले देशे च। अत ए व परमद्वेषिणोऽपि प्राग्धःपातात् कदाचिद्भोगान् भुञ्जते इति भा वः। अपवादस्यापवादमाह—आरब्धयोरिति। आरब्धकार्ययोरल्प योः पुण्यपापयोः 'नाशः' फलह्रासरूपोपमर्दः स्यादित्यर्थः। भोगका लस्याल्पत्वादल्पयोरित्युक्तिः ॥ (८) ननु ज्ञानिकृतपुण्यस्य पूर्वोत्तरस्य विनाशाश्लेषौ विद्येते न वा?। आद्ये पूर्वसूत्रे अघशब्दवैयर्थ्यम्। द्वितीये मोक्षासिद्धिः, पुण्य स्यापि बन्धकत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—अग्नीति॥ अ त्र किमकाम्यपुण्यविषयोऽयं विकल्पः? उत काम्यपुण्यविषयः?। आ द्ये तस्य नाशाश्लेषौ न स्त इति समाधानं, न चैवं वन्ध्याप्रवृत्तिरिति साध्योपस्कारं चाभिप्रेत्य तत्र हेतुतया—अग्निहोत्रादि तु तत्कार्यायैवे त्यंशं व्याचष्टे—अग्निहोत्राद्यपीति। ज्ञानपूर्वोत्तरकालीनाकाम्याग्निहो त्रादीत्यर्थः। आदिशब्देन सन्ध्योपासनाश्राद्धादिरूपं नित्यनैमित्तिकं पुण्यं गृह्यते। तुशब्दव्याख्यारूपदपिशब्दात् टीकारीत्या ध्यानादि समुच्चीयते। यद्वा—तत्त्वप्रदीपरीत्या द्वेषिपापं गृह्यते। उक्तं हि तत्त्व प्रदीपे—अपिशब्दादितरस्य द्वेषिण इतरदपि इतरविशेषायाैवेति ग म्यत इति। मोक्षानुभावायैवेति। मोक्षफले विवक्षिते तद्धेतुब्रह्मापरोक्षा नुभावायेत्यर्थः। यद्वा—मोक्षे आनन्दातिशयानुभावायेत्यर्थः। यतो भ वतीति शेषः। न तु वन्ध्याय भवति, न वा कार्यमजनयित्वा नाशाश्ले षौ प्राप्नोतीत्येवकारार्थः। तत्त्वप्रदीपरीत्या तु मोक्षे आनन्दानुभवाये त्येक एवार्थः। उपलक्षणमेतत्। मिथ्याज्ञानपूर्वकालीनं तदुत्तरकाली नं च पापमम्यथाज्ञानकार्याय भवतीत्यपि द्रष्टव्यम्। तथैव तत्त्वप्रदी पोक्तेः। अनेन टीकारीत्या तत्कार्यायैत्येतत् तच्च तत् कार्यं चेति कर्म धारयमाश्रित्य प्रकृतब्रह्मज्ञानाख्यकार्यायैति, तस्य कार्यमिति तत्पुरु षमाश्रित्य तस्य ज्ञानस्य कार्ये मोक्षेऽनुभावायेति द्वेधा, तत्त्वप्रदीपरीत्या त्वेकधा व्याख्यातं भवति। पूर्वे ज्ञानिद्वेषिणोरनुवृत्तत्वादत्राप्युभय