पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1065, कुल 1267 में से
संदर्भ में पढ़ें१०१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] अप्रारब्धमनभीष्टं च । तथा ह्येकेषां पाठ उभयोस्त्या गेन । 'तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्वि षन्तः पापकृत्याम्' ( शाट्यायन ) इति । ( ११ ) अनभीष्टमनारब्धं पुण्यमप्यस्य नश्यति । ये । अत्रायं विवेकः—ज्ञानात्पूर्वतनं काम्यं कर्म द्विविधं प्रारब्धमप्रार ब्धं च । तत्र प्रारब्धं न नश्यति । अप्रारब्धं द्विविधं इष्टमनिष्टं च । तत्रे ष्टमपि न नश्यति अनिष्टमेव नश्यति । यद्यपि पुण्यकरणकाले सर्वमि ष्टमेव । तथाऽपि ज्ञानकाले तदेव किञ्चिदिष्टं किञ्चिदनिष्टं भवति । यथा वक्तृत्वाद्यापादकमिष्टं ज्ञानानन्तरमपि तदिच्छायाः सत्त्वात् । रा जत्वाद्यापादकमनिष्टं तस्य ज्ञानभक्त्यादिप्रतिबन्धकत्वेन ज्ञानिनः त दिच्छाया अभावात्, मा भूदिति विपरीतेच्छाभावाच्च । सप्तजन्मसु वि प्रत्वापादकं चानिष्टम् । एवं मोक्षातिशयसाधनश्रवणादिसाधनादि प्रापकं पुण्यमिष्टं स्वर्गादिसाधनमनिष्टमिति आनन्दमालोक्तमपि द्रष्ट व्यम् । एवमुत्तरकालीनमपि काम्यं करणानन्तरं इच्छाभावाभावा भ्यामिष्टमनिष्टं चेति द्विविधम् । तत्रेष्टस्य संश्लेषः अनिष्टस्य चाश्लेष इति । कुत एतदित्यत एकेषामुभयोरित्यंशं व्याचष्टे—तथा हीति । तथा हीत्युक्त्या इतिशब्दः प्रकारार्थो हेत्वर्थश्चेत्युक्तं भवति । 'एके षाम्' सामशाखिनां पाठ इति शेषोक्तिः । 'उभयोः' पापकाम्यपुण्य योः । तथेत्यस्य विवरणम्—त्यागेनेति । त्यागज्ञापकतयेत्यर्थः । सुहृ दां पुण्यप्राप्त्युक्त्या ज्ञानिनस्तत्त्यागोऽवगम्यत इति भावः । इतिश ब्दपरामृष्टां श्रुतिं दर्शयति—तस्येति । 'तस्य' ज्ञानिनः । यथेति शे षः । 'दायं' पित्रार्जितं द्रव्यं 'उपयन्ति' प्राप्नुवन्ति । तथा विष्णुभ क्ताः 'सुहृदः' प्रत्युपकारमनपेक्ष्योपकर्तारः 'साधुकृत्यां' अप्रारब्ध मनभीष्टं काम्यं पुण्यमेव उपयन्ति, न तु अकाम्यं प्रारब्धमिष्टं च । अकाम्यस्य ज्ञाने सुखातिशये च विनियुक्तत्वात् प्रारब्धस्य भोक्तव्य त्वात् इष्टनाशस्यापुरुषार्थत्वात् । 'पापकृत्यां' पापकर्मजनिताधर्मं उ पयन्तीत्यर्थः । इत्येकेषां पाठोऽस्तीत्यन्वयः । अनेन—'उभयोः' पाप काम्यपुण्ययोः 'त्यागेन' त्यागज्ञापकतया 'इति सुहृदः' इत्येवंरूपः ए केषां पाठोऽस्तीति हेतोः अतः 'अन्यत्' काम्यपुण्यमपि नश्यति न श्लिष्यते चेति सूत्रार्थ उक्तो भवति ॥ ( ११ ) ननु तथाऽपि काम्येऽभिहितोऽवान्तरविशेषः श्रुतौ स्पष्टं न