पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1066, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - १८.] दीपिकासहितम्. १०१९ किमु पापं परब्रह्मज्ञानिनो नात्र संशयः ॥ इति पाद्मे ॥ १७॥ ( १२) सू—ॐ ॥ यदेव विद्ययेति हि ॥ ॐ ॥ १८ ॥ ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तं च भव- ति । ‘ यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. १-१-१०.) इति श्रुतेः । ‘ न हास्य कर्म क्षीयते’ (बृ. ३-४-१५.) इति च । प्रतीयत इत्यतोऽपिशब्दसूचितां स्मृतिं दर्शयति—अनभीष्टमिति ॥ प- रब्रह्मज्ञानिनोऽनभीष्टमनारब्धं पुण्यमपि नश्यति । नात्र संशयः । एवं सति अस्य पापं नश्यतीति किमु वक्तव्यमित्यर्थः । पाद्म इति । अप्रा- रब्धमनभीष्टं च नश्यतीत्ययं विशेषः स्पष्टमुक्त इति वाक्यशेषः ॥ ( १२) ननु ज्ञानिकृतोत्तरकालीनाकाम्यपुण्यस्य कथं मोक्षानुप्रवे- शः कर्मणो नश्वरल्पफलकत्वादित्याशङ्कां परिहरत्सूत्रं पठति—यदे- वेति ॥ अत्र अग्निहोत्रादि तत्कार्यायेति पदद्वयानुवृत्त्या लब्धं साध्यं दर्शयति--ब्रह्मदर्शीति । अपिश्चार्थ एवार्थश्च ब्रह्मदर्शिकृतमित्यनन्तरं स्वस्थाने च सम्बध्यते । तथा च ब्रह्मज्ञानिकृतमेवाग्निहोत्रादिपुण्यं स्वरूपतोऽल्पमपि ‘महत्तमं’ अतिशयितमहाफलप्रदं ‘अनन्तं’ अवि- नाशिफलप्रदं च भवतीत्यर्थः । अतो युक्तस्तस्य मोक्षानुप्रवेश इ- ति भावः । कुत एतदित्यतस्तत्र हेतुतया सूत्रगृहीतश्रुत्युदाहरण- पूर्वकं सूत्रं व्याचष्टे—यदेवेति । ‘इति श्रुतेः’ इति छन्दोगश्रुते- रित्यनेन सौत्रहिशब्दो यत इत्यर्थे । इतिशब्दः श्रुतिपदार्थक इत्यु- क्तं भवति । श्रुतिस्तु पुरुषार्थनये व्याख्याता । सूत्रे एकश्रुत्युदा- हरणमुपलक्षणम, इतिशब्दो वा आद्यर्थ इति भावेनात्रार्थे श्रुत्य- न्तरं स्मृतिं च क्रमेण दर्शयति—न हास्येति । इति च श्रुतेरित्य- न्वयः । चः समुच्चये । इयं बृहदारण्यश्रुतिः भाक्तनये व्याख्याता । स्मृतौ ज्ञानवत इति तृतीयार्थे षष्ठी । एवमज्ञानामिति च । एत- योः कृतपदेनान्वयः । ‘अल्पमात्रः’ स्वरूपतोऽत्यल्पः अल्पमात्रकृत इति समस्तपाठे अल्पमात्रश्चासौ कृतश्चेति विग्रहः । तदा नित्यसापे- क्षत्वात्समासः । ‘महान्’ महाफलप्रदः ‘महान्’ स्वरूपतः । यद्यपि तथापीत्यर्थेऽपिः उभयत्रान्वेतव्यः । इति चेति । चः समुच्चये । भार- ते वचनाञ्चेति शेषः । हेतुत्रयस्यापि ब्रह्मदर्शीत्यनेनान्वयः । अनेन य