पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1067, कुल 1267 में से
संदर्भ में पढ़ें१०२० ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - १.] अल्पमात्रकृतो धर्मो भवेत् ज्ञानवतो महान् । महानपि कृतो धर्मो ह्यज्ञानां निष्फलो भवेत् ॥ इति च भारते ॥ १८ ॥ (१३) सू—ॐ॥ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्य ते ॥ ॐ ॥ १९ ॥ तः ज्ञानिकृताग्निहोत्रादि स्वरूपतोऽल्पमपि 'तत्कार्याय' तच्च तत्कार्यं च तत्कार्यं तस्मै महानन्तफलायैव भवति, न त्वङ्गकर्मवदल्पास्थिरफ लाय । कुतः ? ‘हि’ यतः ‘यदेव विद्यया’ इति ‘न हास्य’ इति श्रु तिद्वयं ‘अल्प’ इति स्मृतिश्चेत्येवमाह, अतो युक्तस्तस्य मोक्षानुप्रवे श इति सूत्रार्थ उक्तो भवति । इदं त्ववधेयम्—द्वेषिणः पूर्वपुण्यस्या प्रारब्धस्य विनाशः उत्तरस्याश्लेष इत्ययमर्थस्तावदितरस्येत्यनेनैवो क्तः । अग्निहोत्रादीत्यनेन ज्ञानिकृताकाम्यपुण्यस्य पूर्वस्य ज्ञानार्थत्व मुत्तरस्य ज्ञानकार्यमोक्षातिशयार्थत्वमिति यो न्यायोऽभिहितः सोऽपि द्वेषिणि तद्वैपरीत्येनानुसर्तव्यः । द्वेषपरिपाकप्राक्कालीनस्याप्रारब्धस्य पापस्य द्वेषाभिवृद्धिहेतुत्वमुत्तरस्य तु साक्षात्तमोऽनुप्रवेशः । एवमतो ऽन्यदपीत्यनेन ज्ञानपूर्वकालीनकाम्यपुण्यस्याप्रारब्धस्यानिष्टस्य च नाशस्तदुत्तरकालीनस्य तादृशस्यासंश्लेष इति यो न्यायोऽभिहितः स द्वेषिण्यपि वैपरीत्येनानुसर्तव्यः । द्वेषपरिपाकात्पूर्वतनं काम्यमप्रा रब्धं पुण्यमनिष्टं चेन्न नश्यति । यथा दुर्योधनादीनां राजत्वापादकं कुरुवंशादौ जननकारणं पुण्यम् । तस्य कृष्णभीमादिमहाद्रोहद्वारा पूर्णतमोहेतुत्वात् । इष्टं चेन्नश्यति । द्वेषपूर्त्युत्तरकालीनं च काम्य पुण्यमप्रारब्धमनिष्टं चेत् श्लिष्यते । इष्टं चेन्न श्लिष्यते । उत्तरस्याका म्यस्य तु मनुष्याधमकृतस्य तमसि दुःखातिशयह्रासहेतुत्वं, कल्या दिकृतस्य तु तेषां दुःखस्य कॢप्तत्वात्स्वयोग्याधिकपापविनाशहेतुत्व म् । एवं ‘यदेव विद्यया’ इत्यनेन ज्ञानिकृतोत्तरपुण्यस्य महानन्तफ लत्वमिति यो न्यायोऽभिहितः सः द्वेषिपापेऽप्यनुसर्तव्यः । प्रमाणबला द्द्वेषिपापस्यापि तमोऽनुप्रवेशोऽवश्यमङ्गीकार्य इति सूत्रत्रयन्यायो द्वे षिपुण्ये पापे चानुसर्तव्य इति ॥ (१३) ननु तथाऽपि ब्रह्मज्ञानिद्वेषिणोः मुक्तितमसी न सिध्यतः उभ योरपि प्रत्येकं प्रारब्धपुण्यपापसद्भावादित्याशङ्कां परिहरत्सूत्रमुपन्य