पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ८. सू - १८.] दीपिकासहितम्. १०१९ किमु पापं परब्रह्मज्ञानिनो नात्र संशयः ॥ इति पाद्मे ॥ १७॥ ( १२) सू—ॐ ॥ यदेव विद्ययेति हि ॥ ॐ ॥ १८ ॥ ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तं च भव- ति । ‘ यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. १-१-१०.) इति श्रुतेः । ‘ न हास्य कर्म क्षीयते’ (बृ. ३-४-१५.) इति च । प्रतीयत इत्यतोऽपिशब्दसूचितां स्मृतिं दर्शयति—अनभीष्टमिति ॥ प- रब्रह्मज्ञानिनोऽनभीष्टमनारब्धं पुण्यमपि नश्यति । नात्र संशयः । एवं सति अस्य पापं नश्यतीति किमु वक्तव्यमित्यर्थः । पाद्म इति । अप्रा- रब्धमनभीष्टं च नश्यतीत्ययं विशेषः स्पष्टमुक्त इति वाक्यशेषः ॥ ( १२) ननु ज्ञानिकृतोत्तरकालीनाकाम्यपुण्यस्य कथं मोक्षानुप्रवे- शः कर्मणो नश्वरल्पफलकत्वादित्याशङ्कां परिहरत्सूत्रं पठति—यदे- वेति ॥ अत्र अग्निहोत्रादि तत्कार्यायेति पदद्वयानुवृत्त्या लब्धं साध्यं दर्शयति--ब्रह्मदर्शीति । अपिश्चार्थ एवार्थश्च ब्रह्मदर्शिकृतमित्यनन्तरं स्वस्थाने च सम्बध्यते । तथा च ब्रह्मज्ञानिकृतमेवाग्निहोत्रादिपुण्यं स्वरूपतोऽल्पमपि ‘महत्तमं’ अतिशयितमहाफलप्रदं ‘अनन्तं’ अवि- नाशिफलप्रदं च भवतीत्यर्थः । अतो युक्तस्तस्य मोक्षानुप्रवेश इ- ति भावः । कुत एतदित्यतस्तत्र हेतुतया सूत्रगृहीतश्रुत्युदाहरण- पूर्वकं सूत्रं व्याचष्टे—यदेवेति । ‘इति श्रुतेः’ इति छन्दोगश्रुते- रित्यनेन सौत्रहिशब्दो यत इत्यर्थे । इतिशब्दः श्रुतिपदार्थक इत्यु- क्तं भवति । श्रुतिस्तु पुरुषार्थनये व्याख्याता । सूत्रे एकश्रुत्युदा- हरणमुपलक्षणम, इतिशब्दो वा आद्यर्थ इति भावेनात्रार्थे श्रुत्य- न्तरं स्मृतिं च क्रमेण दर्शयति—न हास्येति । इति च श्रुतेरित्य- न्वयः । चः समुच्चये । इयं बृहदारण्यश्रुतिः भाक्तनये व्याख्याता । स्मृतौ ज्ञानवत इति तृतीयार्थे षष्ठी । एवमज्ञानामिति च । एत- योः कृतपदेनान्वयः । ‘अल्पमात्रः’ स्वरूपतोऽत्यल्पः अल्पमात्रकृत इति समस्तपाठे अल्पमात्रश्चासौ कृतश्चेति विग्रहः । तदा नित्यसापे- क्षत्वात्समासः । ‘महान्’ महाफलप्रदः ‘महान्’ स्वरूपतः । यद्यपि तथापीत्यर्थेऽपिः उभयत्रान्वेतव्यः । इति चेति । चः समुच्चये । भार- ते वचनाञ्चेति शेषः । हेतुत्रयस्यापि ब्रह्मदर्शीत्यनेनान्वयः । अनेन य
१०२० ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - १.] अल्पमात्रकृतो धर्मो भवेत् ज्ञानवतो महान् । महानपि कृतो धर्मो ह्यज्ञानां निष्फलो भवेत् ॥ इति च भारते ॥ १८ ॥ (१३) सू—ॐ॥ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्य ते ॥ ॐ ॥ १९ ॥ तः ज्ञानिकृताग्निहोत्रादि स्वरूपतोऽल्पमपि 'तत्कार्याय' तच्च तत्कार्यं च तत्कार्यं तस्मै महानन्तफलायैव भवति, न त्वङ्गकर्मवदल्पास्थिरफ लाय । कुतः ? ‘हि’ यतः ‘यदेव विद्यया’ इति ‘न हास्य’ इति श्रु तिद्वयं ‘अल्प’ इति स्मृतिश्चेत्येवमाह, अतो युक्तस्तस्य मोक्षानुप्रवे श इति सूत्रार्थ उक्तो भवति । इदं त्ववधेयम्—द्वेषिणः पूर्वपुण्यस्या प्रारब्धस्य विनाशः उत्तरस्याश्लेष इत्ययमर्थस्तावदितरस्येत्यनेनैवो क्तः । अग्निहोत्रादीत्यनेन ज्ञानिकृताकाम्यपुण्यस्य पूर्वस्य ज्ञानार्थत्व मुत्तरस्य ज्ञानकार्यमोक्षातिशयार्थत्वमिति यो न्यायोऽभिहितः सोऽपि द्वेषिणि तद्वैपरीत्येनानुसर्तव्यः । द्वेषपरिपाकप्राक्कालीनस्याप्रारब्धस्य पापस्य द्वेषाभिवृद्धिहेतुत्वमुत्तरस्य तु साक्षात्तमोऽनुप्रवेशः । एवमतो ऽन्यदपीत्यनेन ज्ञानपूर्वकालीनकाम्यपुण्यस्याप्रारब्धस्यानिष्टस्य च नाशस्तदुत्तरकालीनस्य तादृशस्यासंश्लेष इति यो न्यायोऽभिहितः स द्वेषिण्यपि वैपरीत्येनानुसर्तव्यः । द्वेषपरिपाकात्पूर्वतनं काम्यमप्रा रब्धं पुण्यमनिष्टं चेन्न नश्यति । यथा दुर्योधनादीनां राजत्वापादकं कुरुवंशादौ जननकारणं पुण्यम् । तस्य कृष्णभीमादिमहाद्रोहद्वारा पूर्णतमोहेतुत्वात् । इष्टं चेन्नश्यति । द्वेषपूर्त्युत्तरकालीनं च काम्य पुण्यमप्रारब्धमनिष्टं चेत् श्लिष्यते । इष्टं चेन्न श्लिष्यते । उत्तरस्याका म्यस्य तु मनुष्याधमकृतस्य तमसि दुःखातिशयह्रासहेतुत्वं, कल्या दिकृतस्य तु तेषां दुःखस्य कॢप्तत्वात्स्वयोग्याधिकपापविनाशहेतुत्व म् । एवं ‘यदेव विद्यया’ इत्यनेन ज्ञानिकृतोत्तरपुण्यस्य महानन्तफ लत्वमिति यो न्यायोऽभिहितः सः द्वेषिपापेऽप्यनुसर्तव्यः । प्रमाणबला द्द्वेषिपापस्यापि तमोऽनुप्रवेशोऽवश्यमङ्गीकार्य इति सूत्रत्रयन्यायो द्वे षिपुण्ये पापे चानुसर्तव्य इति ॥ (१३) ननु तथाऽपि ब्रह्मज्ञानिद्वेषिणोः मुक्तितमसी न सिध्यतः उभ योरपि प्रत्येकं प्रारब्धपुण्यपापसद्भावादित्याशङ्कां परिहरत्सूत्रमुपन्य
[ अधि - ८. सू - १९. ] दीपिकासहितम्. १०२१ आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः । (१४) आरब्धपुण्यपापस्य भोगेन क्षपणादनु । प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ॥ ब्रह्मणांशतकालात् पूर्वमारब्धसंक्षयः । नियमेन भवेन्नात्र कार्या काचिद्विचारणा । स्यति-भोगेनेति ॥ अत्र तुशब्दो ज्ञानिनः प्रारब्धभोगे उपमर्दं चेत्युक्त विशेषद्योतक इति भावेन सूत्रं व्याचष्टे-आरब्धपुण्यपापे इति । अनेन इतरे इत्येतत् प्रकृतानारब्धकार्यकपुण्यपापेतरपरामर्शकमित्युक्तं भव ति। 'भोगेन' कार्यद्वाराऽनुभवेन 'क्षपयित्वा' विनाश्यानन्तरम् । ब्रह्मेति शेषोक्तिः । तमो वेत्यस्याप्युपलक्षणमेतत् । 'सम्पत्स्यते' ब्रह्मदर्शी ति शेषः । इतर इति च विपरिणामेनात्राप्यन्वीयते । तथा च ब्रह्मद र्शी ब्रह्म 'सम्पत्स्यते' 'इतरो' ब्रह्मद्विट् तमः 'सम्पत्स्यते' प्राप्नो तीति योजना । अतो न प्रारब्धकर्मसद्भावेन मोक्षाद्यभावः शङ्क्य इति भावः । ननु यथा ज्ञानानन्तरं न मोक्षो नियतः, यथा चोपासनानन्त रं ज्ञानमनियतं, तथा कर्मक्षयानन्तरमपि मोक्षोऽनियत इति शङ्कानि वर्तकतयाऽथशब्दं व्याचष्टे--अथेति । शब्द इति शेषः । अनेनाथेत्येत त् अनन्तरमेवेति व्याख्यातं भवति ॥ (१४) कुतोऽयं नियमो ज्ञायत इत्यत आह—आरब्धेति ॥ 'क्षपणात्' नाशादन्वनन्तरमेवेत्येवकारान्वयः । ब्रह्म प्राप्नोति 'घोरं' असह्यदुःखं तमो वा प्राप्नोतीति 'अत्र' अर्थे न संशय इत्यर्थः । ब्रह्मदर्शी ब्रह्मद्वि डिति च शेषः । प्रत्येकमस्यान्वयः । अतो नियमः सिद्ध इति वाक्यशे षः । नन्वारब्धभोगस्य निरवधिकत्वे ज्ञानिद्वेषिणोः ब्रह्मतमःप्राप्ती अ नुपपन्ने इत्यत आह—ब्रह्मणामिति । अत्र ब्रह्मणांशतमिति षष्ठ्या अ लुक् । तस्य कालो ब्रह्मणांशतकालः तस्मात् तत्समाप्तेः 'पूर्वे तु' पू र्वमेव सर्वेषां ज्ञानिनां 'आरब्धसंक्षयः' प्रारब्धनाशो भवतीत्यर्थः । शतकालानन्तरं न कस्यापि प्रारब्धानुवृत्तिः । किन्तु तत्समाप्तिपर्यन्त मेवेति भावः । 'अत्र' नियमस्य 'काचित्' क्वचित् 'विचारणा' व्य भिचारो नेत्यर्थः । इदमेव वाक्यं तत्त्वप्रदीपरीत्या ब्रह्मणामित्यस्यावृ त्तिं तत्रैकस्य समासप्रवेशं चाश्रित्य ब्रह्मणामपि ब्रह्मणांशतकालात्पूर्व मेवारब्धसंक्षयो भवति, एवं ततोऽपि पूर्वे पूर्वमनन्तादीनामिति व्या
१०२२ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - १. ] इति नारायणतन्त्रे ॥ १९॥ —:࿊:— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः —— ॥ ॐ ॥ ख्यातं चेद्विशेषनिष्ठं च भवतीति ज्ञातव्यम् । नारायणतन्त्रे वचनादि ति शेषः । अस्याप्यध्याहृतेनान्वयः ॥ ६ ॥ ॥ इति तदधिगमाधिकरणम् ॥ —— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणा श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां चतुर्थाध्यायस्य प्रथमः पादः • —:*:— ॥ ॐ ॥
[ अधि - १. सू - १. ] दीपिकासहितम्. १०२३ १. अधिकरणम् ॥ ( १ ) देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पाद उच्यते— सू—ॐ ॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ॐ ॥ १ ॥ वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् । 'तस्य यावन्न वाङ्मन १. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—देवानामिति ॥ स्वपदं गतानां देवा- नां उत्तरोत्तरप्रवेशात्मको देहान्मोक्षः स्वपदगदेवभिन्नानां मानुषश- रीराणां ज्ञानिनां देहाद्ब्रह्मनाड्योत्क्रान्तिश्चास्मिन् चतुर्थस्य द्वितीयपा- दे उच्यत इति योजना । तत्राधिकार्याधिक्यक्रमात् प्रथमं देवानां लयो निगद्यते पश्चादितरेषामुत्क्रान्तिरिति भावः । न चैवं पादभेदप्र- सङ्गः । चतुर्मुखादिदेवानां मनुष्याणां च बह्वल्पगुणविषयकत्वेन उपा- सनेऽवान्तरभेदे विद्यमानेऽप्युपासनत्वेनैकीकरणवदत्रापि देहलयत्वे- नैकीकरणसम्भवात् । तत्र प्रथमाधिकरणे वाचो मनसि लयः समर्थ्य- ते । तत्र न वाङ्मनसि लीयत इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य- ति—वागिति । अत्र वाङ्मनश्शब्दार्थोक्तिपूर्वकं विलीयत इति पदा- ध्याहारेण सूत्रं व्याचष्टे—वागभिमानीति । अत्रोमारुद्रपदाभ्यां लक्ष- णया वारुणीशेषौ सौपर्णीसुपर्णौ च प्रतिपाद्येते । लक्षणाबीजं तु उमा- त्ववारुणीत्वादीनामेकद्रव्यसम्बन्धः सौपर्ण्यादीनां पदसादृश्यं चेति सुधोक्तं द्रष्टव्यम् । तत्त्वप्रदीपे तु उमारुद्रादीनामुपरि वारुणीशेषादि- भावात् तदानीमपि तेषु पूर्वप्रसिद्धनामप्रयोगोऽर्जुनादिशरीरपातेऽपि स्वर्गारोहणादिकेऽर्जुनादिशब्दप्रयोगवद्भूतपूर्वगत्या न विरुद्ध इत्युक्त- म् । कुत इत्यतो—दर्शनादित्येतत् शब्दादित्यनेन पौनरुक्त्यपरिहाराय प्रत्यक्षपरतया व्याचष्टे—वाच इति । प्रत्यक्षतयैवेत्यादावुपस्कर्तव्यम् । मनोऽनुसारेणैव वाक्प्रवृत्तेः सर्वानुभवसिद्धत्वादिति भावः । शब्दादि- त्येतच्छ्रुतिप्रदर्शनेन व्याचष्टे—तस्येति । छन्दोगश्रुतिरियम् । अत्र जी- वस्य मरणकाले अस्वातन्त्र्यं प्रतिपादयितुं तत्त्वाभिमानिदेवताव्यापा- रोपरमः प्रतिपाद्यते । अत एव प्रमेयदीपे वागिति वाक्येनोत्क्रमणे प- रदेवता वागादीन्याकर्षतीत्युच्यते इत्युक्तम् । 'तस्य' म्रियमाणस्य पुरुषस्य यावत्पर्यन्तं वागभिमान्युमा मनोऽभिमानिनि ' न सम्पद्यते '
१०२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] सि सम्पद्यते' (छा. ६-१५-१.) इति शब्दाच्च । (२) उमा वै वाक्समुद्दिष्टा मनो रुद्र उदाहृतः । तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद्विहीयते ॥ इति स्कान्दे ॥ (३) सू-- ॐ ॥ अत एव च सर्वाण्यनु ॥ ॐ ॥ २ ॥ अत एव च शब्दात्सर्वाणि दैवतानि यथाऽनुकूलं वि लीयन्ते 'अग्नौ सर्वे देवा विलीयन्ते अग्निरिन्द्रे इन्द्र उमायां उमा रुद्रे विलीयते एवमन्यानि दैवतानि यथाऽ तेन प्रस्तव्यापारा न भवति । तावत्स्थीयान् ज्ञात्यादीन् जानाति । य दा तु वाङ्मनसि संपद्यते तदा न जानाति पुरुष इति श्रुत्यर्थः । यद्यपी यं श्रुतिः मरणकालीनदेवताप्रवेशविषयेति नात्रोदाहरणं युक्तं, तथाऽ पि मरणकाले देवताप्रवेशस्य प्रलयं तल्लयक्रमानुसारित्वेनास्या उ भयविषयत्वान्नासङ्गतिः ॥ (२) नन्वेतच्छ्रुतिसूत्रगतौ वाङ्मनःशब्दौ उमारुद्रपरौ कुतो ज्ञा येते इत्यतः स्मृतेरेवेत्याह— उमेति ॥ अत्राप्युमापदेन वारुणी सौपर्णी च रुद्रपदेन च शेषः सुपर्णश्चोच्यते । उमाविवक्षायां तु तस्याः रुद्र द्वारा भारत्यां लयो ज्ञातव्यः । वैशब्दः प्रसिद्धौ । 'तत्' श्रुत्युक्तं 'ए तत्' उमारुद्राख्यं वाङ्मनसाख्यं च 'मिथुनं' द्वन्द्वं 'दाम्पत्यात्' जायापतिभावात् । एवं ज्ञातुर्वैधुर्यं न भवेदिति भावः । स्कान्द इति। वाक् उमा मनो रुद्र इत्युक्तं यत इति वाक्यशेषः ॥ (३) अस्त्वेवं वाचो लयनिर्णयः । तथाऽपि न सर्वदेवानां मोक्षो युज्यते । लयानिश्चयादित्याशङ्कां परिहरत्सूत्रं पठति—अत एवेति ॥ अत्र अत इति पदमनूद्य तदर्थमाह—अत इति । 'शब्दात्' श्रुतेः । श ब्दादेवेत्यन्वयः । न तत्र मानान्तरं गवेषणीयमित्येवार्थः । एवप्रयोगो नियामकानां बाहुल्याल्लयानिश्चय इति शङ्कानिरासार्थः । चशब्दाऽ प्यर्थः । सर्वाणीत्यतः परं सम्बध्यते । न केवलं वागिति चशब्दार्थः । तत्त्वप्रदीपे तु चशब्दादिन्द्रियाणि चेत्युक्तम्। दैवतानीति सूत्रे शेषोक्तिः। अन्वित्यस्यार्थमाह यथाऽनुकूलमिति । स्वनियम्यनियामकभावानुसा रेणेत्यर्थः । विलीयन्त इति पूर्वत्राध्याहृतपदस्यात्र विपरिणामेनानुष ङ्गोक्तिः । कोऽसौ शब्द इत्यतस्तमुदाहरति--अग्नाविति । अत्रोमारुद्र पदाभ्यां सौपर्णीसुपर्णावुच्येते । अग्नेरिन्द्रे लयः सूर्यद्वारेणैव, न तु
[ अधि - २. - सू - ३. ] दीपिकासहितम्. १०२५ नुकूलम्' इति हि गौपवनश्रुतेः ॥ २ ॥ * २. अधिकरणम् ॥ ( १ ) सू-—ॐ ॥ तन्मनः प्राण उत्तरात् ॥ ॐ ॥ ३ ॥ 'मनः प्राणे' (छा. ६-१५-१०) इत्युत्तरवचनान्म नोऽभिमानी रुद्रः प्राणे वायौ विलीयते । 'वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रे साक्षादिति ज्ञातव्यम् । विलीयत इति सर्वत्र सम्बध्यते । श्रुतिरित्यान न्तरं यत इति शेषः । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः । शब्दात् श्रुते रिति सामानाधिकरण्यम् ॥ १ ॥ ॥ इति वाङ्मनोऽधिकरणम् ॥ * २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मनसः प्राणे लयस्समर्थ्यते । न प्राणे मनो लीयते, अविशेषात् इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—तन्मन इति ॥ अत्र शब्दादित्यस्यानुवृत्त्या उत्तरादिति हेतुवाक्यं व्याचष्टे— मन इति । इत्युत्तरवचनादिति । एवंरूपात् ‘वाङ्मनसि सम्पद्यते’ इति पूर्वनयोदाहृतवाक्यापेक्षयोत्तराद्वाक्यादित्यर्थः । तन्मन इति स मासनिविष्टतच्छब्दस्य पूर्वनयोक्तवाग्लयाधिकरणत्वविशेषितपरत्वे न स्पष्टार्थत्वात् तं विहाय तन्मनः प्राण इति प्रतिज्ञांशं व्याचष्टे—मन इति । विलीयत इति शेषोक्तिः, श्रुतौ सम्पद्यत इत्यनुवृत्तपदार्थकथ नं वा । सावधारणमेतत् । अत्र प्राणवायुपदाभ्यां व्याख्येयव्याख्यान रूपाभ्यां चतुर्मुखो ग्राह्यः । मनोरुद्रपदाभ्यां शेषो गरुडश्च । तयोश्च वा णीद्वारा चतुर्मुखे लयो बोध्यः । एवं श्रुतावपि वायुरुद्रशब्दौ मनःप्रा णशब्दौ व्याख्येयौ । ननु प्राणादनुत्पन्नस्य मनसः कथं प्राणे लय इ त्यतोऽनुवृत्तं शब्दादित्येतच्छ्रुत्यन्तरपरतयाऽपि व्याचष्टे—वायोरिति । वावेत्यवधारणे । ‘उदेति’ उत्पद्यते, तस्मादुत्पन्नतयादेव वायौ विली यते रुद्रः । तस्मादित्युत्तरत्रापि सम्बध्यते । ‘तस्मात्’ रुद्रोत्पत्तिल यहेतुत्वादाहुर्बुधाः ‘देवानां’ रुद्रादीनाम् । श्रुतिरित्यानन्तरं यत इति शेषोऽस्य मनः प्राण इति सिद्धमित्युपस्कृतेनान्वयः । अस्मिन् पक्षे प्रा १२९
१०२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ष्ठः' इति च कौण्डिन्यश्रुतिः ॥ ३ ॥ —::— ३. अधिकरणम् ॥ ( १) सू—ॐ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ ॐ ॥ ४ ॥ स प्राणः परमात्मनि विलीयते । 'सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः प रमनुप्राणिति तस्मादाहुः प्राणस्य प्राण इति' ( ) ण इति निमित्तसप्तमीति ध्येयम् ॥ २ ॥ ॥ इति मनःप्राणाधिकरणम् ॥ —::— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्राणशब्दोक्त चतुर्मुखस्येश्वरे लयः समर्थ्य ते । तदधीनत्वानिश्चयान्न परमात्मनि प्राणो लीयत इति पूर्वपक्षे सि द्धान्तयत्सूत्रमुपन्यस्यति—स इति ॥ सोऽध्यक्षे इति प्रतिज्ञायां स इ त्यनुवादेन प्राण इति व्याख्यानं कृतम् । 'प्राणो' हिरण्यगर्भः । अध्य क्षे इत्यस्य 'अध्यक्षोऽधिपतिः श्रेष्ठो यदक्षाण्यस्य चोपरि' इति गीता तात्पर्येोदाहृतवचनानुसारेणैतज्जगदधिकृत्याक्षाणि यस्य सोऽध्यक्ष इ ति विग्रहाश्रयेणार्थं दर्शयति—परमात्मनीति । विलीयत इति शेषो क्तिः । सावधारणमेतत् । कुत इत्यतस्तत्राध्यक्षपदसूचितं तस्य तद् धीनत्वादिति हेतुमभिप्रेत्य, ननु तन्निश्चयोपायाभाव इत्यतः प्रवृत्तस्य तदुपगमादिभ्य इति हेतुवाक्यस्य तस्मिन् प्राणे तेषां देवानामुपगमो लयः तस्मिन् अध्यक्षे तस्य प्राणस्योपगमो वा , आदिपदेन सर्वेषां प्रा णानुप्राणनं तत्र लयः प्राणस्य अध्यक्षाानुप्राणनं तत्र लयो भोगश्च ग्रा ह्यः , तदसिद्धिशङ्कायां उपगमादित्यनेन तत्प्रतिपादकश्रुतिस्मृतयो ग्रा ह्या इत्यर्थमभिप्रेत्य तादृशश्रुतिस्मृत्युदाहरणेन तदुपगमादिभ्य इत्यंशं व्याचष्टे—सर्वे इति । देवा इत्यत्रापि सम्बध्यते । ईशलक्ष्मीव्यतिरिक्त सर्वदेवा इत्यर्थः । अन्यथा ‘प्राणः परम्’इत्युत्तरवाक्यविरोधः । 'उपग च्छन्ति' प्राप्नुवन्ति 'प्राणो' हिरण्यगर्भः । 'परं' परमेश्वरं 'उपग च्छति',तत्र लीयत इति यावत् । 'देवाः' शेषादयः 'प्राणमनुप्राण न्ति,'प्राणमनुसृत्य चेष्टां कुर्वन्ति । 'परं' परमात्मानं 'तस्मात्' प्रा णचेष्टाप्रवर्तकत्वात् । इत्याहुरित्यत्रापि परमिति सम्बध्यते । अत्र 'न
[ अधि - ३. सू - ४. ] दीपिकासहितम्. १०२७ ‘प्राणः परस्यां देवतायाम्’ ( ) । ( २ ) मुक्तास्सन्तोऽग्निमाविश्य देवास्सर्वेऽपि भुञ्जते । अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोऽपि तु ॥ आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् । न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथं चन॥ किमु विष्णोः परानन्दो न ते विष्णाविति श्रुतेः॥ प्राणः कस्मिंश्चिदाश्रितः, सोऽन्यं कथमुपाश्रयेत’ इत्यादिप्राणस्वातन्त्र्य श्रुतीनां सावकाशत्वप्रदर्शनाय ‘सर्वे प्राणमुपगच्छन्ति, प्राणं देवा अ नुप्रणन्ति’ इत्यंशोदाहरणम् । तथा च ‘सर्वे प्राणमुपगच्छन्ति’ इ ति श्रुत्युक्तन्यायेन भगवदितरस्वातन्त्र्ये श्रुतितात्पर्यमिति भावः। ‘प्रा णः परस्यां देवतायाम्’ इति श्रुत्यन्तरं, ‘परस्यां’ विष्ण्वाख्यदेवता यां ‘प्राणः’ चतुर्मुखो लीयत इत्यर्थः ॥ ( २ ) मुक्तास्सन्त इति स्मृतिः ॥ अग्नेरधमास्तत्र लययोग्याः सर्वे देवाः ‘मुक्ताः’ कर्मक्षयं प्राप्ताः सन्तोऽग्निं प्रविश्य तत्र स्थितान् भोग्या न् स्वयोग्यानन्दादीन् ‘भुञ्जते’ अनुभवन्तीत्यर्थः । अपिरभिव्याप्तौ, अग्निरपीति वा । अग्नेरिन्द्रप्रवेशः परम्परया । तथाशब्द उपमायाम् । चः समुच्चये । ‘वायुं’ विरिञ्चमाविश्येति पूर्वोक्तसौपर्णीसुपर्णवाणी द्वारेणेति द्रष्टव्यम् । ‘सः’ वायुः । अपिस्समुच्चये । तुशब्दो हिरण्य गर्भस्येतरदेवेभ्यः सर्वाङ्गप्रवेशाख्यविशेषार्थः । अवधारणे वा तुः । ‘बाह्यकान् भोगान्’ भुज्यन्त इति भोगाः परमात्मस्वरूपानन्दात् मु क्तान्तरानन्दाच्च बाह्यान् स्वयोग्यानन्दानित्यर्थः । बहुवचनमेकत्वार्थे । यद्वा—बाह्यप्राकृतविषयभोगानित्यर्थः। उक्तं हि तत्त्वप्रदीपे । परमा त्मस्वरूपादन्यं मुक्तान्तरानन्दाच्च बाह्यं स्वानन्दं भुङ्क्ते । बहिर्निर्गत स्तु बाह्यविषयानपि कांश्चित्स्वयोग्यान् भुङ्क्ते इति । पुनस्तुशब्दोऽव धारणार्थः । बाह्यकानित्येतदेवोपपादयति—न हीति। ‘हि’ यस्मात् ‘तेषां’ मुक्तानां मध्ये एकस्य ‘निजः’ स्वरूपभूत आनन्दः ‘परैः’ अन्यैः ‘कथं चन’ केनाप्युपायेन प्राप्यो न भवति । विष्णोः परान न्दस्तु न प्राप्य इति किमु वक्तव्यमित्यर्थः। विष्णुसम्बन्ध्यानन्दोऽन्यै र्न लभ्य इति कुतो ज्ञायत इत्यत आह—न त इति। अन्यथैतच्छ्रुति विरोधः स्यादिति भावः। व्याख्यातैषा श्रुतिर्जन्माधिकरणे । न च प्र
१०२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ( ३ ) प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् । सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम् ॥ इत्यादिध्रुतिस्मृतिभ्यः ॥ ४ ॥ -*- ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ भूतेषु तच्छ्रुतेः ॥ ॐ ॥ ५ ॥ वेशाभिधायकस्मृत्युदाहरणं प्रकृतासङ्गतमिति वाच्यम् । 'मुक्तौ लये यद्वत्' इत्यनुव्याख्यानोक्तरीत्या मुक्तौ भोगार्थं प्रवेशक्रमस्य लये प्र- वेशक्रमस्य च समनियतत्वेन सङ्गतत्वात् ॥ ( ३ ) ननु 'प्राणः परस्याम्' ( ) इति श्रुतौ प्राणस्य पर- मात्मनि लय उक्तः । स नोपपद्यते 'प्राणस्तेजसि' (छा. ६-१५-१०) इति श्रुतिविरोधादित्यतः स्मृत्यन्तरमुदाहरति—प्राणस्येति ॥ प्राणस्य 'ते- जसि' लक्ष्म्यां लयो नाम 'मार्गमात्रं' तत्प्राप्तिमात्रम्, न तु जीर्णभाव इति 'उदाहृतं' उक्तमभियुक्तैरित्यर्थः । कुतोऽमुख्यार्थकल्पनेत्यत आह- सर्वेशितुरिति ॥ 'तस्य' प्राणस्य 'सर्वादेः' सर्वोत्पत्तिकारणात् 'सर्वे- शितुः' विष्णोरन्यत्र कथं साक्षाल्लयः अयोग्यत्वात् तस्य साक्षात्परमा- त्मनि लययोग्यत्वादिति भावः । इदं च श्रुतिस्थप्राणशब्दस्य हिरण्य- गर्भवाचित्वमाश्रित्योक्तम् । उक्तं हि सुधायां-प्राणशब्दस्य हिरण्यगर्भ- वाचित्वपक्षे भाष्योक्तमिति द्रष्टव्यमिति । यदा तु प्राणशब्दो वायुवाची तदा तस्य 'तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुनस्तयैव वायुः' इत्यनुव्याख्यानोक्तरीत्या साक्षादेव तेजस्येव देहलयो न परमात्मनि, तस्य च चतुर्मुखत्वेन पुनर्जननात् 'विलीनो हि प्रकृतौ संसारमेति' ( सौपर्णश्रुतिः ) इति श्रुतेरिति ध्येयम् । इत्यादिध्रुतिस्मृतिभ्य इति । श्रुती च स्मृती चेति विग्रहः । आदिशब्दोक्तश्रुतिस्मृतिविवक्षया बहु- वचनम् । विलीयत इति शेषोक्तिः । सावधारणमेतत् । श्रुतिस्मृतिभ्य इत्यस्य प्राणः परमात्मनि लीयते इति सिद्धमिति साध्येनान्वय
[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०२९ भूतेष्वन्येषां देवानां लयः। 'भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकल एव मध्ये स्थाता' इति बृहच्छ्रुतेः॥ ५॥ —::— ५. अधिकरणम् ॥ (१) सू—ॐ ॥ नैकस्मिन् दर्शयतो हि ॥ ॐ ॥ ६ ॥ नैकस्मिन् भूते सर्वेषां देवानां लयः 'पृथिव्यामग्नौ इति श्रुतेरग्नावेव सर्वेषां देवानां लय इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुप न्यस्यति-भूतेष्विति ॥ अत्र स इति विपरिणामेनानुवर्तते । देवा विली यन्त इति प्रकरणाल्लभ्यत इति भावेन भूतेष्विति प्रतिज्ञांशं व्याचष्टे- भूतेष्विति । पञ्चस्वपि भूतेषु तदभिमानिष्वित्यर्थः । अन्येषामिति । 'वाङ्मनसि' इत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु लीय मानत्वेन उक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्योऽन्येषां देवाना मित्यर्थः । कुत इत्यतः तच्छ्रुतेरित्यंशं व्याचष्टे-भूतेष्विति । 'देवाः' उक्तेभ्योऽन्ये देवाः 'भूतानि' पृथिव्यादीनि 'परे' परमात्मनि लीय न्ते इत्यनुषङ्गः । भूतानां परमात्मनि लयस्तु आकाशोर्व्योः बृहस्पति द्वारा भूतवायोः प्रवहस्येन्द्रद्वारा अपां सोमद्वारेत्येवं परम्परया द्रष्ट व्यः । परस्यापीतरवच्चेतनत्वाल्लयमाशङ्कयाह - न पर इति । 'नोदेति' नोत्पद्यते । 'अस्तं' लयं 'नेति' न प्राप्नोति । कुत इत्यत आह— 'ए कलः' स्वतन्त्र इति । 'मध्ये' देहमध्ये हृदये 'स्थाता' विद्यमान इ त्यर्थः । यद्वा—उत्पत्तिलययोर्मध्ये स्थितावेक एव स्थातेत्यर्थः । अनेन ते विशिष्योक्तेभ्योऽन्ये देवाः पञ्चस्वपि भूतेषु लीयन्ते, नैकस्मिन्नग्ना वेव । कुतः ? 'तच्छ्रुतेः' तस्य भूतेषु देवानां लयस्य श्रुतेः 'भूतेषु दे वाः' इति श्रवणादिति सूत्रार्थ उक्तो भवति ॥ ४ ॥ ॥ इति भूताधिकरणम् ॥ —✡*— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवानां सर्वभूतेषु लयः समर्थ्यते । न च पूर्वे ण गतार्थता । अधिकाशङ्कयैवैतदधिकरणप्रवृत्तेः । न च सन्न्यायरत्
[Page Header: १०३० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ४. पा - २. ]]
विलीयन्ते वरुणेऽश्विनावग्नावग्नयो वायाविन्द्रः सो- म आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते । (२) ‘ऋभवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्ते’ इति महोपनि
अर्थतोऽप्यभिन्नन्यायमूलत्वेन चाधिकरणभेदेऽप्यविरोधात् । न चानेन पूर्वस्य गतार्थता । ‘भूतेषु देवाः’ इति श्रुतिविशेषसूचकतया सार्थक- त्वात् । ‘अग्नौ सर्वे देवाः’ इति श्रुतेरग्नावेव सर्वेषां लय इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—नैकस्मिन्निति ॥ अत्र पूर्वसूत्राद्भूतेष्वि- त्यस्य विपरिणामेनानुवृत्तिं सर्वेषां देवानां लय इति प्रकृतप्रतिज्ञाशेषं चाभिप्रेत्य नैकस्मिन्निति प्रतिज्ञांशं व्याचष्टे—नैकस्मिन्निति । भूते तेजोभिमानिनि अग्नावेव लयो न वाच्य इत्यर्थः । कुतो नेत्यतः प्रवृत्तं द- र्शयतो हीति हेत्वंशं श्रुतिद्वयोदाहरणपूर्वकं व्याचष्टे—पृथिव्यामित्या- दिना । पृथिव्यभिमानिधरायामृभुनामका देवा विलीयन्त इत्यर्थः । ‘व- रुणे’ अबभिमानिनि अश्विनौ विलीयेते इति विपरिणामेनान्वयः । ‘अ- ग्नौ’ अग्नattribute/जडाभिमानिनि देवे ‘अग्नयः’ अग्निपुत्रा विलीयन्त इत्यर्थः । ‘वायौ’ प्रधाने हिरण्यगर्भपरोऽयं शब्दः । इतिशब्दः श्रुतिस्थः आद्यर्थे । यथोक्तं तत्त्वप्रदीपे—इतिशब्दस्याद्यर्थत्वादिति । तथा च वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याद्याः सर्वे देवा विलीयन्त इत्यर्थः । तत्रे- न्द्रस्य लयः ‘इन्द्र उमायाम्’ ( गौपवन. ) इति श्रुत्युक्तक्रमेण सौ- पर्णीसुपर्णवाणीद्वारेण । सोमस्य चानिरुद्धकामवारुणी शेषवाणीद्वारे- ण । सूर्यस्य बृहस्पतिशक्रसौपर्णीसुपर्णवाणीद्वारेण । बृहस्पतेः शक्र- सौपर्णीसुपर्णवाणीद्वारेण लय इति विवेक्तव्यम् । ‘आकाशे’ तदभि- मानिनि गणपतौ ‘साध्याः’ तन्नामका देवाः ॥ (२) एवं महोपनिषद्वाक्यमुदाहृत्य चतुर्वेदशिखावाक्यमुदाहर- ति—मृत्यवः पृथिव्यामिति ॥ मारकत्वान्निमित्तात् मृत्युनामका देवाः पृथिव्यभिमानिदेवतायां लीयन्त इत्यर्थः । ऋभवः पृथिव्यामिति क- चित्पाठः । न च ऋभुपृथिव्योः शतस्थतासाम्यात्कथमेतत् । किञ्चि- न्यूनतादिभावात् । ‘आपः’ वरुणाभिन्नाद्देवताः ‘तेजसि’ तेजोभूता- भिमानिन्यग्नौ ‘मरुतो’ भूतवाय्वादयो मरुद्गणाः ‘मारुते’ हिरण्यग- र्भे लीयन्ते इत्यर्थः । तत्र मरुतां इन्द्रसौपर्णीसुपर्णवाणीद्वारेण हिरण्य-
[ अधि - ५. सू - ६. ] दीपिकाসহিতम्. १०३१ पश्चतुर्वेदशिखे च दर्शयतः। अतः 'अग्नौ देवा वि गर्भं लयो न साक्षादिति ध्येयम् । ' विनायकः ' गणपतिभृत्याः विना यकपुत्रा इति वा । ब्रह्मचारिवेषेण प्रच्छन्न इति तत्त्वप्रदीपे उक्तम् । वस्तुतो विनायकस्य गृहस्थत्वात् 'इतीति' एवंग्रूपेत्यर्थः । महोपनि षच्चतुर्वेदशिखा चेत्यनेन सूत्रे महोपनिषच्चतुर्वेदशिखे इति द्विवचना न्तपदाध्याहारः सूचितः । ' दर्शयतः ' प्रतिपाद्यतः। इतीत्यत्रापि स म्बध्यते। तथा च 'इति' इत्येवं प्रत्येकं भूतेषु देवतालयं दर्शयत इ त्यर्थः । अनेन सूत्रे पूर्वस्मात्तदित्पेत्तद्विभज्यानुवर्तते । प्रत्येकं भूतेषु दे वानां लीनत्वमिति तदर्थस्य दर्शनक्रियायां कर्मत्वेनान्वय इत्युक्तं भ वति । ननु प्रत्येकं भूतेषु देवानां लये 'अग्नौ सर्वे देवा विलीयन्ते ' इ ति श्रुतेः का गतिरित्यत आह—अत इति। इतीत्यनन्तरं श्रुत्या लया भिधानमिति शेषः । 'अत्र' अनयोः। तथा च यत एवं पृथक् श्रुतित्वये प्रत्येकं भूतेषु देवानां लयः प्रसिद्धोतः ' अग्नौ सर्वे देवाः विलीयन्ते ' इति श्रुत्या लयाभिधानं ' अत्र ' उदाहृतश्रुतित्वये ' निर्दिष्टानां ' उक्ता नामग्निपुत्राणामेव, न सर्वेषां देवानामित्यङ्गीकार्यमित्यर्थः । तथा च श्रुतिस्थाग्निशब्दः कृत्स्नाग्निपुत्रविषय इति न तद्विरोध इति भावः । उ पलक्षणमेतत् । प्रायेण भूतान्तराप्रवेशानां सर्वेषामधमानाम्नावेव ल य इति तदभिप्रायकः सर्वशब्द इत्यपि द्रष्टव्यम् । तदुक्तमनुव्याख्याने। 'विशन्ति शिष्टा अपि हव्यवाहनम् ' इति । अत्रायं गुरुपादोक्तलय क्रमः—मनुष्योत्तमानां निर्ऋऋतेश्च यमे लयः । यमस्य पितॄणां वैव स्वतादिमनूनां प्रियव्रतादिचक्रवर्तिनां च स्वायम्भुवे मनौ लयः । ऋ भूणां पृथिव्यां लयः । साध्यानामाकाशे लयः। अग्निपुत्राणामग्नौ ल यः। अग्नेः सूर्ये लयः । सूर्यस्याकाशस्य पृथिव्याश्च गुरौ लयः । भृग्वा दीनां दक्षे लयः । मनुगुरुदक्षशचीनां मरुद्गणानां चेन्द्रे लयः । गन्धर्वा णां कुबेरे लयः। शतस्थानामश्विनोश्च अब्भूताभिमानिनि वरुणे लयः। कुबेरस्य वरुणस्य च सोमे लयः । सोमस्य विष्वक्सेनादिपार्षदानां च अनिरुद्धे लयः । अनिरुद्धस्य सनकादियतीनां रत्याश्च कामदेवे लयः । कामदेवस्य वारुण्याम् । वारुण्याः शेषे । शेषस्य सरस्वत्याम् । एवमिन्द्रस्य सौपर्ण्या लयः । सौपर्ण्या गरुडे । गरुडस्य सरस्वत्याम् । एवं शेषगरुडमार्गभेदेन स्वोदरप्रविणखिलप्रपञ्चायाः सरस्वत्याः विरि
has:
left loop, goes down, connects to च.
In line 8, the first character has:
left loop, goes down, connects to च, with े on top: श्चे!
Wait, is there a letter before it cut off? No, it's at the margin.
Wait, could it be श्चैव? No, just श्चे लयः.
Wait, or is it नै लयः?
Let's look at the letter:
Whatever it looks like, it's printed as श्चे लयः or न्ने लयः.
Wait, let's look at the top left of that glyph:
Is it श्चे? Yes, श्चे. Let's write श्चे लयः (or न्ने लयः if read that way, but श्चे is most visually accurate).
Wait, let's read the rest of the text line by line to make sure everything is completely faithful to the print.
Line : १०३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
Line : लीयन्ते' इति अत्र निर्दिष्टानामॆव ॥ ६ ॥ Wait, look at निर्दिष्टानामॆव: The 'म' has an e-matra: 'मे'? Yes, 'नि-र्दि-ष्टा-ना-मे-व': 'निर्दिष्टाना
? No, it's निर्दिशति!
Wait, let's look at निर्दिशति: नि र्दि श ति -> निर्दिशति!
त्प्रकृतिरित्यर्थः । ‘परमः’ परमात्मा । चौ परस्परसमुच्चये । सृत्यनुप-
क्रमादिति नित्यमुक्तावित्यत्र हेतुः । ‘नित्यौ’ देहतोऽपि नित्यौ सर्वग-
तौ चेति असृत्युकक्रमे हेतुः। पूर्ववच्चशब्दद्वयार्थः। ‘प्रकृतिपरमशब्द-
Wait, let's look at असृत्युकक्रमे vs असृत्यनुपक्रमे vs असृत्युपक्रमे:
Look at L23:
तौ चेति असृत्युक... wait, अ सृ त्यु प क्र मे
Look at प: it has the standard U-shape with a right stem!
So it is प, not क! असृत्युपक्रमे!
Wait, is there any क there? No, प + क्र = पक्र -> असृत्युपक्रमे!
योरन्यपरत्वशङ्कानिरासाय—एतौ ज्ञात्वेति शेषोदाहरण
१०३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ( ३ ) सू—ॐ ॥ तदपीतेस्संसारव्यपदेशात् ॥ ॐ ॥ ८ ॥ ‘समावेतौ प्रकृतिश्च परश्च नित्यौ सर्वगतौ नित्य मुक्तौ असमावेतौ प्रकृतिश्च परश्च विलीनो हि प्रकृ तौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति सौपर्णश्रुतेः ॥ ८ ॥ ( ३ ) नैतावतेत्युक्तसाध्ये हेतुतया सूत्रं पठित्वा सूत्रव्याख्यानस्य श्रुत्यैव करणात्तद्विहाय सूत्रोपात्तश्रुतिमेवोदाहरति—तदिति ॥ एता वित्युक्तावेव दर्शयति—प्रकृतिश्चेति । ‘नित्यौ’ देहतोऽपि नित्यौ । समावेतावित्यारभ्य नित्यमुक्तावित्यन्तेन नित्यमुक्तत्वादिनैव साम्यमि त्यर्थे प्रमाणमुक्तं भवति, न तु सर्वसाम्यमिति प्रतिज्ञायाम् । तच्चैतौ मो चकत्वामोचकत्वरूपविरुद्धधर्माधिकरणत्वे च प्रमाणत्वेन श्रुतिशेषमु दाहरति—असमावेताविति । ‘हि’ यतः ‘परमे’ परमात्मनि ‘विली नः’ अन्यैरदृश्य एव तं प्राप्तः ‘अमृतत्वं’ मुक्तिमेतीति । अनेन सौत्र तच्छब्दः परमात्मपरोऽपीत्युक्तं भवति । विलीन इत्यनेनापीतिशब्दो व्याकृतः । श्रुतेरिति व्यपदेशपदार्थोक्तिः । अनेन—तदपीतेरिति हेतौ पञ्चमी । संसारेति तन्निवृत्तेरप्युपलक्षकम् । अनुवृत्तचशब्देन नेति लभ्यते । तथा च तस्यां प्रकृतौ अपीतेः लयात्संसारव्यपदेशात् ‘वि लीनो हि’ इति श्रुतौ संसारप्राप्त्युक्तेः तथा तस्मिन् परमात्मनि अ पीतेः अमुक्तैरदर्शनविशिष्टप्राप्तेरमृतत्वोक्तेः मोचकत्वामोचकत्वरूप विरुद्धधर्मवतोः प्रकृतिपुरुषयोर्न सर्वधर्मेण साम्यम्, किन्तु नित्यमु क्तत्वादिनैवेति सूत्रार्थ उक्तो भवति । यद्वा—तदपीतेरिति षष्ठी । सं सारपदं करणव्युत्पत्त्या तद्धेतुपरं भावप्रधानम् । तथा च तदपीतेः संसारहेतुत्वोक्तेरित्यर्थः । संसारनिवृत्तिरूपमुक्तिहेतुत्वस्याप्युपलक्षण मेतत् । तत्त्वप्रदीपे तु—तदापीतेरिति पठित्वा अपीतिरविज्ञातप्रवेशः ‘अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते’ इति वचनात् । आ समन्ता दपीतिरापीतिः स्वपरोभयाविज्ञातप्रवेशः । तस्या इत्यर्थः । आङ्प्र श्लेषाभावे ‘अप्ययोऽयं समुद्दिष्टः तदन्येषामदर्शनम्’ ( ) इति तत्त्वनिर्णयोदाहृतश्रुतिवचनात्प्रवेशस्यान्याविज्ञातत्वमेव प्रतीय ते । पूर्वस्यानेन सावकाशत्वात् । तन्मा प्रत्यायीत्याङ्प्रश्लेषः । तथा च तदा स्वस्याप्यविज्ञात एव प्रकृतौ प्रवेश इत्यर्थ इति व्याख्यातः ।
[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०३५ (४) सू–ॐ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ॐ ॥ ९ ॥ सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादि प्रमाणाधिक्यं च । सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः । ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः ॥ इति च तुरश्रुतिः ॥ ९ ॥ (५) सू–ॐ ॥ नोपमर्देनातः ॥ ॐ ॥ १० ॥ टीकाकृतोऽप्याङप्रश्लेषः अपीतिशब्देन चादर्शनविशिष्टा प्राप्तिरेवा भिप्रेता, न तु प्रध्वंसः । प्रध्वंसस्तु प्रमाणान्तरगम्य इति तत्त्वनिर्णय टीकोक्तिविरोधात् ॥ (४) हेत्वन्तरेण प्रकृतिपुरुषयोः सर्वसाम्यं प्रतिषेधत्सूत्रं पठति—सूक्ष्ममिति ॥ अत्र पूर्वस्मात्तदिति विभज्यानुवृत्तमावर्तते । प्र माणशब्दः परिमाणवाची
१०३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् । (६) देशतः कालतश्चैव समा प्रकृतिरीश्वरे । उभयोरप्यबद्धत्वं तद्बन्धः परात्मनः ॥ स्वत एव परेशस्य सा चोपास्ते सदा हरिम् । प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ॥ ण्यं तन्मात्रनिष्ठत्वं तस्य 'अनुपमर्देन' अबाधेन तस्याः प्रकृतेः तेन प रमेश्वरेण तेन नित्यमुक्तत्वादिन साम्यमस्त्येवेति सूत्रार्थ इत्यभिप्रे त्य सूत्रं व्याचष्टे—अत इति । 'विशेषगुणाः' असाधारणगुणाः स्वा तन्त्र्यादयः । तेषामनुपमर्देनेत्यस्य तेषामसाधारण्यस्यानुपमर्देनेत्य र्थः । अन्यथा लक्ष्मीस्वातन्त्र्यादावपि विष्णुस्वातन्त्र्यादेरबाधादस ङ्गतत्वापत्तेः । तन्मात्रनिष्ठत्वरूपासाधारण्यस्य तु अस्त्येव बाध इति भावः । साम्यमस्तीति शेषः । अनेनैवशब्दस्यान्वयः ॥ (६) यदि प्रकृतेरीश्वरेण नित्यमुक्तत्वादिसाम्यं तर्ह्यस्त्येव विशे षगुणासाधारण्योपमर्दः, प्रकृतेर्नित्यमुक्तत्वे तत एव स्वातन्त्र्यप्राप्तेरि त्यत आह—देशत इति ॥ 'ईश्वरे' ईश्वरेण 'उभयोः' प्रकृतीश्वर योः 'अबद्धत्वं' नित्यमुक्तत्वमित्यर्थः । अस्तीति शेषः । अपिः यद्यपि तथाऽपीत्यर्थोऽबद्धत्वमित्यस्यानन्तरं योज्यः । नित्यमुक्तत्वादिसाम्ये ऽपि न स्वातन्त्र्यादि प्रकृतेरित्याह—तद्बन्ध इति । स चासावबन्ध श्च तद्बन्धः परमात्मनः परेशस्येति सामानाधिकरण्यम् । तथा च यद्यप्युभयोरबद्धत्वमस्ति, तथाऽपि 'परमात्मनः' परमचेतनस्य 'प रेशितुः' विष्णोः 'तद्बन्धः' अबद्धत्वमित्युक्तोऽबन्धः 'स्वत एव' अपराधीन एव, न प्रकृतेरतो न तस्याः स्वातन्त्र्यादीत्यर्थः । अथ वा—' तद्बन्धः' तस्याः प्रकृतेरबन्धः नित्यमुक्तत्वं 'परमात्मनो' ह रेः सकाशादागतं, परस्य तु स्वत एवेति वैयधिकरण्येनान्वयः । प्रकृ तेर्हर्यधीनाबद्धत्वे युक्तिमाह—सा चेति । 'चो' यतः 'सा' प्रकृतिः 'सदा हरिमुपास्ते' सदा हरिसमीपे तिष्ठति अतो नित्यमुक्तत्वं तस्या इति भावः । यद्वा--प्रकृतेरबद्धत्वे उपासनात्रैय्यर्थ्यमित्यत उपासनं न फलार्थं, किन्तु आदरादित्युक्तन्यायेन स्वाभाविकमित्याह—सा चेति। चोऽवधारणे । स्वभावत इति शेषः । गुणान्तरेऽपि हर्यधीनत्वं प्रकृते रित्याह--प्रकृतेरिति । 'गुणाः' ज्ञानानन्दाद्याः विष्णुना नियताः । न केवलं प्रकृतेः, किन्तु 'प्राकृतस्य' ब्रह्मादेर्ये गुणाः 'ते तु' तेऽपि 'वि
[ अधि - ६. सू - ११. ] दीपिकासहितम्. १०३७ नियता नैव केनापि नियता हि हरेर्गुणाः ॥ इति भवि ष्यत्पर्वणि ॥ १० ॥ (७) सू- ॐ ॥ अस्यैव चोपपत्तेरूष्मा ॥ ॐ ॥ ११ ॥ 'द्विधा हीदमवहश्यते ऊष्मावदनूष्मावच्च । तत्रोष्मा वत्परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत्प्रकृतिश्च प्राकृतं च यन्न ष्णुना नियताः ' तदधीना एवेत्यर्थः । स्वत एवेत्यत्र हेतुमाह--नैवे ति । हिर्हेतौ प्रमाणप्रसिद्धौ वा । भविष्यत्पर्वणीति वचनाच्चोद्यपरि हारादिति शेषः । अस्य तेषामनुपमर्देन साम्यं युक्तमेवेति पूर्वेणा न्वयः ॥ (७) श्रुतिरूपयुक्त्यन्तरेण किञ्चित्साम्यं प्रतिपादयत्सूत्रं पठ ति--अस्यैवेति ॥ अत्रोष्माशब्देन घ्राणाद्यविष
१०३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च ' इति सौपर्णश्रुतेः किञ्चित्साम्योपपत्तेः ॥ ११ ॥ (८) सू— ॐ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ ॐ ॥ १२ ॥ 'असमो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्ये तेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति यत्वमादायासाधारण्यं युज्यत इति ध्येयम् । अनूष्मावद्दर्शयितुं प्रति जानीते-अथेति । आनन्तर्यार्थोऽयं शब्दः । उच्यत इति शेषः । प्रतिज्ञा तमाह—प्रकृतिश्चेति । 'प्रकृतिः' श्रीः 'प्राकृतं' ब्रह्मादि । प्राकृतं रु क्मिण्यादीति व्याख्यानं तु प्रकरणविरुद्धम् । चाद्यन्योन्यसमुच्चये । 'यत' यस्मात् 'यत' प्रकृतिप्राकृतम् । उभयरूपत्वोपपादनाय भा वाभावोक्तिः । चशब्दाः समुच्चये । सौपर्णश्रुतिश्चेति । न केवलं सा म्यतदभावान्यथानुपपत्तिरूपयुक्तिरिति चशब्दार्थः । अनेन सूत्रे ऊष्मा च ऊष्मावत्त्वप्रतिपादिका श्रुतिश्चेति चशब्दान्वयो दर्शितः । अस्येति पदे प्रातिपदिकार्थमाह—किञ्चित्साम्योपपत्तेरिति । देशका लव्याप्तिनित्यमुक्तत्वादिसाम्यस्योपपत्तेरर्थे भवतीत्यर्थः । किञ्चित्सा म्योपपादिका भवतीति यावत् । अतोऽप्यस्ति किञ्चित्साम्यमिति वा क्यशेषः ॥ (८) किञ्चित्साम्यमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—प्रतिषेधा दिति ॥ अत्र पूर्वपक्षांशेन प्रकृतिपुरुषयोः किञ्चित्साम्यमिति साध्या ध्याहारमभिप्रेत्य प्रतिषेधक श्रुत्युदाहरणपूर्वकं पूर्वपक्षांशं व्याचष्टे— असमो वेति । वैशब्दोऽवधारणे । 'परः' परमात्मा 'असम एव' न तु केनापि प्रकारेण सम इत्यर्थः । कुत इत्यत आह—न हीति । 'हि' यतो लोके कश्चित्पुरुषः 'एवं' परमात्मवत् न दृश्यते अत इत्यर्थः । असाम्यमेव विरुद्धधर्मोक्त्योपपादयति--सर्वे इति । 'एते' जीवाः 'अणवः' अपूर्णाः 'छिद्राः' दोषिणः । दोषमेव लेशतो दर्शयति—दे हतो जायन्ते नश्यन्ति चेति । 'परः' परमात्मा तु देहतोऽपि न जाय ते न म्रियते पूर्णः सर्वगतो निर्दोष इति चशब्दार्थः । तत्त्वप्रदीपे तु अ णुत्वप्रतियोगिभूतं सर्वगतत्वं चशब्दार्थः छिद्रत्वमपूर्णत्वमित्युक्तम् । साम्येत्यतः प्राक् 'अथ परः' इत्यादिना परमेश्वरस्यैव नित्यसर्वगत त्वादिकमुक्त्वा 'सर्वे ह्येतेऽणवः' इत्यादिनाऽन्येषां तदभावमुक्त्वा