पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1075, कुल 1267 में से
संदर्भ में पढ़ें१०२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ( ३ ) प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् । सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम् ॥ इत्यादिध्रुतिस्मृतिभ्यः ॥ ४ ॥ -*- ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ भूतेषु तच्छ्रुतेः ॥ ॐ ॥ ५ ॥ वेशाभिधायकस्मृत्युदाहरणं प्रकृतासङ्गतमिति वाच्यम् । 'मुक्तौ लये यद्वत्' इत्यनुव्याख्यानोक्तरीत्या मुक्तौ भोगार्थं प्रवेशक्रमस्य लये प्र- वेशक्रमस्य च समनियतत्वेन सङ्गतत्वात् ॥ ( ३ ) ननु 'प्राणः परस्याम्' ( ) इति श्रुतौ प्राणस्य पर- मात्मनि लय उक्तः । स नोपपद्यते 'प्राणस्तेजसि' (छा. ६-१५-१०) इति श्रुतिविरोधादित्यतः स्मृत्यन्तरमुदाहरति—प्राणस्येति ॥ प्राणस्य 'ते- जसि' लक्ष्म्यां लयो नाम 'मार्गमात्रं' तत्प्राप्तिमात्रम्, न तु जीर्णभाव इति 'उदाहृतं' उक्तमभियुक्तैरित्यर्थः । कुतोऽमुख्यार्थकल्पनेत्यत आह- सर्वेशितुरिति ॥ 'तस्य' प्राणस्य 'सर्वादेः' सर्वोत्पत्तिकारणात् 'सर्वे- शितुः' विष्णोरन्यत्र कथं साक्षाल्लयः अयोग्यत्वात् तस्य साक्षात्परमा- त्मनि लययोग्यत्वादिति भावः । इदं च श्रुतिस्थप्राणशब्दस्य हिरण्य- गर्भवाचित्वमाश्रित्योक्तम् । उक्तं हि सुधायां-प्राणशब्दस्य हिरण्यगर्भ- वाचित्वपक्षे भाष्योक्तमिति द्रष्टव्यमिति । यदा तु प्राणशब्दो वायुवाची तदा तस्य 'तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुनस्तयैव वायुः' इत्यनुव्याख्यानोक्तरीत्या साक्षादेव तेजस्येव देहलयो न परमात्मनि, तस्य च चतुर्मुखत्वेन पुनर्जननात् 'विलीनो हि प्रकृतौ संसारमेति' ( सौपर्णश्रुतिः ) इति श्रुतेरिति ध्येयम् । इत्यादिध्रुतिस्मृतिभ्य इति । श्रुती च स्मृती चेति विग्रहः । आदिशब्दोक्तश्रुतिस्मृतिविवक्षया बहु- वचनम् । विलीयत इति शेषोक्तिः । सावधारणमेतत् । श्रुतिस्मृतिभ्य इत्यस्य प्राणः परमात्मनि लीयते इति सिद्धमिति साध्येनान्वय