पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1076, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०२९ भूतेष्वन्येषां देवानां लयः। 'भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकल एव मध्ये स्थाता' इति बृहच्छ्रुतेः॥ ५॥ —::— ५. अधिकरणम् ॥ (१) सू—ॐ ॥ नैकस्मिन् दर्शयतो हि ॥ ॐ ॥ ६ ॥ नैकस्मिन् भूते सर्वेषां देवानां लयः 'पृथिव्यामग्नौ इति श्रुतेरग्नावेव सर्वेषां देवानां लय इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुप न्यस्यति-भूतेष्विति ॥ अत्र स इति विपरिणामेनानुवर्तते । देवा विली यन्त इति प्रकरणाल्लभ्यत इति भावेन भूतेष्विति प्रतिज्ञांशं व्याचष्टे- भूतेष्विति । पञ्चस्वपि भूतेषु तदभिमानिष्वित्यर्थः । अन्येषामिति । 'वाङ्मनसि' इत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु लीय मानत्वेन उक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्योऽन्येषां देवाना मित्यर्थः । कुत इत्यतः तच्छ्रुतेरित्यंशं व्याचष्टे-भूतेष्विति । 'देवाः' उक्तेभ्योऽन्ये देवाः 'भूतानि' पृथिव्यादीनि 'परे' परमात्मनि लीय न्ते इत्यनुषङ्गः । भूतानां परमात्मनि लयस्तु आकाशोर्व्योः बृहस्पति द्वारा भूतवायोः प्रवहस्येन्द्रद्वारा अपां सोमद्वारेत्येवं परम्परया द्रष्ट व्यः । परस्यापीतरवच्चेतनत्वाल्लयमाशङ्कयाह - न पर इति । 'नोदेति' नोत्पद्यते । 'अस्तं' लयं 'नेति' न प्राप्नोति । कुत इत्यत आह— 'ए कलः' स्वतन्त्र इति । 'मध्ये' देहमध्ये हृदये 'स्थाता' विद्यमान इ त्यर्थः । यद्वा—उत्पत्तिलययोर्मध्ये स्थितावेक एव स्थातेत्यर्थः । अनेन ते विशिष्योक्तेभ्योऽन्ये देवाः पञ्चस्वपि भूतेषु लीयन्ते, नैकस्मिन्नग्ना वेव । कुतः ? 'तच्छ्रुतेः' तस्य भूतेषु देवानां लयस्य श्रुतेः 'भूतेषु दे वाः' इति श्रवणादिति सूत्रार्थ उक्तो भवति ॥ ४ ॥ ॥ इति भूताधिकरणम् ॥ —✡*— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवानां सर्वभूतेषु लयः समर्थ्यते । न च पूर्वे ण गतार्थता । अधिकाशङ्कयैवैतदधिकरणप्रवृत्तेः । न च सन्न्यायरत्