भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1082, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1082

[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०३५ (४) सू–ॐ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ॐ ॥ ९ ॥ सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादि प्रमाणाधिक्यं च । सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः । ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः ॥ इति च तुरश्रुतिः ॥ ९ ॥ (५) सू–ॐ ॥ नोपमर्देनातः ॥ ॐ ॥ १० ॥ टीकाकृतोऽप्याङप्रश्लेषः अपीतिशब्देन चादर्शनविशिष्टा प्राप्तिरेवा भिप्रेता, न तु प्रध्वंसः । प्रध्वंसस्तु प्रमाणान्तरगम्य इति तत्त्वनिर्णय टीकोक्तिविरोधात् ॥ (४) हेत्वन्तरेण प्रकृतिपुरुषयोः सर्वसाम्यं प्रतिषेधत्सूत्रं पठति—सूक्ष्ममिति ॥ अत्र पूर्वस्मात्तदिति विभज्यानुवृत्तमावर्तते । प्र माणशब्दः परिमाणवाची