भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1081, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1081

१०३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ( ३ ) सू—ॐ ॥ तदपीतेस्संसारव्यपदेशात् ॥ ॐ ॥ ८ ॥ ‘समावेतौ प्रकृतिश्च परश्च नित्यौ सर्वगतौ नित्य मुक्तौ असमावेतौ प्रकृतिश्च परश्च विलीनो हि प्रकृ तौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति सौपर्णश्रुतेः ॥ ८ ॥ ( ३ ) नैतावतेत्युक्तसाध्ये हेतुतया सूत्रं पठित्वा सूत्रव्याख्यानस्य श्रुत्यैव करणात्तद्विहाय सूत्रोपात्तश्रुतिमेवोदाहरति—तदिति ॥ एता वित्युक्तावेव दर्शयति—प्रकृतिश्चेति । ‘नित्यौ’ देहतोऽपि नित्यौ । समावेतावित्यारभ्य नित्यमुक्तावित्यन्तेन नित्यमुक्तत्वादिनैव साम्यमि त्यर्थे प्रमाणमुक्तं भवति, न तु सर्वसाम्यमिति प्रतिज्ञायाम् । तच्चैतौ मो चकत्वामोचकत्वरूपविरुद्धधर्माधिकरणत्वे च प्रमाणत्वेन श्रुतिशेषमु दाहरति—असमावेताविति । ‘हि’ यतः ‘परमे’ परमात्मनि ‘विली नः’ अन्यैरदृश्य एव तं प्राप्तः ‘अमृतत्वं’ मुक्तिमेतीति । अनेन सौत्र तच्छब्दः परमात्मपरोऽपीत्युक्तं भवति । विलीन इत्यनेनापीतिशब्दो व्याकृतः । श्रुतेरिति व्यपदेशपदार्थोक्तिः । अनेन—तदपीतेरिति हेतौ पञ्चमी । संसारेति तन्निवृत्तेरप्युपलक्षकम् । अनुवृत्तचशब्देन नेति लभ्यते । तथा च तस्यां प्रकृतौ अपीतेः लयात्संसारव्यपदेशात् ‘वि लीनो हि’ इति श्रुतौ संसारप्राप्त्युक्तेः तथा तस्मिन् परमात्मनि अ पीतेः अमुक्तैरदर्शनविशिष्टप्राप्तेरमृतत्वोक्तेः मोचकत्वामोचकत्वरूप विरुद्धधर्मवतोः प्रकृतिपुरुषयोर्न सर्वधर्मेण साम्यम्, किन्तु नित्यमु क्तत्वादिनैवेति सूत्रार्थ उक्तो भवति । यद्वा—तदपीतेरिति षष्ठी । सं सारपदं करणव्युत्पत्त्या तद्धेतुपरं भावप्रधानम् । तथा च तदपीतेः संसारहेतुत्वोक्तेरित्यर्थः । संसारनिवृत्तिरूपमुक्तिहेतुत्वस्याप्युपलक्षण मेतत् । तत्त्वप्रदीपे तु—तदापीतेरिति पठित्वा अपीतिरविज्ञातप्रवेशः ‘अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते’ इति वचनात् । आ समन्ता दपीतिरापीतिः स्वपरोभयाविज्ञातप्रवेशः । तस्या इत्यर्थः । आङ्प्र श्लेषाभावे ‘अप्ययोऽयं समुद्दिष्टः तदन्येषामदर्शनम्’ ( ) इति तत्त्वनिर्णयोदाहृतश्रुतिवचनात्प्रवेशस्यान्याविज्ञातत्वमेव प्रतीय ते । पूर्वस्यानेन सावकाशत्वात् । तन्मा प्रत्यायीत्याङ्प्रश्लेषः । तथा च तदा स्वस्याप्यविज्ञात एव प्रकृतौ प्रवेश इत्यर्थ इति व्याख्यातः ।