पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1072, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २. - सू - ३. ] दीपिकासहितम्. १०२५ नुकूलम्' इति हि गौपवनश्रुतेः ॥ २ ॥ * २. अधिकरणम् ॥ ( १ ) सू-—ॐ ॥ तन्मनः प्राण उत्तरात् ॥ ॐ ॥ ३ ॥ 'मनः प्राणे' (छा. ६-१५-१०) इत्युत्तरवचनान्म नोऽभिमानी रुद्रः प्राणे वायौ विलीयते । 'वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रे साक्षादिति ज्ञातव्यम् । विलीयत इति सर्वत्र सम्बध्यते । श्रुतिरित्यान न्तरं यत इति शेषः । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः । शब्दात् श्रुते रिति सामानाधिकरण्यम् ॥ १ ॥ ॥ इति वाङ्मनोऽधिकरणम् ॥ * २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मनसः प्राणे लयस्समर्थ्यते । न प्राणे मनो लीयते, अविशेषात् इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—तन्मन इति ॥ अत्र शब्दादित्यस्यानुवृत्त्या उत्तरादिति हेतुवाक्यं व्याचष्टे— मन इति । इत्युत्तरवचनादिति । एवंरूपात् ‘वाङ्मनसि सम्पद्यते’ इति पूर्वनयोदाहृतवाक्यापेक्षयोत्तराद्वाक्यादित्यर्थः । तन्मन इति स मासनिविष्टतच्छब्दस्य पूर्वनयोक्तवाग्लयाधिकरणत्वविशेषितपरत्वे न स्पष्टार्थत्वात् तं विहाय तन्मनः प्राण इति प्रतिज्ञांशं व्याचष्टे—मन इति । विलीयत इति शेषोक्तिः, श्रुतौ सम्पद्यत इत्यनुवृत्तपदार्थकथ नं वा । सावधारणमेतत् । अत्र प्राणवायुपदाभ्यां व्याख्येयव्याख्यान रूपाभ्यां चतुर्मुखो ग्राह्यः । मनोरुद्रपदाभ्यां शेषो गरुडश्च । तयोश्च वा णीद्वारा चतुर्मुखे लयो बोध्यः । एवं श्रुतावपि वायुरुद्रशब्दौ मनःप्रा णशब्दौ व्याख्येयौ । ननु प्राणादनुत्पन्नस्य मनसः कथं प्राणे लय इ त्यतोऽनुवृत्तं शब्दादित्येतच्छ्रुत्यन्तरपरतयाऽपि व्याचष्टे—वायोरिति । वावेत्यवधारणे । ‘उदेति’ उत्पद्यते, तस्मादुत्पन्नतयादेव वायौ विली यते रुद्रः । तस्मादित्युत्तरत्रापि सम्बध्यते । ‘तस्मात्’ रुद्रोत्पत्तिल यहेतुत्वादाहुर्बुधाः ‘देवानां’ रुद्रादीनाम् । श्रुतिरित्यानन्तरं यत इति शेषोऽस्य मनः प्राण इति सिद्धमित्युपस्कृतेनान्वयः । अस्मिन् पक्षे प्रा १२९