भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - २. - सू - ३. ] दीपिकासहितम्. १०२५ नुकूलम्' इति हि गौपवनश्रुतेः ॥ २ ॥ * २. अधिकरणम् ॥ ( १ ) सू-—ॐ ॥ तन्मनः प्राण उत्तरात् ॥ ॐ ॥ ३ ॥ 'मनः प्राणे' (छा. ६-१५-१०) इत्युत्तरवचनान्म नोऽभिमानी रुद्रः प्राणे वायौ विलीयते । 'वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रे साक्षादिति ज्ञातव्यम् । विलीयत इति सर्वत्र सम्बध्यते । श्रुतिरित्यान न्तरं यत इति शेषः । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः । शब्दात् श्रुते रिति सामानाधिकरण्यम् ॥ १ ॥ ॥ इति वाङ्मनोऽधिकरणम् ॥ * २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मनसः प्राणे लयस्समर्थ्यते । न प्राणे मनो लीयते, अविशेषात् इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—तन्मन इति ॥ अत्र शब्दादित्यस्यानुवृत्त्या उत्तरादिति हेतुवाक्यं व्याचष्टे— मन इति । इत्युत्तरवचनादिति । एवंरूपात् ‘वाङ्मनसि सम्पद्यते’ इति पूर्वनयोदाहृतवाक्यापेक्षयोत्तराद्वाक्यादित्यर्थः । तन्मन इति स मासनिविष्टतच्छब्दस्य पूर्वनयोक्तवाग्लयाधिकरणत्वविशेषितपरत्वे न स्पष्टार्थत्वात् तं विहाय तन्मनः प्राण इति प्रतिज्ञांशं व्याचष्टे—मन इति । विलीयत इति शेषोक्तिः, श्रुतौ सम्पद्यत इत्यनुवृत्तपदार्थकथ नं वा । सावधारणमेतत् । अत्र प्राणवायुपदाभ्यां व्याख्येयव्याख्यान रूपाभ्यां चतुर्मुखो ग्राह्यः । मनोरुद्रपदाभ्यां शेषो गरुडश्च । तयोश्च वा णीद्वारा चतुर्मुखे लयो बोध्यः । एवं श्रुतावपि वायुरुद्रशब्दौ मनःप्रा णशब्दौ व्याख्येयौ । ननु प्राणादनुत्पन्नस्य मनसः कथं प्राणे लय इ त्यतोऽनुवृत्तं शब्दादित्येतच्छ्रुत्यन्तरपरतयाऽपि व्याचष्टे—वायोरिति । वावेत्यवधारणे । ‘उदेति’ उत्पद्यते, तस्मादुत्पन्नतयादेव वायौ विली यते रुद्रः । तस्मादित्युत्तरत्रापि सम्बध्यते । ‘तस्मात्’ रुद्रोत्पत्तिल यहेतुत्वादाहुर्बुधाः ‘देवानां’ रुद्रादीनाम् । श्रुतिरित्यानन्तरं यत इति शेषोऽस्य मनः प्राण इति सिद्धमित्युपस्कृतेनान्वयः । अस्मिन् पक्षे प्रा १२९

१०२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ष्ठः' इति च कौण्डिन्यश्रुतिः ॥ ३ ॥ —::— ३. अधिकरणम् ॥ ( १) सू—ॐ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ ॐ ॥ ४ ॥ स प्राणः परमात्मनि विलीयते । 'सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः प रमनुप्राणिति तस्मादाहुः प्राणस्य प्राण इति' ( ) ण इति निमित्तसप्तमीति ध्येयम् ॥ २ ॥ ॥ इति मनःप्राणाधिकरणम् ॥ —::— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्राणशब्दोक्त चतुर्मुखस्येश्वरे लयः समर्थ्य ते । तदधीनत्वानिश्चयान्न परमात्मनि प्राणो लीयत इति पूर्वपक्षे सि द्धान्तयत्सूत्रमुपन्यस्यति—स इति ॥ सोऽध्यक्षे इति प्रतिज्ञायां स इ त्यनुवादेन प्राण इति व्याख्यानं कृतम् । 'प्राणो' हिरण्यगर्भः । अध्य क्षे इत्यस्य 'अध्यक्षोऽधिपतिः श्रेष्ठो यदक्षाण्यस्य चोपरि' इति गीता तात्पर्येोदाहृतवचनानुसारेणैतज्जगदधिकृत्याक्षाणि यस्य सोऽध्यक्ष इ ति विग्रहाश्रयेणार्थं दर्शयति—परमात्मनीति । विलीयत इति शेषो क्तिः । सावधारणमेतत् । कुत इत्यतस्तत्राध्यक्षपदसूचितं तस्य तद् धीनत्वादिति हेतुमभिप्रेत्य, ननु तन्निश्चयोपायाभाव इत्यतः प्रवृत्तस्य तदुपगमादिभ्य इति हेतुवाक्यस्य तस्मिन् प्राणे तेषां देवानामुपगमो लयः तस्मिन् अध्यक्षे तस्य प्राणस्योपगमो वा , आदिपदेन सर्वेषां प्रा णानुप्राणनं तत्र लयः प्राणस्य अध्यक्षाानुप्राणनं तत्र लयो भोगश्च ग्रा ह्यः , तदसिद्धिशङ्कायां उपगमादित्यनेन तत्प्रतिपादकश्रुतिस्मृतयो ग्रा ह्या इत्यर्थमभिप्रेत्य तादृशश्रुतिस्मृत्युदाहरणेन तदुपगमादिभ्य इत्यंशं व्याचष्टे—सर्वे इति । देवा इत्यत्रापि सम्बध्यते । ईशलक्ष्मीव्यतिरिक्त सर्वदेवा इत्यर्थः । अन्यथा ‘प्राणः परम्’इत्युत्तरवाक्यविरोधः । 'उपग च्छन्ति' प्राप्नुवन्ति 'प्राणो' हिरण्यगर्भः । 'परं' परमेश्वरं 'उपग च्छति',तत्र लीयत इति यावत् । 'देवाः' शेषादयः 'प्राणमनुप्राण न्ति,'प्राणमनुसृत्य चेष्टां कुर्वन्ति । 'परं' परमात्मानं 'तस्मात्' प्रा णचेष्टाप्रवर्तकत्वात् । इत्याहुरित्यत्रापि परमिति सम्बध्यते । अत्र 'न

[ अधि - ३. सू - ४. ] दीपिकासहितम्. १०२७ ‘प्राणः परस्यां देवतायाम्’ ( ) । ( २ ) मुक्तास्सन्तोऽग्निमाविश्य देवास्सर्वेऽपि भुञ्जते । अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोऽपि तु ॥ आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् । न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथं चन॥ किमु विष्णोः परानन्दो न ते विष्णाविति श्रुतेः॥ प्राणः कस्मिंश्चिदाश्रितः, सोऽन्यं कथमुपाश्रयेत’ इत्यादिप्राणस्वातन्त्र्य श्रुतीनां सावकाशत्वप्रदर्शनाय ‘सर्वे प्राणमुपगच्छन्ति, प्राणं देवा अ नुप्रणन्ति’ इत्यंशोदाहरणम् । तथा च ‘सर्वे प्राणमुपगच्छन्ति’ इ ति श्रुत्युक्तन्यायेन भगवदितरस्वातन्त्र्ये श्रुतितात्पर्यमिति भावः। ‘प्रा णः परस्यां देवतायाम्’ इति श्रुत्यन्तरं, ‘परस्यां’ विष्ण्वाख्यदेवता यां ‘प्राणः’ चतुर्मुखो लीयत इत्यर्थः ॥ ( २ ) मुक्तास्सन्त इति स्मृतिः ॥ अग्नेरधमास्तत्र लययोग्याः सर्वे देवाः ‘मुक्ताः’ कर्मक्षयं प्राप्ताः सन्तोऽग्निं प्रविश्य तत्र स्थितान् भोग्या न् स्वयोग्यानन्दादीन् ‘भुञ्जते’ अनुभवन्तीत्यर्थः । अपिरभिव्याप्तौ, अग्निरपीति वा । अग्नेरिन्द्रप्रवेशः परम्परया । तथाशब्द उपमायाम् । चः समुच्चये । ‘वायुं’ विरिञ्चमाविश्येति पूर्वोक्तसौपर्णीसुपर्णवाणी द्वारेणेति द्रष्टव्यम् । ‘सः’ वायुः । अपिस्समुच्चये । तुशब्दो हिरण्य गर्भस्येतरदेवेभ्यः सर्वाङ्गप्रवेशाख्यविशेषार्थः । अवधारणे वा तुः । ‘बाह्यकान् भोगान्’ भुज्यन्त इति भोगाः परमात्मस्वरूपानन्दात् मु क्तान्तरानन्दाच्च बाह्यान् स्वयोग्यानन्दानित्यर्थः । बहुवचनमेकत्वार्थे । यद्वा—बाह्यप्राकृतविषयभोगानित्यर्थः। उक्तं हि तत्त्वप्रदीपे । परमा त्मस्वरूपादन्यं मुक्तान्तरानन्दाच्च बाह्यं स्वानन्दं भुङ्क्ते । बहिर्निर्गत स्तु बाह्यविषयानपि कांश्चित्स्वयोग्यान् भुङ्क्ते इति । पुनस्तुशब्दोऽव धारणार्थः । बाह्यकानित्येतदेवोपपादयति—न हीति। ‘हि’ यस्मात् ‘तेषां’ मुक्तानां मध्ये एकस्य ‘निजः’ स्वरूपभूत आनन्दः ‘परैः’ अन्यैः ‘कथं चन’ केनाप्युपायेन प्राप्यो न भवति । विष्णोः परान न्दस्तु न प्राप्य इति किमु वक्तव्यमित्यर्थः। विष्णुसम्बन्ध्यानन्दोऽन्यै र्न लभ्य इति कुतो ज्ञायत इत्यत आह—न त इति। अन्यथैतच्छ्रुति विरोधः स्यादिति भावः। व्याख्यातैषा श्रुतिर्जन्माधिकरणे । न च प्र

१०२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ( ३ ) प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् । सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम् ॥ इत्यादिध्रुतिस्मृतिभ्यः ॥ ४ ॥ -*- ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ भूतेषु तच्छ्रुतेः ॥ ॐ ॥ ५ ॥ वेशाभिधायकस्मृत्युदाहरणं प्रकृतासङ्गतमिति वाच्यम् । 'मुक्तौ लये यद्वत्' इत्यनुव्याख्यानोक्तरीत्या मुक्तौ भोगार्थं प्रवेशक्रमस्य लये प्र- वेशक्रमस्य च समनियतत्वेन सङ्गतत्वात् ॥ ( ३ ) ननु 'प्राणः परस्याम्' ( ) इति श्रुतौ प्राणस्य पर- मात्मनि लय उक्तः । स नोपपद्यते 'प्राणस्तेजसि' (छा. ६-१५-१०) इति श्रुतिविरोधादित्यतः स्मृत्यन्तरमुदाहरति—प्राणस्येति ॥ प्राणस्य 'ते- जसि' लक्ष्म्यां लयो नाम 'मार्गमात्रं' तत्प्राप्तिमात्रम्, न तु जीर्णभाव इति 'उदाहृतं' उक्तमभियुक्तैरित्यर्थः । कुतोऽमुख्यार्थकल्पनेत्यत आह- सर्वेशितुरिति ॥ 'तस्य' प्राणस्य 'सर्वादेः' सर्वोत्पत्तिकारणात् 'सर्वे- शितुः' विष्णोरन्यत्र कथं साक्षाल्लयः अयोग्यत्वात् तस्य साक्षात्परमा- त्मनि लययोग्यत्वादिति भावः । इदं च श्रुतिस्थप्राणशब्दस्य हिरण्य- गर्भवाचित्वमाश्रित्योक्तम् । उक्तं हि सुधायां-प्राणशब्दस्य हिरण्यगर्भ- वाचित्वपक्षे भाष्योक्तमिति द्रष्टव्यमिति । यदा तु प्राणशब्दो वायुवाची तदा तस्य 'तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुनस्तयैव वायुः' इत्यनुव्याख्यानोक्तरीत्या साक्षादेव तेजस्येव देहलयो न परमात्मनि, तस्य च चतुर्मुखत्वेन पुनर्जननात् 'विलीनो हि प्रकृतौ संसारमेति' ( सौपर्णश्रुतिः ) इति श्रुतेरिति ध्येयम् । इत्यादिध्रुतिस्मृतिभ्य इति । श्रुती च स्मृती चेति विग्रहः । आदिशब्दोक्तश्रुतिस्मृतिविवक्षया बहु- वचनम् । विलीयत इति शेषोक्तिः । सावधारणमेतत् । श्रुतिस्मृतिभ्य इत्यस्य प्राणः परमात्मनि लीयते इति सिद्धमिति साध्येनान्वय

[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०२९ भूतेष्वन्येषां देवानां लयः। 'भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकल एव मध्ये स्थाता' इति बृहच्छ्रुतेः॥ ५॥ —::— ५. अधिकरणम् ॥ (१) सू—ॐ ॥ नैकस्मिन् दर्शयतो हि ॥ ॐ ॥ ६ ॥ नैकस्मिन् भूते सर्वेषां देवानां लयः 'पृथिव्यामग्नौ इति श्रुतेरग्नावेव सर्वेषां देवानां लय इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुप न्यस्यति-भूतेष्विति ॥ अत्र स इति विपरिणामेनानुवर्तते । देवा विली यन्त इति प्रकरणाल्लभ्यत इति भावेन भूतेष्विति प्रतिज्ञांशं व्याचष्टे- भूतेष्विति । पञ्चस्वपि भूतेषु तदभिमानिष्वित्यर्थः । अन्येषामिति । 'वाङ्मनसि' इत्याद्यधिकरणत्रये शेषसुपर्णचतुर्मुखपरमात्मसु लीय मानत्वेन उक्तेभ्यो वारुणीसौपर्णीशेषसुपर्णचतुर्मुखेभ्योऽन्येषां देवाना मित्यर्थः । कुत इत्यतः तच्छ्रुतेरित्यंशं व्याचष्टे-भूतेष्विति । 'देवाः' उक्तेभ्योऽन्ये देवाः 'भूतानि' पृथिव्यादीनि 'परे' परमात्मनि लीय न्ते इत्यनुषङ्गः । भूतानां परमात्मनि लयस्तु आकाशोर्व्योः बृहस्पति द्वारा भूतवायोः प्रवहस्येन्द्रद्वारा अपां सोमद्वारेत्येवं परम्परया द्रष्ट व्यः । परस्यापीतरवच्चेतनत्वाल्लयमाशङ्कयाह - न पर इति । 'नोदेति' नोत्पद्यते । 'अस्तं' लयं 'नेति' न प्राप्नोति । कुत इत्यत आह— 'ए कलः' स्वतन्त्र इति । 'मध्ये' देहमध्ये हृदये 'स्थाता' विद्यमान इ त्यर्थः । यद्वा—उत्पत्तिलययोर्मध्ये स्थितावेक एव स्थातेत्यर्थः । अनेन ते विशिष्योक्तेभ्योऽन्ये देवाः पञ्चस्वपि भूतेषु लीयन्ते, नैकस्मिन्नग्ना वेव । कुतः ? 'तच्छ्रुतेः' तस्य भूतेषु देवानां लयस्य श्रुतेः 'भूतेषु दे वाः' इति श्रवणादिति सूत्रार्थ उक्तो भवति ॥ ४ ॥ ॥ इति भूताधिकरणम् ॥ —✡*— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवानां सर्वभूतेषु लयः समर्थ्यते । न च पूर्वे ण गतार्थता । अधिकाशङ्कयैवैतदधिकरणप्रवृत्तेः । न च सन्न्यायरत्

[Page Header: १०३० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ४. पा - २. ]]


विलीयन्ते वरुणेऽश्विनावग्नावग्नयो वायाविन्द्रः सो- म आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते । (२) ‘ऋभवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्ते’ इति महोपनि


अर्थतोऽप्यभिन्नन्यायमूलत्वेन चाधिकरणभेदेऽप्यविरोधात् । न चानेन पूर्वस्य गतार्थता । ‘भूतेषु देवाः’ इति श्रुतिविशेषसूचकतया सार्थक- त्वात् । ‘अग्नौ सर्वे देवाः’ इति श्रुतेरग्नावेव सर्वेषां लय इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—नैकस्मिन्निति ॥ अत्र पूर्वसूत्राद्भूतेष्वि- त्यस्य विपरिणामेनानुवृत्तिं सर्वेषां देवानां लय इति प्रकृतप्रतिज्ञाशेषं चाभिप्रेत्य नैकस्मिन्निति प्रतिज्ञांशं व्याचष्टे—नैकस्मिन्निति । भूते तेजोभिमानिनि अग्नावेव लयो न वाच्य इत्यर्थः । कुतो नेत्यतः प्रवृत्तं द- र्शयतो हीति हेत्वंशं श्रुतिद्वयोदाहरणपूर्वकं व्याचष्टे—पृथिव्यामित्या- दिना । पृथिव्यभिमानिधरायामृभुनामका देवा विलीयन्त इत्यर्थः । ‘व- रुणे’ अबभिमानिनि अश्विनौ विलीयेते इति विपरिणामेनान्वयः । ‘अ- ग्नौ’ अग्नattribute/जडाभिमानिनि देवे ‘अग्नयः’ अग्निपुत्रा विलीयन्त इत्यर्थः । ‘वायौ’ प्रधाने हिरण्यगर्भपरोऽयं शब्दः । इतिशब्दः श्रुतिस्थः आद्यर्थे । यथोक्तं तत्त्वप्रदीपे—इतिशब्दस्याद्यर्थत्वादिति । तथा च वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याद्याः सर्वे देवा विलीयन्त इत्यर्थः । तत्रे- न्द्रस्य लयः ‘इन्द्र उमायाम्’ ( गौपवन. ) इति श्रुत्युक्तक्रमेण सौ- पर्णीसुपर्णवाणीद्वारेण । सोमस्य चानिरुद्धकामवारुणी शेषवाणीद्वारे- ण । सूर्यस्य बृहस्पतिशक्रसौपर्णीसुपर्णवाणीद्वारेण । बृहस्पतेः शक्र- सौपर्णीसुपर्णवाणीद्वारेण लय इति विवेक्तव्यम् । ‘आकाशे’ तदभि- मानिनि गणपतौ ‘साध्याः’ तन्नामका देवाः ॥ (२) एवं महोपनिषद्वाक्यमुदाहृत्य चतुर्वेदशिखावाक्यमुदाहर- ति—मृत्यवः पृथिव्यामिति ॥ मारकत्वान्निमित्तात् मृत्युनामका देवाः पृथिव्यभिमानिदेवतायां लीयन्त इत्यर्थः । ऋभवः पृथिव्यामिति क- चित्पाठः । न च ऋभुपृथिव्योः शतस्थतासाम्यात्कथमेतत् । किञ्चि- न्यूनतादिभावात् । ‘आपः’ वरुणाभिन्नाद्देवताः ‘तेजसि’ तेजोभूता- भिमानिन्यग्नौ ‘मरुतो’ भूतवाय्वादयो मरुद्गणाः ‘मारुते’ हिरण्यग- र्भे लीयन्ते इत्यर्थः । तत्र मरुतां इन्द्रसौपर्णीसुपर्णवाणीद्वारेण हिरण्य-

[ अधि - ५. सू - ६. ] दीपिकाসহিতम्. १०३१ पश्चतुर्वेदशिखे च दर्शयतः। अतः 'अग्नौ देवा वि गर्भं लयो न साक्षादिति ध्येयम् । ' विनायकः ' गणपतिभृत्याः विना यकपुत्रा इति वा । ब्रह्मचारिवेषेण प्रच्छन्न इति तत्त्वप्रदीपे उक्तम् । वस्तुतो विनायकस्य गृहस्थत्वात् 'इतीति' एवंग्रूपेत्यर्थः । महोपनि षच्चतुर्वेदशिखा चेत्यनेन सूत्रे महोपनिषच्चतुर्वेदशिखे इति द्विवचना न्तपदाध्याहारः सूचितः । ' दर्शयतः ' प्रतिपाद्यतः। इतीत्यत्रापि स म्बध्यते। तथा च 'इति' इत्येवं प्रत्येकं भूतेषु देवतालयं दर्शयत इ त्यर्थः । अनेन सूत्रे पूर्वस्मात्तदित्पेत्तद्विभज्यानुवर्तते । प्रत्येकं भूतेषु दे वानां लीनत्वमिति तदर्थस्य दर्शनक्रियायां कर्मत्वेनान्वय इत्युक्तं भ वति । ननु प्रत्येकं भूतेषु देवानां लये 'अग्नौ सर्वे देवा विलीयन्ते ' इ ति श्रुतेः का गतिरित्यत आह—अत इति। इतीत्यनन्तरं श्रुत्या लया भिधानमिति शेषः । 'अत्र' अनयोः। तथा च यत एवं पृथक् श्रुतित्वये प्रत्येकं भूतेषु देवानां लयः प्रसिद्धोतः ' अग्नौ सर्वे देवाः विलीयन्ते ' इति श्रुत्या लयाभिधानं ' अत्र ' उदाहृतश्रुतित्वये ' निर्दिष्टानां ' उक्ता नामग्निपुत्राणामेव, न सर्वेषां देवानामित्यङ्गीकार्यमित्यर्थः । तथा च श्रुतिस्थाग्निशब्दः कृत्स्नाग्निपुत्रविषय इति न तद्विरोध इति भावः । उ पलक्षणमेतत् । प्रायेण भूतान्तराप्रवेशानां सर्वेषामधमानाम्नावेव ल य इति तदभिप्रायकः सर्वशब्द इत्यपि द्रष्टव्यम् । तदुक्तमनुव्याख्याने। 'विशन्ति शिष्टा अपि हव्यवाहनम् ' इति । अत्रायं गुरुपादोक्तलय क्रमः—मनुष्योत्तमानां निर्ऋऋतेश्च यमे लयः । यमस्य पितॄणां वैव स्वतादिमनूनां प्रियव्रतादिचक्रवर्तिनां च स्वायम्भुवे मनौ लयः । ऋ भूणां पृथिव्यां लयः । साध्यानामाकाशे लयः। अग्निपुत्राणामग्नौ ल यः। अग्नेः सूर्ये लयः । सूर्यस्याकाशस्य पृथिव्याश्च गुरौ लयः । भृग्वा दीनां दक्षे लयः । मनुगुरुदक्षशचीनां मरुद्गणानां चेन्द्रे लयः । गन्धर्वा णां कुबेरे लयः। शतस्थानामश्विनोश्च अब्भूताभिमानिनि वरुणे लयः। कुबेरस्य वरुणस्य च सोमे लयः । सोमस्य विष्वक्सेनादिपार्षदानां च अनिरुद्धे लयः । अनिरुद्धस्य सनकादियतीनां रत्याश्च कामदेवे लयः । कामदेवस्य वारुण्याम् । वारुण्याः शेषे । शेषस्य सरस्वत्याम् । एवमिन्द्रस्य सौपर्ण्या लयः । सौपर्ण्या गरुडे । गरुडस्य सरस्वत्याम् । एवं शेषगरुडमार्गभेदेन स्वोदरप्रविणखिलप्रपञ्चायाः सरस्वत्याः विरि

has: left loop, goes down, connects to . In line 8, the first character has: left loop, goes down, connects to , with on top: श्चे! Wait, is there a letter before it cut off? No, it's at the margin. Wait, could it be श्चैव? No, just श्चे लयः. Wait, or is it नै लयः? Let's look at the letter: Whatever it looks like, it's printed as श्चे लयः or न्ने लयः. Wait, let's look at the top left of that glyph: Is it श्चे? Yes, श्चे. Let's write श्चे लयः (or न्ने लयः if read that way, but श्चे is most visually accurate).

Wait, let's read the rest of the text line by line to make sure everything is completely faithful to the print.

Line : १०३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]

Line : लीयन्ते' इति अत्र निर्दिष्टानामॆव ॥ ६ ॥ Wait, look at निर्दिष्टानामॆव: The 'म' has an e-matra: 'मे'? Yes, 'नि-र्दि-ष्टा-ना-मे-व': 'निर्दिष्टाना

? No, it's निर्दिशति! Wait, let's look at निर्दिशति: नि र्दि ति -> निर्दिशति!

त्प्रकृतिरित्यर्थः । ‘परमः’ परमात्मा । चौ परस्परसमुच्चये । सृत्यनुप- क्रमादिति नित्यमुक्तावित्यत्र हेतुः । ‘नित्यौ’ देहतोऽपि नित्यौ सर्वग- तौ चेति असृत्युकक्रमे हेतुः। पूर्ववच्चशब्दद्वयार्थः। ‘प्रकृतिपरमशब्द- Wait, let's look at असृत्युकक्रमे vs असृत्यनुपक्रमे vs असृत्युपक्रमे: Look at L23: तौ चेति असृत्युक... wait, सृ त्यु क्र मे Look at : it has the standard U-shape with a right stem! So it is , not ! असृत्युपक्रमे! Wait, is there any there? No, + क्र = पक्र -> असृत्युपक्रमे!

योरन्यपरत्वशङ्कानिरासाय—एतौ ज्ञात्वेति शेषोदाहरण

१०३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] ( ३ ) सू—ॐ ॥ तदपीतेस्संसारव्यपदेशात् ॥ ॐ ॥ ८ ॥ ‘समावेतौ प्रकृतिश्च परश्च नित्यौ सर्वगतौ नित्य मुक्तौ असमावेतौ प्रकृतिश्च परश्च विलीनो हि प्रकृ तौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति सौपर्णश्रुतेः ॥ ८ ॥ ( ३ ) नैतावतेत्युक्तसाध्ये हेतुतया सूत्रं पठित्वा सूत्रव्याख्यानस्य श्रुत्यैव करणात्तद्विहाय सूत्रोपात्तश्रुतिमेवोदाहरति—तदिति ॥ एता वित्युक्तावेव दर्शयति—प्रकृतिश्चेति । ‘नित्यौ’ देहतोऽपि नित्यौ । समावेतावित्यारभ्य नित्यमुक्तावित्यन्तेन नित्यमुक्तत्वादिनैव साम्यमि त्यर्थे प्रमाणमुक्तं भवति, न तु सर्वसाम्यमिति प्रतिज्ञायाम् । तच्चैतौ मो चकत्वामोचकत्वरूपविरुद्धधर्माधिकरणत्वे च प्रमाणत्वेन श्रुतिशेषमु दाहरति—असमावेताविति । ‘हि’ यतः ‘परमे’ परमात्मनि ‘विली नः’ अन्यैरदृश्य एव तं प्राप्तः ‘अमृतत्वं’ मुक्तिमेतीति । अनेन सौत्र तच्छब्दः परमात्मपरोऽपीत्युक्तं भवति । विलीन इत्यनेनापीतिशब्दो व्याकृतः । श्रुतेरिति व्यपदेशपदार्थोक्तिः । अनेन—तदपीतेरिति हेतौ पञ्चमी । संसारेति तन्निवृत्तेरप्युपलक्षकम् । अनुवृत्तचशब्देन नेति लभ्यते । तथा च तस्यां प्रकृतौ अपीतेः लयात्संसारव्यपदेशात् ‘वि लीनो हि’ इति श्रुतौ संसारप्राप्त्युक्तेः तथा तस्मिन् परमात्मनि अ पीतेः अमुक्तैरदर्शनविशिष्टप्राप्तेरमृतत्वोक्तेः मोचकत्वामोचकत्वरूप विरुद्धधर्मवतोः प्रकृतिपुरुषयोर्न सर्वधर्मेण साम्यम्, किन्तु नित्यमु क्तत्वादिनैवेति सूत्रार्थ उक्तो भवति । यद्वा—तदपीतेरिति षष्ठी । सं सारपदं करणव्युत्पत्त्या तद्धेतुपरं भावप्रधानम् । तथा च तदपीतेः संसारहेतुत्वोक्तेरित्यर्थः । संसारनिवृत्तिरूपमुक्तिहेतुत्वस्याप्युपलक्षण मेतत् । तत्त्वप्रदीपे तु—तदापीतेरिति पठित्वा अपीतिरविज्ञातप्रवेशः ‘अविज्ञातं प्रविष्टं यदपीतमिति कीर्त्यते’ इति वचनात् । आ समन्ता दपीतिरापीतिः स्वपरोभयाविज्ञातप्रवेशः । तस्या इत्यर्थः । आङ्प्र श्लेषाभावे ‘अप्ययोऽयं समुद्दिष्टः तदन्येषामदर्शनम्’ ( ) इति तत्त्वनिर्णयोदाहृतश्रुतिवचनात्प्रवेशस्यान्याविज्ञातत्वमेव प्रतीय ते । पूर्वस्यानेन सावकाशत्वात् । तन्मा प्रत्यायीत्याङ्प्रश्लेषः । तथा च तदा स्वस्याप्यविज्ञात एव प्रकृतौ प्रवेश इत्यर्थ इति व्याख्यातः ।

[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०३५ (४) सू–ॐ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ॐ ॥ ९ ॥ सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादि प्रमाणाधिक्यं च । सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः । ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः ॥ इति च तुरश्रुतिः ॥ ९ ॥ (५) सू–ॐ ॥ नोपमर्देनातः ॥ ॐ ॥ १० ॥ टीकाकृतोऽप्याङप्रश्लेषः अपीतिशब्देन चादर्शनविशिष्टा प्राप्तिरेवा भिप्रेता, न तु प्रध्वंसः । प्रध्वंसस्तु प्रमाणान्तरगम्य इति तत्त्वनिर्णय टीकोक्तिविरोधात् ॥ (४) हेत्वन्तरेण प्रकृतिपुरुषयोः सर्वसाम्यं प्रतिषेधत्सूत्रं पठति—सूक्ष्ममिति ॥ अत्र पूर्वस्मात्तदिति विभज्यानुवृत्तमावर्तते । प्र माणशब्दः परिमाणवाची

१०३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् । (६) देशतः कालतश्चैव समा प्रकृतिरीश्वरे । उभयोरप्यबद्धत्वं तद्बन्धः परात्मनः ॥ स्वत एव परेशस्य सा चोपास्ते सदा हरिम् । प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ॥ ण्यं तन्मात्रनिष्ठत्वं तस्य 'अनुपमर्देन' अबाधेन तस्याः प्रकृतेः तेन प रमेश्वरेण तेन नित्यमुक्तत्वादिन साम्यमस्त्येवेति सूत्रार्थ इत्यभिप्रे त्य सूत्रं व्याचष्टे—अत इति । 'विशेषगुणाः' असाधारणगुणाः स्वा तन्त्र्यादयः । तेषामनुपमर्देनेत्यस्य तेषामसाधारण्यस्यानुपमर्देनेत्य र्थः । अन्यथा लक्ष्मीस्वातन्त्र्यादावपि विष्णुस्वातन्त्र्यादेरबाधादस ङ्गतत्वापत्तेः । तन्मात्रनिष्ठत्वरूपासाधारण्यस्य तु अस्त्येव बाध इति भावः । साम्यमस्तीति शेषः । अनेनैवशब्दस्यान्वयः ॥ (६) यदि प्रकृतेरीश्वरेण नित्यमुक्तत्वादिसाम्यं तर्ह्यस्त्येव विशे षगुणासाधारण्योपमर्दः, प्रकृतेर्नित्यमुक्तत्वे तत एव स्वातन्त्र्यप्राप्तेरि त्यत आह—देशत इति ॥ 'ईश्वरे' ईश्वरेण 'उभयोः' प्रकृतीश्वर योः 'अबद्धत्वं' नित्यमुक्तत्वमित्यर्थः । अस्तीति शेषः । अपिः यद्यपि तथाऽपीत्यर्थोऽबद्धत्वमित्यस्यानन्तरं योज्यः । नित्यमुक्तत्वादिसाम्ये ऽपि न स्वातन्त्र्यादि प्रकृतेरित्याह—तद्बन्ध इति । स चासावबन्ध श्च तद्बन्धः परमात्मनः परेशस्येति सामानाधिकरण्यम् । तथा च यद्यप्युभयोरबद्धत्वमस्ति, तथाऽपि 'परमात्मनः' परमचेतनस्य 'प रेशितुः' विष्णोः 'तद्बन्धः' अबद्धत्वमित्युक्तोऽबन्धः 'स्वत एव' अपराधीन एव, न प्रकृतेरतो न तस्याः स्वातन्त्र्यादीत्यर्थः । अथ वा—' तद्बन्धः' तस्याः प्रकृतेरबन्धः नित्यमुक्तत्वं 'परमात्मनो' ह रेः सकाशादागतं, परस्य तु स्वत एवेति वैयधिकरण्येनान्वयः । प्रकृ तेर्हर्यधीनाबद्धत्वे युक्तिमाह—सा चेति । 'चो' यतः 'सा' प्रकृतिः 'सदा हरिमुपास्ते' सदा हरिसमीपे तिष्ठति अतो नित्यमुक्तत्वं तस्या इति भावः । यद्वा--प्रकृतेरबद्धत्वे उपासनात्रैय्यर्थ्यमित्यत उपासनं न फलार्थं, किन्तु आदरादित्युक्तन्यायेन स्वाभाविकमित्याह—सा चेति। चोऽवधारणे । स्वभावत इति शेषः । गुणान्तरेऽपि हर्यधीनत्वं प्रकृते रित्याह--प्रकृतेरिति । 'गुणाः' ज्ञानानन्दाद्याः विष्णुना नियताः । न केवलं प्रकृतेः, किन्तु 'प्राकृतस्य' ब्रह्मादेर्ये गुणाः 'ते तु' तेऽपि 'वि

[ अधि - ६. सू - ११. ] दीपिकासहितम्. १०३७ नियता नैव केनापि नियता हि हरेर्गुणाः ॥ इति भवि ष्यत्पर्वणि ॥ १० ॥ (७) सू- ॐ ॥ अस्यैव चोपपत्तेरूष्मा ॥ ॐ ॥ ११ ॥ 'द्विधा हीदमवहश्यते ऊष्मावदनूष्मावच्च । तत्रोष्मा वत्परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत्प्रकृतिश्च प्राकृतं च यन्न ष्णुना नियताः ' तदधीना एवेत्यर्थः । स्वत एवेत्यत्र हेतुमाह--नैवे ति । हिर्हेतौ प्रमाणप्रसिद्धौ वा । भविष्यत्पर्वणीति वचनाच्चोद्यपरि हारादिति शेषः । अस्य तेषामनुपमर्देन साम्यं युक्तमेवेति पूर्वेणा न्वयः ॥ (७) श्रुतिरूपयुक्त्यन्तरेण किञ्चित्साम्यं प्रतिपादयत्सूत्रं पठ ति--अस्यैवेति ॥ अत्रोष्माशब्देन घ्राणाद्यविष

१०३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च ' इति सौपर्णश्रुतेः किञ्चित्साम्योपपत्तेः ॥ ११ ॥ (८) सू— ॐ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ ॐ ॥ १२ ॥ 'असमो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्ये तेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति यत्वमादायासाधारण्यं युज्यत इति ध्येयम् । अनूष्मावद्दर्शयितुं प्रति जानीते-अथेति । आनन्तर्यार्थोऽयं शब्दः । उच्यत इति शेषः । प्रतिज्ञा तमाह—प्रकृतिश्चेति । 'प्रकृतिः' श्रीः 'प्राकृतं' ब्रह्मादि । प्राकृतं रु क्मिण्यादीति व्याख्यानं तु प्रकरणविरुद्धम् । चाद्यन्योन्यसमुच्चये । 'यत' यस्मात् 'यत' प्रकृतिप्राकृतम् । उभयरूपत्वोपपादनाय भा वाभावोक्तिः । चशब्दाः समुच्चये । सौपर्णश्रुतिश्चेति । न केवलं सा म्यतदभावान्यथानुपपत्तिरूपयुक्तिरिति चशब्दार्थः । अनेन सूत्रे ऊष्मा च ऊष्मावत्त्वप्रतिपादिका श्रुतिश्चेति चशब्दान्वयो दर्शितः । अस्येति पदे प्रातिपदिकार्थमाह—किञ्चित्साम्योपपत्तेरिति । देशका लव्याप्तिनित्यमुक्तत्वादिसाम्यस्योपपत्तेरर्थे भवतीत्यर्थः । किञ्चित्सा म्योपपादिका भवतीति यावत् । अतोऽप्यस्ति किञ्चित्साम्यमिति वा क्यशेषः ॥ (८) किञ्चित्साम्यमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—प्रतिषेधा दिति ॥ अत्र पूर्वपक्षांशेन प्रकृतिपुरुषयोः किञ्चित्साम्यमिति साध्या ध्याहारमभिप्रेत्य प्रतिषेधक श्रुत्युदाहरणपूर्वकं पूर्वपक्षांशं व्याचष्टे— असमो वेति । वैशब्दोऽवधारणे । 'परः' परमात्मा 'असम एव' न तु केनापि प्रकारेण सम इत्यर्थः । कुत इत्यत आह—न हीति । 'हि' यतो लोके कश्चित्पुरुषः 'एवं' परमात्मवत् न दृश्यते अत इत्यर्थः । असाम्यमेव विरुद्धधर्मोक्त्योपपादयति--सर्वे इति । 'एते' जीवाः 'अणवः' अपूर्णाः 'छिद्राः' दोषिणः । दोषमेव लेशतो दर्शयति—दे हतो जायन्ते नश्यन्ति चेति । 'परः' परमात्मा तु देहतोऽपि न जाय ते न म्रियते पूर्णः सर्वगतो निर्दोष इति चशब्दार्थः । तत्त्वप्रदीपे तु अ णुत्वप्रतियोगिभूतं सर्वगतत्वं चशब्दार्थः छिद्रत्वमपूर्णत्वमित्युक्तम् । साम्येत्यतः प्राक् 'अथ परः' इत्यादिना परमेश्वरस्यैव नित्यसर्वगत त्वादिकमुक्त्वा 'सर्वे ह्येतेऽणवः' इत्यादिनाऽन्येषां तदभावमुक्त्वा

[ अधि - ६. सू - १३. ] दीपिकासहितम्. १०३९ अथ परो न जायते न म्रियते पूर्णश्चैव भवति ' इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न शरीराद्धि साम्यं प्रतिषिध्यते ॥ १२ ॥ (९) कुतः ? सू—ॐ ॥ स्पष्टो ह्येकषाम् ॥ ॐ ॥ १३ ॥ ' अथातस्समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिलयो निय तिरायतिश्चैकं ह्येवैतद्भवत्यथासमाः ब्रह्मेन्द्रो रुद्रः प्र 'असमो वा' इत्यनेनेत्युपस्कृत्य योजनीयम् । साम्यप्रतिषेधादिति । परमे श्वरेणान्येषां किञ्चित्साम्यस्यापि प्रतिषिद्धत्वादित्यर्थः । साम्येत्यनेन सूत्रे तद्वाचकस्य अस्येत्यस्यानुवृत्तिः सूचिता । परिहारांशं व्याच ष्टे-नेति । न प्रकृतेर्भगवत्साम्यमत्र प्रतिषिद्ध्यत इत्यर्थः । किं तर्हीत्य तः शारीरादित्यंशं व्याचष्टे—शारीरादिति । शरीरमात्रमधिकृत्य तद् भिमानितया स्थिताच्छरीरकृतोत्पत्तिनाशयुक्ताच्चेत्यर्थः । हेतुगर्भवि शेषणमेतत् । अत एव हेत्वर्थकहिशब्दः । जीवादिति शेषः । साम्य मिति । ईश्वरस्येति शेषः । साम्यमित्यनेन सूत्रे साम्यस्येति शेषः । प्रतिषिद्ध्यत इत्यनेन शारीरादित्यनन्तरमपि प्रतिषेधादित्यस्यानुवृत्ति श्च सूचिता । सूत्रभाष्ययोः शारीरादिति सावधारणं, न तु प्रकृतेरि त्यवधारणार्थः । तृतीयार्थे पञ्चमीत्यवधेयम् ॥ (९) नन्वस्याः श्रुतेः सामान्यरूपत्वादत्र परमात्मनः शरीरेण सा म्यं प्रतिषिध्यते, न प्रकृतेरिति कुत इत्याक्षिपत्ति—कुत इति ॥ एतत्परि हाराय सूत्रं पठित्वा व्याचष्टे—स्पष्ट इति । 'हि' यतः 'एकेषां' मा ध्यन्दिनायनानां समादिवादः स्पष्टोऽस्ति, अतो हरेश्चारीरेणैव साम्यं प्रतिषिध्यते, न प्रकृतेरिति सूत्रार्थः । 'अथ' अनन्तरं 'अतः' प्रयोजन सत्त्वाद्धरेः प्रसादाद्वा 'समाः' सर्वधर्मैः 'समासमाः' केन चिद्धर्मे ण समाः सर्वधर्मैरसमाः चेतना इति शेषः । अभिधीयन्त इत्यनुषज्य ते । प्रतिधर्मप्रदर्शनारम्भेऽथशब्दः । 'ब्रह्मणः' परब्रह्मणः 'रूपाणि' अवतारगानि मत्स्यादीनि समानीत्यन्वयः । 'यैः' रूपैः 'नियतिः' नि यमनं नियम्यत्वलक्षकमेतत् । उत्पत्तिस्थितिलयोन्नियतीति समस्तपा ठेऽपि 'उन्नियतिः' नियमनं, 'सर्वो द्वन्द्वः' इत्येकवद्भावः । छान्दसो

१०४० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] जापत्तिर्बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पित रोऽसुरा यत्किञ्चेदं चरमचरं चाथ समाऽसमा प्रकृ तिर्वा समाऽसमा सैषा हि नित्या अजरा तद्वशा च ' इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ॥१३॥ (१०) सू- ॐ ॥ स्मर्यते ॥ ॐ ॥ १४ ॥ मत्स्यकूर्मवराहाद्याः समा विष्णोरभेदतः । ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्च समाऽसमा ॥ इ ति वाराहे ॥ १४ ॥ —::— नपुंसकत्वाभावः । ' आयतिः ' नियमनसाध्या प्रवृत्तिर्जगतो भवतीति शेषः । उक्तमेवोपपादयति—एकमिति । ' हि ' यतः ' एतत् ' अव तारजातं रूपैः ' एकं ' अभिन्नं भवतीत्यर्थः । ' असमाः ' चेतनाः । ' ब्र ह्मा ' हिरण्यगर्भः ' प्रजापतिः ' दक्षः ये केचिदन्ये देवाः ' असुराः ' ' सु रद्विषः इत्येतेऽसमा इत्यन्वयः । यत्किञ्चेदमिति विस्तरः । ' चरं ' चेत नम् । ' अचरं ' अचेतनम् । समा च साऽसमा च समाऽसमा । पूर्वे बहुवचनोक्तिः रूपबाहुल्यात् । नित्याऽजरेति साम्योपपादकम् । ' तद्व शा ' ईश्वरवशेत्यसाम्योपपादकम् । ' हि ' यस्मात् । एकेषामित्यस्या र्थमाह—माध्यन्दिनायनानामिति । समादिवाद इति शेषोक्तिः । वादो वचनं, तथा च समवादोऽसमवादः समासमवादश्चेत्यर्थः । अस्य त स्मादिति शेषेण शारीराद्धि साम्यं प्रतिषिद्धयत इति पूर्वसाध्येना न्वयः ॥ (१०) न केवलं साम्यश्रुतेर्विशेषश्रुतिबलात्सङ्कोचः, किन्तु विशेष स्मृत्याऽपीत्याह सूत्रकृत्--स्मर्यते चेति ॥ अत्र साम्यादिरित्यस्या ध्याहारं चशब्दस्य स्मृतिसमुच्चायकत्वं पूर्वसाध्येनान्वयं चाभिप्रेत्य सूत्राभिमतस्मृत्युदाहरणेन सूत्रं व्याचष्टे—मत्स्येति । आद्यशब्देना न्येऽप्याविर्भावा गृह्यन्ते । विष्णोस्सर्वधर्मैः समा इत्यत्र हेतुः—अभे दत इति । तुर्विशेषार्थः । चस्त्वर्थः । वाराहे पुराणे स्मर्यते चेत्यन्व यः ॥ ६ ॥ ॥ इति समनाधिकरणम् ॥

[ अधि - ८. सू - १६. ] दीपिकासहितम. १०४१ ७. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तानि परे तथा ह्याह ॥ ॐ ॥ १५ ॥ प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते । ( २ ) ‘सर्वे देवाः प्राणमाविश्य देवे मुक्ता लयं परमे यान्त्य चिन्त्ये’ इति कौषारवश्रुतिः ॥ १५ ॥ -- ८. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ अविभागो वचनात् ॥ ॐ ॥ १६ ॥ ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे चतुर्मुखेतरदेवानां परमात्मनि लयः समर्थ्य ते । न विरिञ्चेतरदेवानां परमात्मनि लयस्तत्प्रतिबिम्बत्वादिति पूर्व- पक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—तानीति ॥ अत्र तानीत्यनेन ‘भूते- षु’ इत्यत्र येषां देवानां भूतप्रवेशो निगदितस्तेषां सर्वेषां ग्रहणम् । प्राणद्वारेण लीयन्त इति शेष इत्यभिप्रेत्य सूत्रं व्याचष्टे—प्राणद्वारेणे- ति । श्रुत्यन्तरोदितद्वारान्तरप्रवेशपूर्वकं भूतवृत्त्या प्राणशब्दवाच्यवि- रिञ्चद्वारेणेत्यर्थः । सर्वाणि दैवतानीत्यनेन सम्यग्दर्शी देवभाग एव स- ङ्गृहीतो वेदितव्यः । तथैव तत्त्वप्रदीपोक्तेः । अनेन ऋष्यादीनामपि प्रा- णद्वारा हरिप्रवेश उक्तो भवति । पर इत्यस्यार्थः—परमात्मनीति । त- था चेत्थं योजना । सर्वाणि दैवतानि परमात्मनि ‘विलीयन्ते’ प्रवि- शन्त्येव । न च ‘प्रतिबिम्बो हरेः प्राणः प्राणस्यान्याः कलाः क्रमात्’ इति वचनसिद्धप्राणप्रतिबिम्बत्वविरोधः । यतः प्राणद्वारेण विलीय- न्ते इत्यङ्गीक्रियन्त इति । ( २ ) नन्वत्र प्रमाणाभाव इत्यतः प्रवृत्ते तथा ह्याहेति हेत्वंशं व्याचष्टे—सर्वे देवा इति । विरिञ्चेतरदेवा इत्यर्थः । ‘प्राणे’ विरिञ्च देवमित्यन्वयः । ‘मुक्ताः’ कर्मणः ‘लयं’ प्रवेशं, हिशब्दो हेतौ । श्रुतिरित्त्यनेनाहेत्यस्य कर्ता दर्शितः । सौत्रतथाशब्दस्तु प्राणप्रवेशद्वा- रा परमात्मप्रवेशपर इति सिद्धत्वान्न व्याख्यातः । श्रुतिरित्त्यनन्तरं यत इति शेषः । अस्यातो विलीयन्त इति साध्येनान्वयः ॥ ७ ॥ ॥ इति पराधिकरणम् ॥ —-::-*-— ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे देवादिमुक्तानां ईश्वराधीनत्वे समर्थ्यते । मु- १३१

१०४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] 'एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथा निकाममन्तर्बहिः परिचरन्ति' इ ति गौपवनश्रुतिः। तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम्। (२) 'कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः' (तै.आ.३-१५-४.) इति वचनात्। क्ताः स्वतन्त्रा एव नेशाधीनाः, मुक्तत्वादेव 'एते देवाः' इति श्रुतेश्चे ति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—अविभाग इति॥ अत्र मुक्ता नां परमात्माधीनत्वात् 'अविभागः' तदधीनत्वमेवेति साध्यवाक्यार्थ मभिप्रेत्य तत्र श्रुतिसिद्धसत्यकामत्वादियुक्तिविरोधमाशङ्क्य तत्परि हारायाप्यविभाग इत्यंशं व्याचष्टे—एते देवा इति। श्रुतिरित्यान्तरं यत्सत्यकामत्वं वक्तीति शेषः। आदिपदेन सङ्कल्पो गृह्यते। तथा चे त्थं योजना। 'एते' इति श्रुतिर्यन्मुक्तानां सत्यकामत्वं वक्ति, तत्तेषां सत्यकामत्वं, उपलक्षणमेतत्। आदिशब्दस्योत्तरत्रापि सम्बन्धो वा। तथा च सत्यसङ्कल्पत्वं च यतः परमेश्वरकामाद्यविभागेनैव तद्भेदे नैव तद्विषयविषयकत्वेनैव अङ्गीक्रियते, न स्वातन्त्र्येणातो न तद्वि रोध इत्यतः तेषामविभाग इति। अनेन अविभाग इत्यस्य भगवत्कामा दविभागस्तदविरुद्धार्थविषयकत्वं, तथा तत्कामितलाभस्येश्वरकाम निमित्तकत्वादविभाग इति द्वेधार्थ उक्तो भवति। 'एते' प्रकृताः सायुज्यं प्राप्ता देवाः 'एतं' हरिमनुप्रविश्य 'सत्याः' नित्याः 'सत्य कामाः' सत्याभीष्टाः 'सत्यसङ्कल्पाः' अबाधितमानसिकसङ्कल्पयुताः 'यथानिकामं' यथेच्छं ईश्वरदेहान्तर्बहिः सञ्चरन्तीत्यर्थः। (२) कुतः सत्यकामत्वश्रुतेरन्यानुसारिकामत्वरूपामुख्यार्थत्वक ल्पनमित्यतो वचनादित्यंशं व्याचष्टे—कामेनेति॥ कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः। यदमीषामदः प्रियं तदैतूप मामभि॥ इति ऋङ्मन्त्रस्यायमर्थः—'मृत्योः' संहर्तुः विष्णोः 'कामेन' इच्छ या मे 'कामः' कामितं 'आगात्' आगतम्। ईशेच्छानन्तरं प्राप्तत्वा त्तत्तस्तदागतमित्युच्यते। कथमीश्वरेच्छायाः कारणत्वमित्यतो--हृद याद्धृदयमित्याह। 'हृदयं' ममेच्छा 'हृदयात्' ईशेच्छया भवति।

[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०४३ ( ३ ) मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु । कामानुकूलकामत्वं नान्यत्तेषां विधीयते ॥ इति ब्रा ह्मे ॥ १६ ॥ ——— * ——— ९. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृही तः शताधिकया ॥ ॐ ॥ १७ ॥ भगवदिच्छानुसारिणीति यावदिति टीकारीत्या परममुक्तवाक्यमे तत् । शेषवाक्यार्थस्तु 'अमीषां' सर्वसंहारकभगवत्प्रमुखदेवानां य त्प्रियं एतन्मां प्रति प्रियमभ्युपैत्विति तत्त्वप्रदीपेऽभिहितः । विष्णुतत्त्व निर्णयटीकायां तु मृत्योः 'कामेन' इच्छानुसारेणैव मे काम आगा त् । लुङ् लोडर्थे । मुक्तावागच्छतु । मृत्योः 'हृदयात्' हृदयं सङ्कल्पम नुसृत्यैव मे 'हृदयं' सङ्कल्पः आगच्छतु । 'अमीषां' मनुष्यमृत्यो र्यददः प्रियं तदेव मामभि आ सम्यगेतु ममापि प्रियं भवत्विति तत्त्वप्र दीपानुसारेण जीवन्मुक्तवचनतया व्याख्यातम् ॥ ( ३ ) सत्यकामत्वश्रुतेर्मुख्यार्थत्वे स्मृतिमप्याह—मुक्तानामिति । तुरवधारणे । मुक्तानां सत्यकामत्वं सामर्थ्यं चेश्वराधीनमिति शेषः । तत्र सत्यकामत्वं निर्वक्ति--परस्य त्विति । 'तुः' एव । 'परस्य' प रमात्मनः कामानुकूलकामत्वमेव तेषां सत्यकामत्वं नान्यदित्यर्थः । 'न विधीयते' नोच्यते । ब्राह्मे वचनादित्यनुवर्तते । अस्य तत्परमेश्व रेत्यनेनान्वयः ॥ ८ ॥ ॥ इति अविभागाधिकरणम् ॥ ——— * ——— ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रतीकालम्बनाप्रतीकालम्बनतदितरमनुष्या णां मुक्त्यर्थं देहोत्क्रमणस्याज्ञानिमरणविलक्षणत्वं समर्थ्यते । ज्ञानिनां देहादुत्क्रमणं पामरमरणवदेव न विशेषोऽस्तीति पूर्वपक्षे सिद्धान्तयत्सू त्रमुपन्यस्यति--तदिति ॥ अत्र न ज्ञानिमरणस्याज्ञमरणाविशिष्टत्वे ति साध्याध्याहारमभिप्रेत्य तत्र हेतुतया तदोकोऽग्रज्वलनमिति सू त्रांशं व्याचष्टे-उत्क्रान्तिकाल इति । अर्थलब्धोक्तिरियम् । यद्वा-तन्त्र

उत्क्रान्तिक काले हृदयस्याग्रज्वलनं भवति । ' तस्य है तस्य हृदयस्याग्रं प्रद्योतते ' ( बृ. ६-४-२. ) इति श्रु तेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् । ( २ ) यंयं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तंतमेवैति कौन्तेय सदा तद्भावभावितः ॥ ( गी. ८-६. ) माश्रित्य तदित्यस्यार्थोक्तिः । तस्मिन्नुत्क्रान्तिकाल इति । अत एव त त्स्वप्रदीपे तदोत्क्रान्तिकाल इति तदर्थोक्तिः । विदुष इति शेषः । तेन तच्छब्दस्य विदुष इति चार्थः । तदोकस इत्यस्य भगवदोकसो हृद यस्येत्यपि तच्छब्दार्थ इत्याशयेन ओकशब्दितं स्थानं दर्शयति--हृ दयस्येति । अग्रे ज्वलनं प्रकाशो भवति । अग्रं प्रकाशत इति फलि तार्थः । हृदयस्याग्रज्वलनं भवतीति कुतो ज्ञायत इत्यतस्तच्छब्दसू चितश्रुतेरेवेत्याह--तस्येति । ' तस्य ' उत्क्रमिष्यतः ' एतस्य ' ज्ञा निनो हृदयस्याग्रं प्रकाशते । ' ह ' खलु इत्यर्थः । अत्र तस्येति मरण वैशिष्ट्यमात्रपरमिति प्रमेयदीपोक्तिः, अस्यान्यथा वैयर्थ्यापत्तेरिति भावः । 'श्रुतेः ' छन्दोगश्रुतेर्वाजसनेयश्रुतेश्चेत्यर्थः । हृदयाग्रप्रवेशनेऽपि ज्ञान्युत्क्रमणस्य को विशेष इत्यतो निष्क्रामतीति पदाध्याहारेण तत्प्र काशित इत्यंशं व्याचष्टे—तत्प्रकाशित इति । तेन प्रकाशेन प्रकाशित नाडीद्वारस्सन्नित्यर्थः । ' निष्क्रामति ' देहात् ज्ञानी, अतोऽस्ति विशेष इति वाक्यशेषः । ननु ज्ञानिनः प्रारब्धकर्मवतः कथमयं विशेष इत्य तः प्रवृत्तं विद्यासामर्थ्यादित्यंशं व्याचष्टे—विद्येति । भगवत्साक्षात्का रसामर्थ्यादित्यर्थः । तथा च प्रारब्धकर्मसद्भावेऽपि ज्ञानिनो ज्ञानसा मर्थ्याद्विशिष्टोत्क्रान्तिर्युज्यते । ज्ञानस्य स्वोदयमारभ्यैव फलप्रदत्वा दिति भावः ॥ ( २ ) यदि ज्ञानिनः ज्ञानसामर्थ्यादेवमुत्क्रमणं भवति, तर्हि ज्ञानिनः ज्ञा नजन्मदेहवियोगाख्यप्रथममरणमेवैवं किं न स्यादित्यतः—तच्छेषग त्यनुस्मृतियोगादित्यंशः प्रवृत्तः, तं व्याचष्टे—यं यमिति ॥ हे ' कौन्ते य ' अर्जुन ' अन्ते ' अन्त्यकाले यंयं वापि ' भावं ' आकृतिविशेषं पदा र्थं वा पूर्वकर्मानुवशात् स्मरन् ' कलेबरं ' देहं त्यजति पुरुषः सः तंतं तमेव भावं ' एति ' प्राप्नोति । अन्त्यकालस्मरणे उपायमाह—सदा त द्भावभावित इति । भावोऽन्तर्गतं मनः तस्मिन्नाकारे पदार्थे वा भाव स्तद्भावस्तद्विषयकं मनः तेन भावितोऽतिवासित इत्यर्थः । अत्र भावि