पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1089, कुल 1267 में से
संदर्भ में पढ़ें१०४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] 'एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथा निकाममन्तर्बहिः परिचरन्ति' इ ति गौपवनश्रुतिः। तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम्। (२) 'कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः' (तै.आ.३-१५-४.) इति वचनात्। क्ताः स्वतन्त्रा एव नेशाधीनाः, मुक्तत्वादेव 'एते देवाः' इति श्रुतेश्चे ति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—अविभाग इति॥ अत्र मुक्ता नां परमात्माधीनत्वात् 'अविभागः' तदधीनत्वमेवेति साध्यवाक्यार्थ मभिप्रेत्य तत्र श्रुतिसिद्धसत्यकामत्वादियुक्तिविरोधमाशङ्क्य तत्परि हारायाप्यविभाग इत्यंशं व्याचष्टे—एते देवा इति। श्रुतिरित्यान्तरं यत्सत्यकामत्वं वक्तीति शेषः। आदिपदेन सङ्कल्पो गृह्यते। तथा चे त्थं योजना। 'एते' इति श्रुतिर्यन्मुक्तानां सत्यकामत्वं वक्ति, तत्तेषां सत्यकामत्वं, उपलक्षणमेतत्। आदिशब्दस्योत्तरत्रापि सम्बन्धो वा। तथा च सत्यसङ्कल्पत्वं च यतः परमेश्वरकामाद्यविभागेनैव तद्भेदे नैव तद्विषयविषयकत्वेनैव अङ्गीक्रियते, न स्वातन्त्र्येणातो न तद्वि रोध इत्यतः तेषामविभाग इति। अनेन अविभाग इत्यस्य भगवत्कामा दविभागस्तदविरुद्धार्थविषयकत्वं, तथा तत्कामितलाभस्येश्वरकाम निमित्तकत्वादविभाग इति द्वेधार्थ उक्तो भवति। 'एते' प्रकृताः सायुज्यं प्राप्ता देवाः 'एतं' हरिमनुप्रविश्य 'सत्याः' नित्याः 'सत्य कामाः' सत्याभीष्टाः 'सत्यसङ्कल्पाः' अबाधितमानसिकसङ्कल्पयुताः 'यथानिकामं' यथेच्छं ईश्वरदेहान्तर्बहिः सञ्चरन्तीत्यर्थः। (२) कुतः सत्यकामत्वश्रुतेरन्यानुसारिकामत्वरूपामुख्यार्थत्वक ल्पनमित्यतो वचनादित्यंशं व्याचष्टे—कामेनेति॥ कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः। यदमीषामदः प्रियं तदैतूप मामभि॥ इति ऋङ्मन्त्रस्यायमर्थः—'मृत्योः' संहर्तुः विष्णोः 'कामेन' इच्छ या मे 'कामः' कामितं 'आगात्' आगतम्। ईशेच्छानन्तरं प्राप्तत्वा त्तत्तस्तदागतमित्युच्यते। कथमीश्वरेच्छायाः कारणत्वमित्यतो--हृद याद्धृदयमित्याह। 'हृदयं' ममेच्छा 'हृदयात्' ईशेच्छया भवति।