भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1090, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1090

[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०४३ ( ३ ) मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु । कामानुकूलकामत्वं नान्यत्तेषां विधीयते ॥ इति ब्रा ह्मे ॥ १६ ॥ ——— * ——— ९. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृही तः शताधिकया ॥ ॐ ॥ १७ ॥ भगवदिच्छानुसारिणीति यावदिति टीकारीत्या परममुक्तवाक्यमे तत् । शेषवाक्यार्थस्तु 'अमीषां' सर्वसंहारकभगवत्प्रमुखदेवानां य त्प्रियं एतन्मां प्रति प्रियमभ्युपैत्विति तत्त्वप्रदीपेऽभिहितः । विष्णुतत्त्व निर्णयटीकायां तु मृत्योः 'कामेन' इच्छानुसारेणैव मे काम आगा त् । लुङ् लोडर्थे । मुक्तावागच्छतु । मृत्योः 'हृदयात्' हृदयं सङ्कल्पम नुसृत्यैव मे 'हृदयं' सङ्कल्पः आगच्छतु । 'अमीषां' मनुष्यमृत्यो र्यददः प्रियं तदेव मामभि आ सम्यगेतु ममापि प्रियं भवत्विति तत्त्वप्र दीपानुसारेण जीवन्मुक्तवचनतया व्याख्यातम् ॥ ( ३ ) सत्यकामत्वश्रुतेर्मुख्यार्थत्वे स्मृतिमप्याह—मुक्तानामिति । तुरवधारणे । मुक्तानां सत्यकामत्वं सामर्थ्यं चेश्वराधीनमिति शेषः । तत्र सत्यकामत्वं निर्वक्ति--परस्य त्विति । 'तुः' एव । 'परस्य' प रमात्मनः कामानुकूलकामत्वमेव तेषां सत्यकामत्वं नान्यदित्यर्थः । 'न विधीयते' नोच्यते । ब्राह्मे वचनादित्यनुवर्तते । अस्य तत्परमेश्व रेत्यनेनान्वयः ॥ ८ ॥ ॥ इति अविभागाधिकरणम् ॥ ——— * ——— ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रतीकालम्बनाप्रतीकालम्बनतदितरमनुष्या णां मुक्त्यर्थं देहोत्क्रमणस्याज्ञानिमरणविलक्षणत्वं समर्थ्यते । ज्ञानिनां देहादुत्क्रमणं पामरमरणवदेव न विशेषोऽस्तीति पूर्वपक्षे सिद्धान्तयत्सू त्रमुपन्यस्यति--तदिति ॥ अत्र न ज्ञानिमरणस्याज्ञमरणाविशिष्टत्वे ति साध्याध्याहारमभिप्रेत्य तत्र हेतुतया तदोकोऽग्रज्वलनमिति सू त्रांशं व्याचष्टे-उत्क्रान्तिकाल इति । अर्थलब्धोक्तिरियम् । यद्वा-तन्त्र