पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1095, कुल 1267 में से
संदर्भ में पढ़ें१०४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] यावद्देहो विद्यते तावद्रश्मिसम्बन्धोऽस्त्येव । (९) ‘संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो या वदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः प्रवर्तते’ इति माध्यन्दिनायनश्रुतिः ॥ २० ॥ (१०) सू— ॐ ॥ अतश्चायनेऽपि हि दक्षिणे ॥ ॐ ॥ २१ ॥ दक्षिणे मरणाद्याति स्वर्गं ब्रह्मोत्तरायणे । इत्युक्तेऽपि ज्ञानिनो दक्षिणायनोत्क्रान्तिर्युज्यते । च्छति—कियदिति । कियत्कालं रश्मीनां नाडीसम्बन्धोऽस्तीति विप रिणामेनान्वयः । एतत्परिहाराय सूत्रमुपन्यस्यति—यावदिति ॥ अत्र सम्बन्धादिति पदं षष्ठ्यन्ततया विपरिणम्य अनुवर्तते । चशब्दो न पू र्वपक्षयुक्तदोष इति साध्यसमुच्चायक इति भावेन यावद्देहभावित्वाद्वि ति हेतुवाक्यं व्याचष्टे—यावदिति । अस्त्येव यत इति शेषः । अस्य अ ध्याहृतातोनैत्यनेनान्वयः ॥ (९) नन्वत्रापि प्रमाणाभावो दोष उक्त इत्यतः प्रवृत्तं दर्शयति श्रुत्यंशं व्याचष्टे—संसृष्टा इति ॥ ‘एते’ आदित्यरश्मयः ‘संसृष्टाः’ सम्बद्धा इत्यर्थः । चावन्योन्यसमुच्चये । ‘वियोगो’ विभागः ‘इदं’ प्र मितं स्थूलशरीरं ‘एतैः’ रश्मिभिः ‘पश्यति’ नाड्यन्तर्मार्गमिति शे षः । ‘एतैः’ प्रकाशैः निमित्तभूतैरुत्क्रान्तौ ‘प्रवर्तते’ प्रयतते ततः ए तैरेवोत्क्रामत्युत्क्रान्तिकाल ज्ञानीत्यर्थः । श्रुतिरिति सूत्रशेषोक्तिः । यत इति शेषः । अस्यास्त्येवेति साध्येनान्वयः ॥ (१०) ननु व्यर्थोऽयं ज्ञानिनः रात्रौ उत्क्रमणसम्भवप्रतिपादनाया सः ‘दक्षिणे मरणात्’ इति वचनात् मोक्षार्थं ज्ञानिनो दक्षिणायनो त्क्रान्त्ययोगात् । तद्वद्रात्रावप्युत्क्रान्त्यभावोपपत्तेरित्याशङ्कां परिहर त्सूत्रं पठति—अतश्चेति ॥ अत्रापिशब्दः स्मृतिसत्त्वेऽपि दक्षिणायने ऽपीति समुच्चये । चशब्दः साध्यसमुच्चये । हिशब्दो हेताविति भावेन अयनेऽपि हि दक्षिणे इति साध्यांशं उत्क्रान्तिर्युज्यत इति पदद्वयाध्या हारेण व्याचष्टे—दक्षिणेति । उत्तरायणमरणात् ब्रह्म यातीत्यन्वयः । उक्तं वचनं, भावे क्तः । इति स्मृतिसद्भावेऽपि दक्षिणायने उत्क्रान्ति र्युज्यत इत्यर्थः । अस्यातो न स्मृतिबलेन ज्ञानिनो दक्षिणायनोत्क्रान्त्य योगदृष्टान्तेन रात्रावपि तद्भावो वाच्य इति चशब्दसूचितसाध्येना न्वयः ॥