पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1094, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - २०. ] दीपिकासहितम्. १०४७ नाडीष्वाततास्तत्र श्वेतस्सुषुम्नो ब्रह्मयानस्सुषुम्नाया माततस्तत्प्रकाशेनैष निर्गच्छति' इति पौत्रायणश्रु तिः ॥ १८ ॥ (७) सू— ॐ ॥ निशि नेति चेन्न सम्बन्धात् ॥ ॐ ॥ १९ ॥ रश्म्यभावान्निशि ज्ञानिन उत्क्रमणं न युक्तमिति चे न्न, सर्वदा सम्बन्धाद्रश्मीनाम् ॥ १९ ॥ (८) कियत्कालम् ? सू—ॐ ॥ यावद्देहभावित्वाद्दर्शयति च ॥ ॐ ॥ २० ॥ तो ज्ञायत इत्यत आह—सहस्रमिति । वैशब्दः प्रसिद्धौ । आसु द्वैरा श्येन पञ्चशतभेदभिन्नाः पुनः प्रत्येकं पञ्चशतभेदभिन्नाः सहस्रसङ्ख्या काः तासु नाडीषु 'आतताः' अन्तर्राश्रिताः सन्ति । 'तत्र' सहस्रस ङ्ख्याकेषु रश्मिषु पूर्वोत्तरवर्गेषु मध्ये वर्णतः श्वेतो, नामतः सुषुम्नः, कर्मतो 'ब्रह्मयानो' ब्रह्मप्रापको रश्मिविशेषः । शताधिकायां सुषुम्ना ख्यायां नाड्या मन्तरा ततोऽन्योऽस्ति । तत्प्रकाशेन 'एषः' ज्ञानी जी वो देहान्निष्क्रामतीत्यर्थः । श्रुतिरित्त्यनन्तरं उक्तार्थे प्रमाणमिति शेषः ॥ (७) उक्तमाक्षिप्य समाधत्सूत्रं पठति—निशीति ॥ अत्राद्यन आवृत्त्या 'निशि' रात्रौ यतस्सूर्यरश्मयो न सन्ति अतः तदा पर्यवसि तकर्मणां केषां चित् ज्ञानिनामपेक्षितमुत्क्रमणं न युक्तं, केषां चित् ज्ञानिनामेवं, केषां चिद्नेवमिति वैलक्षण्यमपि न युक्तमित्याक्षेपांशयो जना मभिप्रेत्य तमंशं व्याचष्टे—निशीति । ज्ञानिन इति । परिसमाप्त प्रतिबन्धककर्मणो ज्ञानिन इत्यर्थः । न विलक्षणमपि कस्य चिद्युक्त मित्यपि व्याख्येयमेतत् । परिहारांशं व्याचष्टे—नेति । निशि मृतानां ज्ञानिनां बाह्यादित्यरश्म्यभावात्सर्वेषां रश्म्यनुसारेण उत्क्रमणानु पपत्तिर्नेत्यर्थः । कुतो नेत्यतः—सम्बन्धादिति । तद्व्याचष्टे—सर्वदे ति । 'रश्मीनां' अन्तस्थादित्यरश्मीनां सर्वदा नाडीसम्बन्धसत्त्वा दित्यर्थः । तथा च निशि बाह्यादित्यरश्म्यभावोऽप्रयोजकः । आन्तरा दित्यरश्म्यभावस्त्वसिद्ध इति भावः ॥ (८) ननु नाडीरश्मिसम्बन्धः सर्वदाऽस्तीति कोऽर्थः । किं सदा तनः? किं वा देहपातपूर्वकालीनः? उत यावद्देहभावी ? । नाद्यः, सदा नाडीनामभावात् । न द्वितीयः, कदाचित ज्ञानिनोऽपि तमसोत्क्रान्ति प्रसङ्गात् । न तृतीयः, यावद्देहं तन्नियमे प्रमाणाभावादिति भावेन पृ