पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1099, कुल 1267 में से
संदर्भ में पढ़ें१०५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ] तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ (गी. ८-२४,२५.) इत्यत्र योगीति विशेषणात्स्मरणनिमित्ते चैते गती ॥ (२) गत्यनुस्मरणाद्ब्रह्म चन्द्रं वा गच्छति ध्रुवम् । देवेनाभिजिता शुक्लपक्षेन च सपूर्णमा । विषुवा चायनेनासौ पूजितः केशवं व्रजेत् ॥ इति ॥ एवं प्रतिज्ञातमार्गद्वये अपुनरावृत्तिमार्गमभिधाय पुनरावृत्तिसाधन माह—धूम इति । यत्रादौ धूमाभिमानिदेवस्य लोकः, तदनुरात्रिदेव स्य, ततः कृष्णपक्षदेवस्य, अथ षण्मासाभिमानिनां लोकाः, तदनु द क्षिणायनदेवलोको वर्तते । ‘तत्र’ तेन मार्गेण ‘योगी’ काम्यकर्मी ‘चान्द्रमसं’ चन्द्रसम्बन्धि ज्योतिः प्राप्य पुनः भूमौ जायत इत्यर्थः । न चैतावता दक्षिणायने मृत