भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1101, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1101

१०५४ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ३.]

१०. अधिकरणम् ॥ ( १ ) मार्गो गम्यं चास्मिन् पाद उच्यते । सू—ॐ ॥ अर्चिरादिना तत्प्रथितेः ॥ ॐ ॥ १ ॥ 'तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह आपूर्यमाणपक्ष म्' ( छा. ५-१०-१०. ) इत्यर्चिषः प्राथम्यं श्रूयते । 'य दा ह वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति' ( बृ. ७-१०-१. ) इति वायोः । ( २ ) तत्रार्चिषः प्राप्तिरेव प्रथमा । ( ३ ) द्वावेव मार्गौ प्रथितार्वचिरादिः विपश्चिताम् । १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—मार्गेति ॥ ब्रह्मप्राप्तौ मार्ग इत्यर्थः । उ त्क्रान्तानामिति शेषः, ब्रह्मनाड्या नाड्यन्तरेण चोत्क्रान्तानामिति तद् र्थः, न तु ब्रह्मनाड्येत्येव । नाड्यन्तरोत्क्रान्तानां स्वस्वलोकप्राप्तौ मार्गा न्तराभावात् । 'गम्यं' प्राप्यं कार्याकार्यब्रह्मरूपं, तेन मार्गेण गतानामि ति शेषः । चः समुच्चये । 'अस्मिन्