पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1102, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - १. ] दीपिका सहितम्. १०५५ धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥ अग्निर्ज्योतिरिति द्वैधैवार्चिपस्सम्प्रतिष्ठितिः। अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ॥ इति ॥ एकस्मिंस्तु पुरे संस्थो द्विरूपोऽग्नेः सुतो महान् ॥ इति ब्रह्मतर्के ॥ १ ॥ :—*—: तत्प्रथितेरित्यस्य तस्यां स्मृतौ तेषां तस्य मार्गैकत्वस्य अर्चिरादित्व स्य च प्रसिद्धत्वादित्यर्थमुपेत्य तां स्मृतिं दर्शयति—द्वावेवेति ॥ अ र्चिरादिरिति बहुव्रीहिः । तथा च ‘सर्ववेदविनिर्णयात्’ सर्ववेदानभि श्रित्य विचार्य ज्ञानिनामेकः कर्मिणां चापर इति द्वावेव मार्गौ ‘प्रथि तौ’ प्रसिद्धौ ज्ञानिभिर्निणींताविति यावत् । न त्वेकस्त्रयो वा । ‘विप श्चितां’ उत्क्रान्तज्ञानिनां यो मार्गः सोऽर्चिरादिरेव ज्ञेयः । काम्यकर्मि णां मार्गस्तु धूमादिरेवेति योजना । ननु ‘अग्निर्ज्योतिः’ इति गीता स्मृतावग्नेः प्राथम्यमुच्यते, तत्कथमत्रार्चिषो ज्योतिश्शब्दितस्य द्वि तीयप्राप्यत्वेनोक्तस्य प्राथम्यमुच्यत इत्यत आह—अग्निरिति । एक स्याग्निपुत्रस्यार्चिष एवाग्निर्ज्योतिरिति ‘द्वेधा’ द्विरूपेण ‘सम्प्रतिष्ठि तिः’ सम्यगवस्थानं भवति नार्चिषोऽन्योऽग्निः । तत्र ब्रह्म संव्रजन् ज्ञा नी प्रथममग्निमेत्याथ ज्योतिराप्नोति । तथाऽपि पृथक्तिं नोच्यते ‘तेऽ र्चिषम्’ इत्यादिश्रुतावित्यत आह—एकस्मिन्निति । ‘महान्’ पूज्यो अ र्चिर्नामकोऽग्निर्ज्योतिर्भेदेन ‘द्विरूपो’ द्विविधोऽपि यत एकस्मिन् पुरे संस्थः, अतः ‘तेऽर्चिषम’ इति श्रुतौ पृथक् नोच्यते । यतः प्रथमं द्विवि धोऽपि क्रमेण ज्ञानिप्राप्योऽतो नार्चिषः प्राथम्यविरोधः । नन्वग्नेः सो मादनन्तरं प्राप्तिः ‘सोमं वैश्वानरम्’ इति वचनात्, अतः कथमेतदि त्यत आह—अग्नेः सुत इति । तथा च यतोऽग्नेस्सुतोऽतः ‘सोमं वैश्वा नरम्’ इति वक्ष्यमाणविरोधोऽपि न, अस्य प्रधानाग्निपुत्रत्वादिति यो जना । ब्रह्मतर्क इत्यस्य प्रथितेरिति सौत्रपदेनान्वयः । सूत्रार्थस्तु—उ त्क्रान्तो ज्ञानी ब्रह्म गच्छंश्चैकेनैवार्चिरादिना मार्गेण गच्छति, न तु मा र्गभेदेन । मार्गस्यार्चिरादित्वं एकत्वं च कुतः सिद्धम् ? ‘तत्प्रथितेः’ तस्य ज्ञानिमार्गस्यार्चिरादित्वस्यैकत्वस्य च ‘सर्वे वा’ ( ) इति श्रुतौ ‘अग्निः’ इति स्मृतौ च प्रसिद्धत्वादिति ॥ १ ॥ ॥ इति अर्चिराद्यधिकरणम् ॥