पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1103, कुल 1267 में से
संदर्भ में पढ़ें१०५६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ३.] २. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ वायुशब्दादविशेषविशेषाभ्याम् ॥ ॐ ॥ २ ॥ अर्चिषो वायुं गच्छति ' स वायुमागच्छति ' ( बृ. ७-१०-१.) इति सामान्यवचनात् ॥ ( २ ) 'स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरह २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे वायोर्द्वितीयप्राप्यत्वं समर्थ्यते । तत्र ' द्वावेव मार्गौ' इति स्मृतेः समग्रमार्गस्यैकत्वेऽपि अर्चिःपूर्वपक्षयोर्मध्ये मार्गभे दसम्भवात् । ' स वायुमागच्छति , अर्चिषोऽहः ' इति श्रुतिद्वयप्रामा ण्याद्द्वाय्वह्लोरुभयोरधिकारिभेदेन द्वितीयप्राप्यत्वमिति पूर्वपक्षे सि द्धान्तयतसूत्रमुपन्यस्यति—वायुशब्दादिति ॥ सूत्रेऽध्याहार्यप्रतिज्ञां दर्शयति—अर्चिष इति । अनन्तरमिति शेषः । तथा चैकेनैव मार्गेण ब्रह्म गच्छन् ज्ञानी तस्मिन् मार्गेऽर्चिषोऽनन्तरं वायुमेव गच्छति न त्वहरित्यर्थः । कुत एतदित्यतोऽत्र हेतुतया प्रवृत्तं सूत्रं अविशेषवि शेषाभ्यां वायुशब्दात् वायुश्रुतेरित्यन्वयमुपेत्य व्याचष्टे—स इति । सामान्येत्यविशेषपदव्याख्यानम् । 'वचनात् ' बृहदारण्यकश्रुतेः । ' सः' उत्क्रान्तोऽपरोक्षज्ञानी अर्चिर्द्वारा 'वायुं ' प्रवाहाख्यमागच्छती ति सिद्धान्ते श्रुत्यर्थः । सामान्यश्रुतेः द्वितीयप्राप्यतानिर्णायकत्वं तु न्यायानुगृहीतत्वेन । न्यायस्तु टीकायामेव प्रदर्शितः ॥ ( २ ) ननु श्रुतेः सामान्यवचनत्वादेव प्रथमप्राप्यप्रतिपादकत्वं किं न स्यादित्याशङ्कायां न केवलमेवंन्यायानुगृहीतसामान्यश्रुत्या वा योर्द्वितीयप्राप्यतासिद्धिः, येनोक्तदोषस्स्यात् । अपि तु विशेषश्रुतित श्वेति भावेन प्रवृत्तं विशेषेत्यंशं व्याचष्टे--स इति ॥ 'सः' ज्ञानी ' इतः' शरीरात् 'गतः' उत्क्रान्त इत्यर्थः । यद्वा—' इतः' अर्चिषो 'गतः' तल्लोकान्निर्गत इत्यर्थः । द्वितीयां गतिमिति सामानाधिकर ण्यं, 'गतिं ' प्राप्य अहरागच्छतीत्यन्वयः । एवमुत्तरत्रापि । 'विशेष वचनात् ' विशेषश्रुतेः । चस्सामान्यश्रुतिसमुच्चये । स्पष्टस्सूत्रार्थः । अत्र टीकायां पूर्वाधिकरणगुणसूत्रत्वेनापीदं सूत्रं व्याख्यातं, तस्मिन् पक्षे ' वायुशब्दात् ' वायोः द्वितीयप्राप्यत्वश्रुतेः सकाशाद्वायुशब्द स्य वायोः प्राथम्येन प्राप्यत्वश्रुतेः 'अविशेषविशेषाभ्यां ' भावप्रधा नोऽयं सामान्यविशेषभावाभ्यां निमित्ताभ्यां बाधो द्वितीयप्राप्यत्वप्र