पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1106, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - ५. ] दीपिकासहितम्. १०५९ (२) कुतः? सू- ॐ ॥ उभयव्यामोहात्तत्सिद्धेः ॥ ॐ ॥ ५ ॥ 'स वायुमागच्छति' (बृ. ७-१०-१.) इति प्रथममु च्यते। 'उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युत्तमे वान्तत उपगच्छति द्योंर्वाव विद्युत्तत्पतिं वायुमुपग म्य तेनैव ब्रह्म गच्छति' ( ) इत्यन्तेऽपि वायुगमनश्रुतेः । क्तो वायुरसौ प्रवहाख्यः 'आतिवाहिकः' अतिशयितं विष्णुं वहतीत्य तिवहो मुख्यवायुस्तस्यायं तत्पुत्रः स एवेत्यर्थः । न मुख्य इत्येवकारा र्थः । प्रवहस्य प्राप्यत्वं वायुपुत्रत्वं च— प्रवहं वायुपुत्रं च सूर्यसोमौ च विद्युतम् । प्राप्य प्रधानवायुं च याति तत्परमं पदम् ॥ इति बृहद्भाष्योदाहृतप्रमाणसिद्धम् । अत एव सूत्रस्य वायुपुत्रत्वज्ञाप नार्थमेव प्रवह इत्यल्पाक्षरं पदं विहायातिवाहिक इत्यधिकाक्षरपदप्रयो गः । कुत इत्यतः प्रवृत्तं तल्लिङ्गादिति हेत्वंशं तच्च लिङ्गं चेति विग्रहा श्रयणेन व्याचष्टे— पूर्वेति । गमनं प्राप्तिः । तर्हिमुख्यस्यैव भवेन्न मु ख्यस्येति भावः ॥ (२) ननु तथाऽपि कथं पूर्वप्राप्यस्य वायोरतिवाहिकत्वसिद्धिः, तथा सति मुख्यप्राप्त्यभावापातात् । अथैतद्दोषपरिहाराय उत्तरत्रापि कश्चिद्वायुः प्राप्योऽस्तीत्युच्यते । तथाऽप्यनिवृत्तसंशयः । किं पूर्वो क्त आतिवाहिको मुख्यो वा? एवमुत्तरोक्त आतिवाहिको मुख्यो वेति। मुख्यस्यापि प्रथमप्राप्तेर्मुख्यस्याप्युत्तरप्राप्तेश्च सम्भवात् । न चात्र विशेषहेतुरस्ति, येन पूर्वप्राप्यस्यातिवाहिकत्वसिद्धिरुत्तरप्राप्यस्य च मुख्यत्वसिद्धिरिति भावेनाक्षिपति— कुत इति ॥ पूर्वोक्तस्यातिवाहि कत्वसिद्धिरुत्तरोक्तस्य मुख्यत्वसिद्धिश्च कुत इत्यर्थः । प्राप्यत्वलिङ्ग स्य सावकाशत्वसम्भवादिति भावः । एतत्परिहाराय सूत्रं पठित्वा-- तत्र पञ्चम्याः सप्तम्यर्थत्वं तदित्यस्य बुद्धिस्थपरामर्शित्वं तन्त्रावृत्तिं चाभिप्रेत्य व्याचष्टे—उभयेति । तुरवधारणेऽपिः समुच्चये । यथेत्यादौ तथेत्यन्ते चोपस्कर्तव्यम् । वायुगमनमिति बुद्ध्या विविच्य प्रथममित्य त्रापि सम्बध्यते । उत्तर इति पूर्वोत्तरयोरन्वेति । उक्तस्येत्युभयत्र शे षः । आतिवाहिकस्येति भावप्रधानम् । मुख्यस्याप्युपलक्षकमेतत् । धु