पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1109, कुल 1267 में से
संदर्भ में पढ़ें१०६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] तिना वायुनैव ' स एनान् ब्रह्म गमयति' (छा.५-१०-२०) इति ब्रह्मगमनश्रुतेः । ( २ ) विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः । कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम् ॥ तथाऽभ्युपगमे बाधकाभावादिति पूर्वपक्षे युक्तिरपि सूचिता । तत इ त्यस्यैव पुनरर्थान्तरमाह—ब्रह्मण इति । परेत्यादौ ग्राह्यम् । ' अर्वाक् ' अधस्तात् । सूत्रे तत इत्यनन्तरं अध्याहार्यं प्रतिज्ञाशेषं दर्शयति—ग न्तव्योऽस्तीति न शङ्कनीयमिति । प्राप्यः कश्चिद्वर्तत इति नाक्षेप्यमि त्यर्थः । किन्तु वायुरेव अन्तिमप्राप्य इति शेषः । यद्वा—विद्युत्पतिना वायुनेत्यात्राप्याकृष्यते । तत्र तृतीया प्रथमार्थे । गन्तव्य इत्यस्ति । अ न्तिम इति शेषः । तथा च किन्तु विद्युत्पतिः वायुरेव अन्तिमप्राप्य इ ति प्रतिज्ञाशेषस्सिद्धः । एवं सूत्रेऽपि विपरिणामेन प्रतिज्ञासिद्धिरिति ध्येयम् । कुतो न शङ्कनीयमित्यतो ब्रह्मप्राप्तिरिति पदाध्याहारेण वैद्यु- तेनेत्यंशं सावधारणं कृत्वा व्याचष्टे—विद्युदिति । ब्रह्मगमनमिति बु- द्ध्या विविच्य अत्रापि सम्बध्यते । तथा च विद्युत्पतिना वायुनैव ' ब्र- ह्मगमनम्' तत्प्राप्तिर्भवतीत्यर्थः । यत इति शेषः । न तु द्वारान्तरं मध्ये अपेक्षितमित्येवकारार्थः । विद्युत्पतिनेत्यनेन विद्युतो भार्या अयं वैद्यु- त इति वृत्तिर्दर्शिता । ब्रह्मप्रापकत्वं वायोः कुत इत्यतः तच्छ्रुतेरित्यंशं व्याचष्टे—स इति । वायुनेत्येतत् विपरिणामेनात्राप्यन्वेति । तथा च वायोरेव ' स एनान्' इति ब्रह्मप्रापकत्वश्रुतेरित्यर्थः । अनेन सूत्रे हेत्वं- शे वैद्युतेनेत्यस्य पञ्चम्यन्ततया विपरिणामेनान्वयो वा तत इत्यस्य आवृत्त्या अन्वयो वा दर्शितः । 'सः' वायुः 'एनान्' अप्रतीकालम्ब- नान् परं ब्रह्म प्रतीकांस्तु कार्यं नयतीति छन्दोगश्रुत्यर्थस्तु प्रागेवोक्तः॥ ( २ ) ननु वायोरिव अन्यस्यापि ब्रह्मप्रापकत्वे अन्तिमत्वं सम्भव- तीत्यत आह—विद्युदिति ॥ ' विद्युत्पतिः' भारतीभर्ता । न श्रीरपि पृ- थग्गन्तव्येति भावेन प्रयुक्तस्य एवशब्दस्य व्यावत्र्यमाह—न चेति । चोऽवधारणे । साक्षादिति शेषः । तुशब्दार्थो वा । कुतो नेत्यत आह— कुत इति । 'प्राणनायकं' इन्द्रियेश्वरं 'तं' वायुमृते तदन्यस्य जीव- स्य 'शक्तिः' ब्रह्मगमयितृत्वसामर्थ्यं 'कुतो भवेत्' न कुतोऽपीत्यर्थः। अत्र विशेषः—