पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1108, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०६१ तडितं वरुणं चैव प्रजापं सूर्यमेव च ॥ सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम्॥ इति ॥ ५ ॥ -- ५. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ॐ ॥ ६ ॥ प्रकारान्तरेण तत्रतत्रोच्यमानत्वाद्वायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीति नाशङ्कनीयम् । विद्युत्प ब्दः पूर्वोक्ताद्विशेषमाह । 'स्वाच्छरीरात्' स्वाभिमन्यमानजडदेहादु त्क्रान्तो ज्ञानी प्रथममर्चिषमेव गच्छतीत्यन्वयः । द्वितीयस्तुशब्दोऽर्चि षोऽग्निपुत्रत्वद्विरूपत्वलक्षणविशेषद्योतकः । 'ततः' तदनन्तरं 'हि' प्रसिद्धौ । 'वायोः' मुख्यस्य पुत्रं गच्छतीत्यन्वयः । तस्य नाम स्मा रयति—य इति । यो नाम्ना आतिवाहिकः प्रवहः प्रसिद्धोऽसौ वायु पुत्रः इह द्वितीयप्राप्यत्वेन विवक्षित इत्यर्थः । 'पूर्वपक्षं' शुक्लपक्षं 'उदक्' उत्तरायणं 'प्रजापं' दक्षं तत्संज्ञिकदेवतान्तरं वा । 'सो मं' चन्द्रं 'वैश्वानरं' मूलाग्निं शौंशुमारचक्रप्राप्तेरुपलक्षकमेतत् । 'ध्रुवं' ध्रुवराजं 'देवीं दिवं' भारतीं ततः परं वायुं 'परं' मुख्यं वा युमिति वा । 'तेन' वायुना तद्द्वारा 'पुरुषोत्तमं' हरिं 'एति' प्राप्नो तीत्यर्थः । एतीयन्ते गच्छतीत्यादौ च पर्यायधातुद्वयोपादानं मध्येऽ पि सर्वत्र सम्बन्धज्ञापनार्थम् । चापितथाशब्दाः परस्परसमुच्चये । इति ब्रह्मतर्क इत्यन्वयः ॥ ४ ॥ ॥ इति आतिवाहिकाधिकरणम् ॥ -- ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यवायोरन्तिमत्वं समर्थ्यते । परब्रह्मणोऽर्वा क् वायोरन्यः प्राप्योऽस्तीति पूर्वपक्षं तन्निषेधरूपं सिद्धान्तं च दर्शय न् सूत्रमुपन्यस्यति—वैद्युतेनेति ॥ तत इत्यस्यार्थमाह—प्रकारान्तरेण तत्रतत्रोच्यमानत्वादिति । 'तत्र' श्रुत्यादौ मार्गे 'प्रकारान्तरेण' ता रतम्यक्रमं विहाय सोमानन्तरं तदवरस्याग्नेरिन्द्रानन्तरं ध्रुवस्य प्राप्तेः प्रतिपाद्यमानत्वादित्यर्थः । तत इत्यस्यार्थान्तरमाह—वायोरपि परत इति । ऊर्ध्वमित्यर्थः । न केवलमर्चिरादेः परत इत्यपेरर्थः । अपीत्यनेन