भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०६१ तडितं वरुणं चैव प्रजापं सूर्यमेव च ॥ सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम्॥ इति ॥ ५ ॥ -- ५. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ॐ ॥ ६ ॥ प्रकारान्तरेण तत्रतत्रोच्यमानत्वाद्वायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीति नाशङ्कनीयम् । विद्युत्प ब्दः पूर्वोक्ताद्विशेषमाह । 'स्वाच्छरीरात्' स्वाभिमन्यमानजडदेहादु त्क्रान्तो ज्ञानी प्रथममर्चिषमेव गच्छतीत्यन्वयः । द्वितीयस्तुशब्दोऽर्चि षोऽग्निपुत्रत्वद्विरूपत्वलक्षणविशेषद्योतकः । 'ततः' तदनन्तरं 'हि' प्रसिद्धौ । 'वायोः' मुख्यस्य पुत्रं गच्छतीत्यन्वयः । तस्य नाम स्मा रयति—य इति । यो नाम्ना आतिवाहिकः प्रवहः प्रसिद्धोऽसौ वायु पुत्रः इह द्वितीयप्राप्यत्वेन विवक्षित इत्यर्थः । 'पूर्वपक्षं' शुक्लपक्षं 'उदक्' उत्तरायणं 'प्रजापं' दक्षं तत्संज्ञिकदेवतान्तरं वा । 'सो मं' चन्द्रं 'वैश्वानरं' मूलाग्निं शौंशुमारचक्रप्राप्तेरुपलक्षकमेतत् । 'ध्रुवं' ध्रुवराजं 'देवीं दिवं' भारतीं ततः परं वायुं 'परं' मुख्यं वा युमिति वा । 'तेन' वायुना तद्द्वारा 'पुरुषोत्तमं' हरिं 'एति' प्राप्नो तीत्यर्थः । एतीयन्ते गच्छतीत्यादौ च पर्यायधातुद्वयोपादानं मध्येऽ पि सर्वत्र सम्बन्धज्ञापनार्थम् । चापितथाशब्दाः परस्परसमुच्चये । इति ब्रह्मतर्क इत्यन्वयः ॥ ४ ॥ ॥ इति आतिवाहिकाधिकरणम् ॥ -- ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यवायोरन्तिमत्वं समर्थ्यते । परब्रह्मणोऽर्वा क् वायोरन्यः प्राप्योऽस्तीति पूर्वपक्षं तन्निषेधरूपं सिद्धान्तं च दर्शय न् सूत्रमुपन्यस्यति—वैद्युतेनेति ॥ तत इत्यस्यार्थमाह—प्रकारान्तरेण तत्रतत्रोच्यमानत्वादिति । 'तत्र' श्रुत्यादौ मार्गे 'प्रकारान्तरेण' ता रतम्यक्रमं विहाय सोमानन्तरं तदवरस्याग्नेरिन्द्रानन्तरं ध्रुवस्य प्राप्तेः प्रतिपाद्यमानत्वादित्यर्थः । तत इत्यस्यार्थान्तरमाह—वायोरपि परत इति । ऊर्ध्वमित्यर्थः । न केवलमर्चिरादेः परत इत्यपेरर्थः । अपीत्यनेन

१०६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] तिना वायुनैव ' स एनान् ब्रह्म गमयति' (छा.५-१०-२०) इति ब्रह्मगमनश्रुतेः । ( २ ) विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः । कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम् ॥ तथाऽभ्युपगमे बाधकाभावादिति पूर्वपक्षे युक्तिरपि सूचिता । तत इ त्यस्यैव पुनरर्थान्तरमाह—ब्रह्मण इति । परेत्यादौ ग्राह्यम् । ' अर्वाक् ' अधस्तात् । सूत्रे तत इत्यनन्तरं अध्याहार्यं प्रतिज्ञाशेषं दर्शयति—ग न्तव्योऽस्तीति न शङ्कनीयमिति । प्राप्यः कश्चिद्वर्तत इति नाक्षेप्यमि त्यर्थः । किन्तु वायुरेव अन्तिमप्राप्य इति शेषः । यद्वा—विद्युत्पतिना वायुनेत्यात्राप्याकृष्यते । तत्र तृतीया प्रथमार्थे । गन्तव्य इत्यस्ति । अ न्तिम इति शेषः । तथा च किन्तु विद्युत्पतिः वायुरेव अन्तिमप्राप्य इ ति प्रतिज्ञाशेषस्सिद्धः । एवं सूत्रेऽपि विपरिणामेन प्रतिज्ञासिद्धिरिति ध्येयम् । कुतो न शङ्कनीयमित्यतो ब्रह्मप्राप्तिरिति पदाध्याहारेण वैद्यु- तेनेत्यंशं सावधारणं कृत्वा व्याचष्टे—विद्युदिति । ब्रह्मगमनमिति बु- द्ध्या विविच्य अत्रापि सम्बध्यते । तथा च विद्युत्पतिना वायुनैव ' ब्र- ह्मगमनम्' तत्प्राप्तिर्भवतीत्यर्थः । यत इति शेषः । न तु द्वारान्तरं मध्ये अपेक्षितमित्येवकारार्थः । विद्युत्पतिनेत्यनेन विद्युतो भार्या अयं वैद्यु- त इति वृत्तिर्दर्शिता । ब्रह्मप्रापकत्वं वायोः कुत इत्यतः तच्छ्रुतेरित्यंशं व्याचष्टे—स इति । वायुनेत्येतत् विपरिणामेनात्राप्यन्वेति । तथा च वायोरेव ' स एनान्' इति ब्रह्मप्रापकत्वश्रुतेरित्यर्थः । अनेन सूत्रे हेत्वं- शे वैद्युतेनेत्यस्य पञ्चम्यन्ततया विपरिणामेनान्वयो वा तत इत्यस्य आवृत्त्या अन्वयो वा दर्शितः । 'सः' वायुः 'एनान्' अप्रतीकालम्ब- नान् परं ब्रह्म प्रतीकांस्तु कार्यं नयतीति छन्दोगश्रुत्यर्थस्तु प्रागेवोक्तः॥ ( २ ) ननु वायोरिव अन्यस्यापि ब्रह्मप्रापकत्वे अन्तिमत्वं सम्भव- तीत्यत आह—विद्युदिति ॥ ' विद्युत्पतिः' भारतीभर्ता । न श्रीरपि पृ- थग्गन्तव्येति भावेन प्रयुक्तस्य एवशब्दस्य व्यावत्र्यमाह—न चेति । चोऽवधारणे । साक्षादिति शेषः । तुशब्दार्थो वा । कुतो नेत्यत आह— कुत इति । 'प्राणनायकं' इन्द्रियेश्वरं 'तं' वायुमृते तदन्यस्य जीव- स्य 'शक्तिः' ब्रह्मगमयितृत्वसामर्थ्यं 'कुतो भवेत्' न कुतोऽपीत्यर्थः। अत्र विशेषः—

[ अधि - ६. सू - ७. ] दीपिकासहितम्. १०६३ इति बृहत्तन्त्रे ॥ ६ ॥ -:*-:- ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ कार्यं बादरिरस्य गत्युपपत्तेः ॥ ॐ ॥ ७ ॥ 'स एनान् ब्रह्म गमयति' ( छा. ५-१०-२.) इति का- र्यं ब्रह्म गमयतीति बादरिर्मन्यते । ( २ ) ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात्क्वचित् ॥ यद्यपि ब्रह्मदृष्टिस्स्याद्ब्रह्मलोकमवाप्नुयात् ॥ विश्वाद्या अनिरुद्धाद्याः ते द्विधा सम्प्रकीर्तिताः । विष्णुरूपास्तदन्ये च तान् सर्वान् याति मोक्षगः ॥ तदन्ये च दिवस्पुत्राः सर्वे च द्युसमीपगाः । ते वायुं प्रापयन्त्येनं स वायुं स हरिं पृथक् ॥ विश्वादिरूपं तुर्यश्च वासुदेवश्च नापरः । इति सप्तमस्कन्धतात्पर्योक्तोऽ

१०६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] इत्यध्यात्मवचनात्तस्यैव गत्युपपत्तेः ॥ ७ ॥ ( ३ ) सू—ॐ ॥ विशेषितत्वाच्च ॥ ॐ ॥ ८ ॥ ‘ यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मु खं प्राप्नोति ब्रह्माणं चतुर्मुखम् ’ इति कौषारवश्रुतौ ॥ ८ ॥ ( ४ ) सू—ॐ ॥ सामीप्यात्तु तद्व्यपदेशः ॥ ॐ ॥ ९ ॥ ‘ ब्रह्मविदाप्नोति परम् ’ ( तै. २-१० ) इति तद्व्यपदेश परप्राप्त्यनुपपत्तौ देवभिन्नत्वे सति बद्धत्वादिति युक्तिरुक्ता भवति । तथा च युक्तिबलाद्ब्रह्मश्रुतेर्मुख्यार्थोऽङ्गीकार्य इति भावः । यद्वा— सूत्रे उपपत्तेरित्यनन्तरं चेत्याकृष्यत इत्याशयेन तदर्थतया वचनादि त्युक्तम् । तस्य च गतेर्वचनात् स्मृत्युक्तत्वाच्चेत्यर्थ इति ध्येयम् । स्मृ त्यर्थस्तु—यद्यपि देवतरेषां ब्रह्मदृष्टिः स्यात्, तथाऽपि देवान् ‘ ऋते ’ विना को वा पुमान् ‘ कचित् ’ बन्धकाले चतुर्मुखमुक्तिपर्यन्तं परब्रह्म ‘ प्राप्नुयात् ’ प्राप्तुं शक्तः स्यात्, न कोऽपि । देवानां साक्षाद्ब्रह्मप्राप्ति श्च देहलयानन्तरं मुक्तिदशायां वा ततःपूर्वं मानुषत्वेन जातानां देवा नां उत्क्रान्त्यनन्तरं बन्धदशायामेवेति द्रष्टव्यम् । न च दृष्टिर्वैयर्थ्यम् । यतः सोऽधिकारी ‘ ब्रह्मलोकं ’ चतुर्मुखलोकमवाप्नुयादिति ॥ ( ३ ) कार्यस्यैव प्राप्तौ न केवलं युक्तिः, नापि स्मृतिः साधिका, किन्तु विशेषश्रुतिरपीत्याह सूत्रकृत्—विशेषितत्वाच्चेति ॥ तत्सूत्रं व्याचष्टे—यदीति । ‘ यदि वाव ’ यद्यपि ‘ परं ’ परमात्मानमभिपश्य ति, तथाऽपि देवभिन्नो ज्ञानी बन्धकाले चतुर्मुखाख्यमेव ब्रह्म प्राप्नोती त्यर्थः । प्रमाणबलादन्यज्ञानादन्यप्राप्तिरुचितेति हशब्दार्थः । द्विरुक्ति स्तात्पर्यार्था । भाष्यस्य सूत्रेणान्वयः । प्राप्यब्रह्मणश्चतुर्मुखत्वेन वि शेषितत्वाच्चेति सूत्रार्थः । अस्य हेतोः पूर्वप्रतिज्ञायाऽन्वयः ॥ ( ४ ) ननु कथं परज्ञानिनः कार्यप्राप्तिरुच्यते । ‘ ब्रह्मविदाप्नोति प रम् ’ इति परप्राप्तेरेव श्रुतत्त्वादन्यथा तद्विरोधादित्याशङ्कां परिहरत्सू त्रं पठति—सामीप्यादिति ॥ अत्र तुशब्दस्य तद्व्यपदेशस्त्वित्यन्वयः । स चासौ व्यपदेशश्चेति विग्रहः हेतौ पञ्चमी चेत्यभिप्रेत्य व्याचष्टे— ब्रह्मेति । ‘ व्यपदेशः ’ श्रुतिः ‘ समीपतः ’ समीपे कालत इति शेषः । तुशब्दः सामान्यश्रुतित्त्वरूपविशेषद्योतकः । कार्यप्राप्तेरिति शेषः । न तु दूर इत्येवशब्दार्थः । ‘ परमपि ’ परब्रह्मापि न केवलं कार्यमित्यपि शब्दार्थः । अपीति एवेति च तुशब्दस्यार्थान्तरकथनम् । इतीत्यनन्तरं

[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०६५ स्तु समीपत एव परमपि प्राप्नोतीत्येतदर्थ एव ॥ ९ ॥ (५) कदा ? सू- ॐ ॥ कार्यात्यये तदध्यक्षेण सहानः परमभिधानात् ॥ ॐ ॥ १०॥ 'ते ह ब्रह्माणमभिसम्पद्य यद्वैतद्वितीयनेऽथ सह ब्रह्म णा परमभिगच्छन्ति' इति सौपर्णश्रुतेर्महाप्रलये तद् ध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ १० ॥ वक्तीति न विरोध इति वाक्यशेषः । न तु चतुर्मुखप्राप्तिं प्रतिषेध ति, नापि परब्रह्मप्राप्तिं ब्रूते इत्येवशब्दार्थः । तथा चेत्थं योजना- यत स्तद्द्वयपदेशा 'ब्रह्मविदाप्नोति परम्' इति श्रुतिस्तु 'सामीप्यात्' का र्यपरप्राप्त्योः कालसामीप्यनिमित्तादेव प्रवृत्ता ज्ञानी कार्यप्राप्तेः समी पकाल एव कार्यं प्राप्याचिरेणैव परमपि प्राप्नोतीत्येतदर्थमेव वक्ति, न तु कार्यप्राप्तिं प्रतिषेधति, अवधारणशून्यत्वात्, नापि प्रथमत एव प रप्राप्तिं ब्रूते तच्छब्दाभावादिति यावत् । अतो न तद्विरोधः कार्यप्रा प्तिवचनस्येति । सामान्यश्रुतेः 'यदि ह वा' इति विशेषश्रुत्या बाधोप पत्तेरिति भावः ॥ (५) ननु समीपत एव परं ब्रह्म प्राप्नोतीति कोऽर्थः । प्रलयादर्वा क्प्रलय एव वा । नाद्यः । प्रथमं परप्राप्तौ बाधकत्वेनोक्तस्य बद्धत्वस्यात्रा पि बाधकत्वसाम्यात् । तथात्वे वा प्रथममेव परप्राप्त्युपपत्तेः । न द्वि तीयः । विशेषप्रमाणाभावादिति भावेन पृच्छति- कदेति ॥ कस्मिन् काले परं प्राप्नोतीत्यर्थः । तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे- का र्यात्यय इति । श्रुतेरित्यनेनाभिधानादित्यस्य महाप्रलये इत्यनेन कार्या त्यय इत्यस्य ब्रह्मणत्यनेन तदध्यक्षेनेति पदस्य चार्थ उक्तो भवति । गच्छतीति शेषोक्तिः । अनेन सूत्रे ज्ञानी 'कार्यात्यये' सकलकार्याणां विनाशरूपप्रलये 'तदध्यक्षेण' तेषां कार्याणां स्वामिना चतुर्मुखेन सह 'अतः' चतुर्मुखात्तद्द्वारा 'परं' सर्वोत्तमं ब्रह्म गच्छतीत्यभ्युप गम्यते । अतो नोक्तविकल्पावकाशः, द्वितीयपक्षाङ्गीकारात् । न च बद्धत्वविरोधः । प्रलये ज्ञानिनां लिङ्गशरीरान्मुक्तत्वेन तदभावादिति भावः । न च तत्प्रमाणाभावः 'अभिधानात्' 'ते ह' इति श्रुतेरिति सूत्रार्थ उक्तो भवति । सूत्रे तदध्यक्षेनेत्युक्तिप्रयोजनं चतुर्मुखस्य का र्यप्रपञ्चाधिकृतत्वात्तद्ब्रह्मजिगमिषूणां तेनैव सहगमनं युक्तम् । न तम तिहायेति युक्तिसूचनमिति तत्त्वप्रदीपेऽभिहितम् । श्रुत्यर्थस्तु--'ते' १३४

( ६ ) सू— ॐ ॥ स्मृतश्च ॥ ॐ ॥ ११ ॥ ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम् ॥ इति ॥ ११ ॥ ( ७ ) सू— ॐ ॥ परं जैमिनिर्मुख्यत्वात् ॥ ॐ ॥ १२ ॥ ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयती ति जैमिनिर्मन्यते ॥ १२ ॥ ( ८ ) सू— ॐ ॥ दर्शनाच्च ॥ ॐ ॥ १३ ॥ देवेतरज्ञानिनः 'ब्रह्माणं' चतुर्मुखं 'अभिपद्य' प्राप्य 'यदा' यत्काले एतत्कार्यं विलीयते 'अथ' तदा प्रलयकाले कार्यब्रह्मणा सह परं ब्रह्म 'अभि गच्छन्ति' प्राप्नुवन्तीति ॥ ( ६ ) स्मृत्याऽप्येतमर्थं साधयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति— स्मृतेश्चेति ॥ न केवलमभिधानादिति चशब्दार्थः । परे परमात्मनि म नो येषां ते परात्मानः 'सर्वे ते' ज्ञानिनः 'परस्य' ब्रह्मायुषः 'अ न्ते' ब्रह्मणो संवत्सरशतानन्तरं 'प्रतिसञ्चरे' प्रलये संप्राप्ते सति तदा 'ब्रह्मणा' चतुर्मुखेन सह 'परं पदं' ब्रह्म प्रविशन्तीति स्मृत्यर्थः । इति स्मृतेरित्यन्वयः । स्मृतेरित्यस्य कार्यात्यय इति प्रकृतसाध्येना न्वयः । इति ज्ञायत इति शेषः ॥ ( ७ ) पूर्वपक्षान्तरं सूचयत् सूत्रमुपन्यस्यति—परमिति ॥ अत्र मुख्यत्वादिति हेतुं व्याचष्टे—ब्रह्मशब्दस्येति । तत्रैवेति । परब्रह्मण्येवे त्यर्थः । अन्यत्रामुख्यत्वादित्येवशब्दार्थः । परमिति साध्यवाक्यं सो पस्करं व्याचष्टे—परमेवेति । 'स एनान् ब्रह्म गमयति' इति पूर्वभा ष्यमिहापि सम्बध्यते । तच्चावर्तते । एवकारो भिन्नक्रमः । अर्थ इत्य ध्याहारः । तथा च 'स एनान् ब्रह्म गमयति' इत्यत्र वाक्ये 'सः' वायुरेनान् परं ब्रह्म गमयतीत्येवोच्यते, न कार्यमिति जैमिनिराचार्यो मन्यते इति योजना ॥ ( ८ ) ननु ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि प्रागुक्तोपपत्तिश्रुति स्मृतिविरोधात्तद्ग्रहणानुपपत्तेरमुख्यार्थकल्पना युक्तेत्याशङ्कां परिहर त्सूत्रमुपन्यस्यति—दर्शनाच्चेति ॥ अत्र परमित्येतत्परस्येति विपरि णामेनानुवर्तते । तेनैवार्थेन चशब्दस्यान्वयः । साध्यसमुच्चयेऽपि चश ब्द इति भावेन सूत्रं व्याचष्टे—दृष्टत्वाच्चेति । चोऽवधारणे । परब्रह्म णश्चेत्यन्वेति । ज्ञानिभिरिति शेषः । अस्य परमेवेति पूर्वेणान्वयः । अ

[ अधि - ६. - सू - १५ . ] दीपिकासहितम्. १०६७ दृष्टत्वाच्च परब्रह्मणः ॥ १३ ॥ ( ९ ) सू--ॐ ॥ न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ ॐ ॥ १४ ॥ न हि कार्ये प्रतिपत्तिः प्राप्नुवानीत्यभिसन्धिश्च ॥ १४ ॥ ( १०) यदुपास्ते पुमान् जीवन्त्यत्प्राप्तुमभिवाञ्छति । यच्च पश्यति तृप्तस्सन् तत्प्राप्नोति मृतेरनु ॥ इति पाद्मे ॥ ( ११) सू—ॐ ॥ अप्रतीकालम्बनान्नयतीति बादरायण उभ यथा च दोषात्तत्क्रतुश्च ॥ ॐ ॥ १५ ॥ नेन ज्ञानिभिः श्रवणादिसाधनैरपरोक्षतया परब्रह्मण एव ‘दर्शनात्’ ज्ञातत्वात् अन्यस्यादृष्टत्वाद्वायुरस्तान् परं गमयतीत्युपपन्नमिति सू- त्रार्थ उक्तो भवति ॥ ( ९) हेत्वन्तरेण परप्राप्तिरेवोपपन्नेत्येतमर्थं प्रतिपादयत्सूत्रमुप न्यस्यति--न चेति ॥ अत्र चो

१०६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] ( १२ ) प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् । न तु व्याप्तया क्वापि प्रतीकालम्बनास्तु ते ॥ अप्रतीका देवतास्तु ऋषीणां शतमेव च । राज्ञां च शतमुद्दिष्टं गन्धर्वाणां शतं तथा ॥ सप्रतीकाश्चतुर्मुखमप्रतीकाः परमिहैते गच्छन्ति ॥ 'प्रतीकं देहः' इत्यादिश्रुतिस्मृतिसूचकश्च । इतीत्यनन्तरं स इति श्रुतेरर्थ इति शेष इति भावेन सूत्रं व्याचष्टे— प्रतीकमिति । 'स एनान् ब्रह्म गमयति' इति पूर्वभाष्यमिहापि सम्ब ध्यते । प्रथमेतिशब्दात्परोऽर्थशब्दोऽध्याहार्यः। गारुडवचनादित्यस्य आ वृत्त्या उभयत्रान्वयः । तथा च इत्थं योजना—'स एनान् ब्रह्म गमय ति' इत्यत्र वाक्ये 'सः' वायुः 'एनान्' अप्रतीकालम्बनान् परं ब्रह्म 'गमयति' नयति । अन्यांस्तु कार्यं नयतीत्युच्यत इति भगवन्मतम् । कुत एतत् ? उभयत्रोक्तदोषात् । सर्वेषां कार्यप्राप्तिरेव, सर्वेषां परप्रा प्तिरेवेत्यन्यतरनियमपक्षे गत्यनुपपत्त्यादीनां ब्रह्मशब्दामुख्यत्वादीनां च दोषाणामुक्तत्वात् व्यवस्थयोभयप्राप्तिपक्षे च दोषाभावाच्च । न च पक्षद्वयोक्तदोषापातः । गारुडवचनात् अप्रतीकालम्बनान् परं नयति, अन्यान् कार्यं नयतीत्यवगमात् प्राप्तेऽर्थे च दोषाणां यथा कथं चित् प रिहर्तव्यत्वादिति भावः । न च क्रमं विहाय यथेष्टं गमनमस्त्विति वाच्य म् । चशब्दबोधित 'क्रमानुरागी' इतिश्रुतेः । न च 'यत्प्राप्तुमभिवाञ्छ ति तत्प्राप्नोति' इति वचनादैच्छिक्यैव प्राप्तिः न क्रमापेक्षेति वाच्यम्। 'स यथाकामो भवति' (बृ. ६-४-५.) इति बृहदारण्यकश्रुतेस्तत्सिद्धेः । न चात्र उपासनानुक्तिः, यत उपासनं कर्मपदवाच्यमेव । न च क्रमो ऽपि सौकर्यरूप एव, न योग्यतारूप इति वाच्यम् । चशब्दसूचितात् 'प्रतीकं देहः' इत्यादिगारुडवचनात् 'सप्रतीकाश्चतुर्मुखम्' इति व चनाच्च योग्यतारूपत्वेनैव तस्य निश्चितत्वादिति । एवमेव सूत्रयोजना ऽपि द्रष्टव्या ॥ ( १२ ) अधिकारिणो द्विविधाः । प्रतीकालम्बनाप्रतीकालम्बनभेदा त् । तत्रान्योन्‍याश्रयदोषपरिहारायाद्यान् लक्षणमुखेन दर्शयति—प्र तीकमिति ॥ 'देहो' देहादिः प्रतीकमिति 'उद्दिष्टः' अभिहितः । आ दिशब्दाच्चक्षुरादीन्द्रियं गृह्यते । तत्र देहादावेव एषां ब्रह्मदर्शनं जाय ते । न तु 'क्वापि' काले 'व्याप्ततया' सर्वत्र हरेर्दर्शनमस्ति ते प्रती

[ अधि - ६. सू - १५. ] दीपिकासहितम्. १०६९ एतेऽधिकारिणो व्याप्तदर्शिनोऽन्ये न तु क्वचित् । अयोग्यदर्शने यत्नाद्भ्रंशः पूर्वस्य चापि तु ॥ अप्रतीकाश्रया ये हि ते यान्ति परमेव तु । स्वदेहे ब्रह्मदृष्ट्यैव गच्छेद्व्रह्मसलोकताम् ॥ ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् । कालम्बना इत्युच्यन्ते । तान् दर्शयितुं प्रतिजानीते—अप्रतीका इति । अप्रतीकालम्बनास्त्वित्यर्थः । उच्यन्ते इति शेषः । तान् दर्शयति—दे वता इति । शतं चेत्युभयत्रान्वयः । एवशब्दोऽन्यव्यावर्तकः । चौ स मुच्चये । एवं तथेत्यपि । गन्धर्वादि च तदप्सरसां शतं चेति विग्रहः । गन्धर्वेष्वप्यष्टकं ग्राह्यम् । एतेषामप्रतीकत्वे हेतुमाह—एतेऽधिकारिणो यतो व्याप्तदर्शिन इति । 'अन्ये' एतद्भिन्ना ऋषयो नरोत्तमाद्याः क्वचिदपि काले व्याप्तदर्शिनस्तद्योग्या न भवन्तीत्यर्थः । 'तत्रैव' दे हादावेव । न तु व्याप्ततयेत्यस्यैव विवरणमेतत् । नन्वयोग्यस्यापि य त्नात्प्राप्तिसम्भव इत्यत आह—अयोग्येति । अयोग्यं च तद्दर्शनं चेति कर्मधारयः । द्रष्टुमयोग्यस्य दर्शनमिति वा । तादर्थ्ये सप्तमी । 'यत्ना त्' श्रवणादिरूपयत्नकरणात् । 'पूर्वस्य' पूर्वोत्पन्नस्यापि दर्शनस्य 'भ्रंशः' तत्फलाभावो भवेदित्यर्थः । अयोग्यत्ववर्जनस्यापीतिकर्त व्यतारूपत्वात्तदभावे फलाभावादिति । विशेषस्तुशब्दार्थः । उभये षflo फलमाह—अप्रतीकाश्रया इति । ये 'अप्रतीकाश्रयाः' व्याप्तविष्णु दर्शनाः 'हि' प्रसिद्धाः ते वैकुण्ठस्थमेव परं यान्ति न कार्यमात्रम् । प्रतीकालम्बनास्तु स्वदेह एव ब्रह्मदृष्ट्या ब्रह्मसलोकतामेव 'गच्छेत्' गच्छेयुः । प्रलयादर्वाक् परब्रह्मसमानलोकत्वमेव प्राप्नुयुः, न तु वैकु ण्ठमित्यर्थः । परब्रह्मणो वैकुण्ठेतरलोकेष्वप्यवस्थानात् । प्रलयपर्य न्तं चतुर्मुखं प्राप्तास्तदुपदेशेन ज्ञानमुज्ज्वलीकुर्वन्तः वैकुण्ठेतरमहरा दिलोकेष्वेवास्ते आसत इति भावः । न च— ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् । तत्र मुख्याः हरिं यान्ति तदन्ये वायुमेव तु ॥ अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा। स्थानमात्राश्रितास्ते तु पुनर्जातिविवर्जिताः ॥ इति वचनविरोधः । अत्र 'तत्र' ज्ञानिषु मुख्याः अप्रतीकालम्बनाः ह

१०७० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्ब- नान् परं नयति । ‘ स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति त- त्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ’ ( बृ. ६- ४-५० ) इति श्रुतेश्च । अत्र कर्मोपासनमेव अन्यान्का यै नयतीति भगवन्मतम् ॥ १५ ॥ ( १३ ) सू—ॐ ॥ विशेषं च दर्शयति ॥ ॐ ॥ १६ ॥ ‘ अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशा देवा वाव सर्वप्रकाशा ऋषयोऽन्तःप्रकाशाः मनुष्या एव बहिः रिं यान्ति, तदन्ये प्रतीकालम्बना वायुं, ‘अपक्वाः’ समाधिपरिपाक- रहितास्तु हरिं वायुं वा न यान्तीत्येवं पारयोगिनां प्रथमतां वायुशब्दि- तचतुर्मुखप्राप्तिनिषेधेऽपि स्थानपदोक्तमहर्लोकादौलोके किञ्चित्कालं साधनमनुष्ठाय वायुद्वारा कालान्तरं चतुर्मुखप्राप्त्यङ्गीकारे विरो- धाभावादिति भावः । अथ ‘संहारे’ सर्वकार्यात्ययरूपे प्रलये प्राप्ते तु ब्रह्मणा चतुर्मुखेन सह ‘परमं पदं’ ब्रह्म गच्छेयुरित्यर्थः । ‘सः’ ईश्वरो ‘यथाकामो भवति’ यदिच्छावान् भवति जीवोऽपि तथाकामो भवति ‘तत्क्रतुर्भवति’ इत्थं करिष्याम्येवेति निश्चयरूप- कामनावान् भवति । स जीवो ‘यत्क्रतुः’ यन्निष्ठावान् भवति ‘तत् ’ तादृशं तद्विषयमुपासनाख्यं कर्म कुरुते ततश्च ‘तदभिसम्पद्यते’ त- दापरोक्ष्यवान् भवति अथ तत्प्राप्तिरूपफलं च ‘अभिसम्पद्यते’ प्रा- प्नोतीति बृहद्भाष्यदिशा श्रुत्यर्थो ज्ञातव्यः ॥ ( १३ ) यदुक्तं नेच्छानुसारण प्राप्तिः, अपि तु प्रतीकालम्बनादिक्रमे- णैवेति, तन्न, केचिदप्रतीकालम्बनाः केचित्प्रतीकालम्बना इति नियमे प्रमाणाभावेन यथेष्टमप्रतीकालम्बनत्वापादनस्यापि सम्भवादित्याश- ङ्कां श्रुत्या परिहरत्सूत्रं पठित्वा तां श्रुतिमुदाहरति—विशेषं चेति ॥ उ- च्यत इति शेषः । अन्तर्बहिस्सर्वत्रेति क्रमेण विभक्तान् ज्ञानिनः प्राधा- न्यक्रमेण निर्दिशति—देवा इति । प्रतीकालम्बनेतरमनुष्योत्तमास्तु ब- हिर्दृष्टय इत्यर्थः । चतुर्वेदशिखायां श्रुतमिति शेषः । अस्य सूत्रेणान्व- यः । सूत्रार्थस्तु—‘चो’ यतश्चतुर्वेदशिखायां श्रुतं ‘अन्तःप्रकाशाः’ इति वाक्यमधिकारिणां ‘विशेषं’ अप्रतीकालम्बनत्वादिरूपं ‘दर्शय-

[अधि - ६. सू - १६.] दीपिकासहितम्. १०७१ प्रकाशाः' इति चतुर्वेदशिखायाम् ॥ १६ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः * ॥ ॐ ॥ ति' प्रतिपादयति अतोऽप्रतीकालम्बनानित्यायुक्तं युक्तमिति ॥ ६ ॥ ॥ इति कार्याधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना- थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि- कायां चतुर्थाध्यायस्य तृतीयः पादः. * ॥ ॐ ॥

१०७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] १. अधिकरणम् ॥ ( १ ) भोगमाहास्मिन् पादे-- सू--ॐ ॥ सम्पद्याविहाय स्वेन शब्दात् ॥ ॐ ॥ १ ॥ ' स य एवंविदेवंमन्वान एवं पश्यन्नात्मानमभिसम्पद्यै तेनात्मना यथाकामं सर्वान् कामाननुभवति ' इति सौपर्णश्रुतेः ' परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनि ष्पद्यते ' ( छा. ८-३-४. ) इति च । 'एतं सेतुं तीर्त्वाऽ १. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति - भोगेति ॥ मुक्तौ सूत्रकार इति शेषः। अत्राधिकरणे मुक्तस्य ब्रह्मानतिक्रमेणैव भोग्यानुभवः साध्यते । तत्र मुक्तौ ब्रह्मातिक्रम्यैव भोगान् भुङ्क्त इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति - सम्पद्येति । अत्र ' परं जैमिनिः ' इत्यतो ब्रह्मार्थकस्य परमि त्यस्यानुवृत्तौ अविहायेत्यतः परं भोगान् भुङ्क्त इति शेषे आ विहाये त्यपि पदच्छेदे अन्यथारूपमिति चाध्याहारे स्वेनेत्यतः परं रूपेण अ वस्थानादित्युपस्कारे च ज्ञानी परं ब्रह्म सम्पद्य तदविहायैव भोगान्भु ङ्क्ते । न चैवममुक्तत्वं , अन्यथारूपमविहाय सम्परित्यज्य स्वेन रू पेणावस्थानादिति सूत्रार्थस्सम्पन्न इति भावेन तत्र ब्रह्म प्राप्य अविहा य भोगान् भुङ्क्ते इत्येतत्कुत इत्यतः सम्पद्येत्यंशेन सूचितां तत्पदघ टितां श्रुतिमुदाहरति - स इति । ' सः ' अधिकारी ' एवं ' उक्तप्रकारे ण परमात्मानं विजानन् 'एवंमन्वानः ' विचारयन् अथ पश्यन् तत आ त्मानं 'अभिसम्पद्य' प्राप्य ' एतेन ' परमात्मना सह सर्वान् काम्या न् अनुभवतीति श्रुत्यर्थः । ब्रह्मानतिक्रम्याप्याविर्भूतस्वरूपत्वेन भोगो मुक्तानामित्येतत्कुत इत्यत्रापि स्वेनेति सूत्रांशेन सूचितां तत्पदघटितां श्रुतिमुदाहरति-परमिति । चस्समुच्चये । इतीत्यनन्तरं श्रुतिरित्त्यनुव र्तते । व्याख्यातैषा श्रुतिर्दहरनये । नन्वेवं यदि ब्रह्मानतिक्रमेऽपि स्वरू पेणाविर्भावस्तर्हि ' एतम् ' इति श्रुतिविरोध इत्यत आह - एतमिति । श्रुतिरित्त्यस्ति । चोऽप्यर्थः । तथा च यद्यपि ' एतम् ' इति श्रुतिरस्ति । तथाऽपि नोक्तस्य तद्विरोध इत्यर्थः । कुतो न विरोध इत्यत आह- तत्रेति । यत इत्यादावुपस्कार्यम् । यद्वा--नामशब्दो हिशब्दार्थे । उ च्यत इति शेषः । तथा च ' नाम ' यतः 'तत्र' श्रुतौ ' तत्प्राप्तये ' पर मात्मप्राप्तये 'अन्यतरणं' संसारतरणमेवोच्यते, न तु ब्रह्मेतरणमत

[ अधि - २. सू - २. ] दीपिकासहितम्. १०७३ न्धस्सन्ननन्धो भवति’ (छा. ८-४-२.) इति च । त- त्र तरणं नाम तत्प्राप्तयेऽन्यतरणमेव । ‘इमां घोराम- शिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमो- दत आनन्दी भवति' इति मौद्गल्यश्रुतेः ॥ १ ॥ -- २. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ मुक्तः प्रतिज्ञानात् ॥ ॐ ॥ २ ॥ मुक्त एवात्रोच्यते । ‘अहरहरेनमनुप्रविशत्युपसङ्क- इत्यन्वयः । खल्वर्थे वा नामशब्दः । अनेन न केवलं परमात्मा, किन्तु तस्मादपहतपाप्मन आत्मनस्तत्प्रसादात्पूर्वं संसृतौ बद्धस्सन् अवि- द्यावृतः सन् यस्तदन्यो जीवः सोऽपि ‘एतं सेतुं’ जगदाश्रयं हरिं ग- न्तुं अन्यदविद्यादिकं तीर्त्वा ‘अनन्धः’ अदोषवान् भवतीति छन्दोग- श्रुत्यर्थ उक्तो भवति । कुत इत्यत आह--इमामिति । यत इति शेषः । अस्य तत्रेत्यादिनाऽन्वयः । ‘अशिवां’ अमङ्गलां दुःखकरत्वाद्घोरां भ- वाख्यनदीं तीर्त्वा ‘सेतुं’ विश्वाश्रयमेतं परमात्मानं प्राप्यैतेन सेतुनै- व सह तमविहायैव ‘मोदते’ अप्रकृष्टविषयोत्थं सुखमाप्नोति ‘प्रमो- दते’ प्रकृष्टविषयोत्थं सुखमाप्नोति ‘आनन्दी’ स्वरूपसुखाभिव्यक्ति- मान् भवतीति श्रुत्यर्थः। मोदते इत्यादिवाक्यशेषो विषयभोगे प्रमाणत्वे- नोक्तः । त्रिगृहीतस्य श्रुतिरित्यस्य सौत्रशब्दपदोकेत्यध्याहृतेनान्वयः। न चैवं टीकाविरोधः । विशेषाकारस्य सूत्रांशसूचितत्वात् । शब्दादि- त्यस्यापि सूत्रांशत्वाच्च ॥ १ ॥ ॥ इति संपद्याधिकरणम् ॥ -- २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्म प्राप्य तदविहायैव भोगभोक्तुर्मुक्तत्वं सा- ध्यते । ‘स तत्र पर्येति' इति श्रुत्युक्तोऽमुक्त एवेति पूर्वपक्षे सिद्धान्त- यत्सूत्रं पठति--मुक्त इति ॥ अत्र मुक्त इति प्रतिज्ञांशं सावधारणं कृ- त्वा व्याचष्टे--मुक्त इति । नामुक्त इत्येवकारार्थः । अत्रोच्यत इति शेषोक्तिः । ‘अत्र’ सूत्रेनेति गृहीते ‘स तत्र पर्येति' इति वाक्य इत्य- र्थः । कुत इत्यस्यापीदमेवोत्तरम् । अत्र मुक्त इति सप्तमी । उपपन्नो १३५

१०७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] मते न च तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोऽनुप्रविशति मो दते च प्रमोदते च कामांश्चैवानुभवति' इति बृहच्छ्रु तौ प्रतिज्ञानात् ॥ २ ॥ —*— ३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आत्मा प्रकरणात् ॥ ॐ ॥ ३ ॥ भोग इति शेषः । तथा च यतो मुक्तजन एवोपपन्नोऽन्यत्रानुपपन्नः . स्त्रयादिदिव्यभोगोऽत्रोच्यतेऽतो मुक्त एवात्रोच्यत इति योजना । ननु ब्रह्म प्राप्य अमुक्तस्याप्यसौ भोग उपपद्यत इत्यस्योत्तरत्वेन प्रतिज्ञा नादितिहेतुं व्याचष्टे—अहरिति । मुक्त इत्येतत् षष्ठ्यन्ततया विपरि णतमेवशब्दशिरस्कमिहानुवर्तते । तत्र तया तस्येति शेषः । तथा च ‘अहरहरेनम’ इति श्रुतौ सुप्तौ परमात्मानं प्राप्तस्याप्यमुक्तस्य दि व्यभोगाभावमुक्त्वा मुक्तस्यैव परमात्मादिप्राप्त्या दिव्यभोगानुभवप्र तिपादनादित्यर्थः । अत्र तत्त्वप्रदीपे मुक्तस्य कामानुभवप्रतिज्ञानादि ति सौत्रहेतुनैव सिद्धान्तः कृतः । तत्पक्षे बृहच्छ्रुतावुत्तरांशस्य सा क्षादुपयोगः । टीकाकृता त्वध्याहृतहेतुना सिद्धान्तः कृतः । तत्पक्षे पू र्वांशस्य साक्षादुपयोग इति ध्येयम् । श्रुत्यर्थस्तु—‘अहरहः' प्रतिदि नं ‘एनं' परमात्मानं ‘उपसङ्क्रमे' सुप्तौ प्रविशति जीवः । उपस ङ्क्रमत इति पाठे प्राप्नोति च सुप्तौ जीव इत्यर्थः । ‘तत्र’ सुप्तौ । मो दप्रमोदशब्दार्थः पूर्ववत् । 'कामान्' कामितान् अनुभवति न तानेव भुङ्क्ते ‘हि' यतः ‘एषः' जीवः 'तदा' सुप्तौ । न चास्य वाक्यस्यैता वन्तं कालमित्यनुस्मृतिविरोधशङ्क्यः । सौषुप्तिकेतरदिव्यभोगाभा वस्यात्रोक्तेः । 'अथ' देहनाशानन्तरं 'यदा' काले च मुक्तः ‘एनं' ईश्वरमनुप्रविशति तदा मोदते प्रमोदते कामितानेवानुभवति । नेतरा न् कामाननुभवत्येव चेत्यर्थः । चौ परस्परसमुच्चये । द्विरुक्तिस्तात्प र्यार्था ॥ २ ॥ ॥ इति मुक्ताधिकरणम् ॥ —: ❖ :— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुक्तप्राप्यस्य ज्योतिषो ब्रह्मत्वं साध्यते। ‘परं

[ अधि-४. सू-४. ] दीपिकासहितम्. १०७५ परंज्योतिश्शब्देन परमात्मैवोच्यते तत्प्रकरणत्वात् । ( २ ) परंज्योतिः परंब्रह्म परमात्मादिका गिरः । सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथं चन ॥ इति ब्रह्माण्डे ॥ ३ ॥ -- ४. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ अविभागेन दृष्टत्वात् ॥ ॐ ॥ ४ ॥ ज्योतिरुपसंपद्य' (छा. ८-३-४.) इति श्रुत्युक्तं ज्योतिरादित्य एव 'स तेजसि सूर्ये सम्पन्नः' ( प्रश्न. ५-५.) इति श्रुतौ ज्योतिश्शब्दपर्यायते जश्शब्दस्य सूर्ये प्रयोगात्, तत्समाख्यानादिति पूर्वपक्षे सिद्धान्तय त्सूत्रमुपन्यस्यति-आत्मेति ॥ अत्र आत्मेति प्रतिज्ञांशं सावधारणं कृत्वा सोपस्करे व्याचष्टे-परमिति । 'सम्पद्य' इति गृहीतवाक्यस्थ परंज्योतिश्शब्देनेत्यर्थः । यद्यपि पूर्वपक्षिणा परं ज्योतिरिति भिन्नप दत्वाभिप्रायेण ज्योतिश्शब्द एवान्यपरतयाऽऽक्षिप्तः । तथाऽपि वस्तुतः 'परंज्योतिः परंब्रह्म' इति स्मृतिपर्यालोचनया परंज्योतिरित्स्यैक पदत्वात्तस्यैवानुवादः कृतः । कुत इत्यतः प्रकरणादित्यंशं तच्छब्दा न्वयेन व्याचष्टे-तदिति । अस्येत्यादावुपस्कार्यम् । तथा च 'अस्य' परंज्योतिश्शब्दस्य 'तत्प्रकरणत्वात्' परमात्मप्रकरणपठितत्वादि त्यर्थः । 'य आत्मा अपहतपाप्मा' इति परमात्मन एवात्र उपक्रम्याधी तत्वेनैतद्वाक्यजातस्य तत्प्रकरणत्वात्समाख्यायाश्च प्रकरणात् दुर्ब लत्वादिति भावः ॥ ( २ ) नन्वस्य परमात्मप्रकरणत्वेऽपि सावित्रप्रकरणे 'ह्वयाम्यग्नि म' (ऋ. १-३५-१०) इत्यन्यपरोक्तिवत्प्रसङ्गादादित्योक्तिः किं न स्यादित्य त आह-परंज्योतिरिति ॥ परंज्योतिरित्थेकं पदम् । एवं परंब्रह्मेत्यपि । आदिपदेन परमक्षरमित्यादिकं गृह्यते । 'गिरो' वाचः । 'सर्वत्र' सर्वा गमेषु स्थिताः 'एकं' मुख्यं वाच्यम् । एवेत्यस्य विवरणं-नान्यमिति । 'कथं चन' केनापि निमित्तेन । ब्रह्माण्ड इत्यनन्तरं उक्तत्वाद्वेति शेषः । अस्य परंज्योतिश्शब्देनेत्यादिनान्वयः ॥ ३ ॥ ॥ इति आत्माधिकरणम् ॥ -- ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सायुज्यभाजां भगवद्भुक्तभोगभोक्तृत्वं समर्थ्य

१०७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते । 'यानेवाहं शृणोमि यान् पश्यामि यान् जिघ्रामि ताने वैत इदं शरीरं विमुच्यानुभवन्ति' इति दृष्टत्वाच्चतुर्वे- दशिखायाम् । (२) भविष्यत्पुराणे च- मुक्ताः प्राप्य परं विष्णुं तद्भोगाल्लेशतः क्वचित् । बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथं चन ॥ ते। तत्र मुक्तभोगाः परमात्मनाऽभुक्ता अपि सन्ति न तद्भुक्ता एवेति नि- यमः । तथा सति केषां चित्संजातभोगेच्छानामपि मुक्तानां भोगाभाव- प्रसङ्गात् । ईश्वरस्य नित्यपूर्णानन्दत्वेन कदाचिद्भोगस्यापि सम्भवा- त् । ततश्च मोक्षस्यापुरुषार्थत्वापत्तिरिति पूर्वपक्षे सिद्धान्तयत्सूत्रमु- पन्यस्यति--अविभागेनेति ॥ अत्र सायुज्यभाजां भोगाः 'अविभागे- नैव' केचित्परमात्मना भुक्ताः केचित्तदभुक्ता इति विभागमन्तरेणैव सन्ति । ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैः भुज्यन्ते न तदभु- क्ता इति यावत् । कुतः ? 'तथादृष्टत्वात्' तथाश्रुतेरिति योजनामभि- प्रेत्य अविभागेनेति प्रतिज्ञांशं व्याचष्टे-य इति । 'भोगाः' स्वरूपसुखवि- शेषव्यक्तिहेतुविषयदर्शनविषयाः, न तु तदभुक्ता इत्येवशब्दार्थः । 'मुक्तैः' सायुज्यभाग्भिः । दृष्टत्वादिति हेत्वंशं व्याचष्टे--यानेवेति । अहमिति परमात्मोच्यते । 'एते' मुक्ताः 'इदं शरीरं' कर्मारब्धज- डशरीरम् । चतुर्वेदशिखायामिति । 'दृष्टत्वात्' श्रवणादित्यन्वयः ॥ (२) ननु भगवद्भुक्ताः अशेषभोगाः मुक्तैर्भुज्यन्ते ? किं वा केचि- त् । आद्ये मुक्तपरमात्मनोः साम्यापातः । न द्वितीयः, 'यानेव' इ- ति सामान्यतः सर्वभोगश्रवणादित्यत आह--भविष्यदिति ॥ इति भ- विष्यत्पुराणे उक्तत्वाद्वेति योजना । 'तद्भोगान्' तेनेश्वरेण भोग्यान् विषयान् 'बहिष्ठान्' ईश्वरदेहाद्बहिस्स्थितान् अस्वरूपभूतान् । परमे- श्वरस्वरूपानन्दादिव्यावृत्त्यर्थमेतत् । अत एवाह-नेति । बाह्यानामपि न सर्वेषां भोगः, लक्ष्म्यात्मकानामभोगादत उक्तं--क्वचिदिति । प्रा- कृतानामपि न सर्वात्मना भोगः, परमात्मेन्द्रियविषयरसादीनामभो- गादतो-लेशत इति । कांश्चिदित्यर्थः । बहिष्ठानेव न त्वन्तःपुरस्थानि ति तत्त्वप्रदीपोक्तिः । 'कथं चन' सामस्त्येन वा लेशतो वेत्यर्थः । तथा च द्वितीयपक्षमाश्रित्य विशेषश्रुत्या सामान्यश्रुतेः सङ्कोचः कार्य

[ अधि - ५. सू - ५. ] दीपिकासहितम्. १०७७ इति ॥ ४ ॥ —::— ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ॐ ॥ ५ ॥ सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगा न् भुञ्जत इति जैमिनिर्मन्यते । इति भावः ॥ ४ ॥ ॥ इति अविभागाधिकरणम् ॥ —::— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मप्राप्तस्य सायुज्यमुक्तस्य भोगः समर्थ्यते। तत्र मुक्तस्य देहभावे मुक्तत्वायोगात् तदभावे च भोगाभावप्राप्तेर्न त स्य भोगो युज्यत इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति—ब्राह्मेणेति॥ अत्र पूर्वसूत्रात्तन्वनिर्मुक्तस्य विभागेनेति पदस्य अनुवृत्तिमभिप्रेत्य त दर्थमाह-सर्वदेहेति ॥ सर्वशब्दः चिद

१०७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] (२) 'स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्मा भिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति ब्रह्मणैवेदं सर्वमनुभवति' इति माध्यन्दिनायनश्रुतावुपन्यासात् । (३) आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति । गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिर्भवेत् ॥ इति स्मृतेः ॥ (४) गच्छामिं विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् । इत्यादिपूर्वस्मरणान्मुक्तस्यैतद्भविष्यति ॥ 'ब्राह्मेणैव देहेन सन्तः' तदतिरिक्तदेहरहिता इत्यभ्युपगम्यते । कुतो देहाभावः ? यतः सर्वदेहपरित्यागेन मुक्ताः । अभेदे तृतीया । सर्वदे हपरित्यागरूपमुक्तियुक्ता इति । न च देहाभावे भोगायोगः । यतः स्वदेहाभावेऽपि ब्राह्मेणैव ग्रहवद्भोगान् भुञ्जते अत इति जैमिनिराचा र्यो मन्यते इति ॥ (२) कुत एतदित्यतः उपन्यासादिति हेतुं तत्पदसूचितश्रुत्युदा हरणपूर्वकं व्याचष्टे—स इति ॥ 'उपन्यासात्' उक्तत्वादित्यर्थः । श्रु त्यर्थस्तु—'स एष ब्रह्मनिष्ठो' ब्रह्मज्ञानी 'मर्त्यं' विनाश्यं 'इदं' प्रत्य क्षसिद्धं स्थूलसूक्ष्माख्यं देहं 'अतिसृज्य' विसृज्य परं ब्रह्म प्राप्य परब्रह्मणा तद्देहेन पश्यति शृणोति च, इदं सर्वं भोग्यमनुभवति ब्र ह्मणेति ॥ (३) नन्वत्र मुक्तभोगो ब्रह्मणा श्रूयते, न पुनस्तद्देहेनेति श्रुतौ ब्रह्मणैत्यस्य तत्प्रसादादित्यप्यर्थसम्भवादित्यत उपन्यासादित्येतच्छ्रु त्यन्तरसूचकतया व्याचष्टे—आदत्ते इति ॥ 'हरिदृष्ट्या' विष्णुच क्षुषा ॥ (४) ननु स्वयं देहविधुरस्य कथमन्यदेहेन भोगो युज्यते प्र लयादावभावादित्यतः सौत्रादिशब्दगृहीतां युक्तिमसिद्धिवारणाय स्मृत्यैव दर्शयति—गच्छामीति ॥ मुक्ताविति शेषः । तथा चाहं मुक्तौ विष्णुपदाभ्यां गच्छामि गमिष्यामि 'विष्णुदृष्ट्या' तच्चक्षुषा तु तेनैव मे दर्शनं भविष्यतीत्याद्युपासनानुसारेण पूर्वस्मिन् संसारकाले स्म रणरूपोपासनात् मुक्तस्य सायुज्यमुक्तियोग्यस्य 'एतत्' अन्यदेहेन भोजनं मुक्तौ भविष्यतीत्यर्थः । यद्वा—मुक्तेः पूर्वं संसारदशायां अहं स्वदेहस्थविष्णुपादाभ्यां गच्छामि तत्रस्थविष्णुदृष्ट्यैव दर्शनं करो

[ अधि - ५. सू - ६. ] दीपिकासहितम्. १०७९ इति बृहत्तन्त्रोक्तयुक्तेश्च ॥ ५ ॥ (५) सू-ॐ॥ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ॐ॥६॥ चितिमात्रो देहो मुक्तानां पृथग्विद्यते तेन भुञ्जते । 'सर्वे वा एतदचित्परित्यज्य चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते' इ त्युद्दालकश्रुतेश्चिदात्मकत्वादित्यौडुलोमिर्मन्यते ॥ ६ ॥ मीत्यादिस्मरणरूपोपासनादित्यर्थः । अनेन पूर्वस्मिन् संसारे स्वदेह गतविष्णुपदाभ्यामहं गच्छामीत्युपास्तिसद्भावादिति युक्तिरुक्ता भव ति । पञ्चम्यन्तानां ब्राह्मेणेति प्रतिज्ञावाक्येनान्वयः ॥ (५) एवं देहाभावमभ्युपगम्य भोगं मुक्तस्य समर्थ्य देहसद्भा वमप्यभ्युपगम्य तत्समर्थयत्सूत्रमुपन्यस्यति — चितीति ॥ अत्र मुक्ता भुञ्जते पृथग्विद्यत इति च शेषः । तदिति व्यस्तं समस्तं च । तत्र व्यस्तमावर्तते । चितिमात्रेणेति हेतुगर्भम् । तथा च मुक्ताः भुञ्जते ए व तेषां भोगो युक्त एवेति यावत् । न च पृथग्देहाभावादयुक्तता । यत स्तेषां मुक्तानां तच्छरीरं तस्माद्ब्रह्मदेहात्पृथग्विद्यते । न चैवं पुनस्सं सारापत्त्या मुक्तत्वायोगः । यतस्ते 'चितिमात्रेण' शरीरेण भुञ्जते यत स्तच्छरीरं केवलं चैतन्यस्वरूपमिति यावत् । न चाप्रयोजकता 'त दात्मकत्वात्' तेषां मुक्तानां चिदात्मकत्वात् तस्य चितिमात्रशरीर स्य च मुक्तस्वरूपत्वात् स्वरूपस्य चाकृत्रिमत्वेन संसारानापादक त्वादिति भावः। मुक्तानां चिदात्मकत्वमेव कुतः ? 'तत्' तस्माच्छ्रु तिवाक्यादेवेत्यौडुलोमिराचार्यो मन्यत इति योजनामभिप्रेत्य सूत्रं व्याचष्टे—चितीति । 'पृथक्' ब्रह्मदेहात् । 'तेन' देहेन भुञ्जते मुक्ता इति विपरिणतमनुवर्तते । 'चिदात्मकत्वात्' चिन्मात्रत्वादिति । अ त्र मुक्तानामित्यनुषज्यते । तथा च मुक्तानां चितिमात्रत्वात्तेषां देह श्चितिमात्रः, यत एवं अतः सर्वदेहपरित्यागेन मुक्ता इति योजना । श्रुत्यर्थस्तु 'तत्' प्रत्यक्षसिद्धं सर्वं 'अचित्' जडात्मकं स्थूलसूक्ष्म शरीरं परित्यज्यैष जीवश्चिन्मात्र एव भवति तथा व्यज्यते । व्यक्तस्य चिन्मात्रत्वस्य पुनर्नापगम इत्याह—चिन्मात्र एवावतिष्ठत इति । एष इत्यनुषज्यते । 'तामेतां' दशां मुक्तिरित्याचक्षते विद्वांस इति ॥

१०८० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] (६) सू—ॐ॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरा यणः ॥ ॐ ॥ ७ ॥ ‘ स वा एष एतस्मान्मर्त्याद्विमुक्तश्चिन्मात्रो भवत्यथ तेनैव रूपेणाभिपश्यत्यभिशृणोत्यभिमनुतेऽभिविजा नाति तामाहुर्मुक्तिरिति ’ सौपर्णश्रुतौ चिन्मात्रेणाप्युप न्यासाज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बा दरायणो मन्यते। (६) ननु न सूत्रद्वयोक्तपरिहारौ युक्तौ, देहभावाभावयोर्विरुद्ध त्वादित्याशङ्कापरिहारकं सूत्रमुपन्यस्यति—एवमपीति ॥ अत्रैवं शब्द औडुलोम्युक्तचिन्मात्रदेहसाध्यभोगपरामर्शक आवर्तते। अपिः मुनिद्वयोक्तप्रकारद्वयसमुच्चये श्रुतिसमुच्चये च। तथा च बादरायणा चार्य उभयोर्मतयोरविरोधं मन्यते। कुतः? ‘एवं’ औडुलोमिनोक्त स्य चिन्मात्रेण भोगस्य प्रमाणेषु भावात् प्रामाणिकत्वादिति यावत्, तथा ‘पूर्वभावात्’ पूर्वस्य ब्राह्मेणैव भोग इति जैमिन्युक्तस्यापि प्रमा णेषु भावात् प्रामाणिके च विरोधाभावादिति भावः। न चौडुलोमि मते प्रमाणाभावः। ‘सर्वं वा’ इति श्रुतौ मुक्तस्य चिच्छरीरमात्रोक्ता वपि तस्य भोगकारणत्वानुक्तेरिति वाच्यम्। ‘एवमप्युपन्यासात्’ ‘स वा एषः’ इति सौपर्णश्रुतौ औडुलोम्युक्तचिच्छरीरभोगस्याप्युप न्यासात् प्रतिपादनात्। न केवलं माध्यंदिनायनश्रुतौ जैमिन्युक्तस्यो पन्यास इत्यपेरर्थ इति सूत्रार्थमुपन्यासपदसूचितश्रुत्युदाहरणपूर्वमा ह—स वा इति। भोगस्येत्युभयत्र शेषः। न केवलं ब्राह्मेण भोगस्येत्य पेरर्थः श्रुत्युपन्यस्तत्वमात्रे समुच्चयः। न त्वेकश्रुत्युपन्यस्तत्वे। चिन्मा त्रेण भोगस्येत्येतत् भावादित्यनेनाप्यन्वीयते। अत एव भावादिति हे तुरनन्तरमुपन्यस्तः आदौ योजनीयः। ‘उभयत्र’ उभयोः। न केवल मेकत्रेत्यपेरर्थः। तथा च नोभयोः पक्षयोर्विरोधोऽस्ति चिन्मात्रेण भो गस्य ब्राह्मेण भोग इति जैमिन्युक्तस्य च प्रमाणेषु भावात् प्रमिते च विरोधाभावात्। न चान्त्ये प्रमाणाभावः। न केवलं ‘सः’ इति श्रुतौ ब्राह्मेण भोगस्योपन्यासः। किं नाम ? ‘सः’ इति श्रुत्यन्तरे औडुलो म्युकस्याप्युपन्यासादिति उभयोः पक्षयोः ‘अविरोधं’ विरोधाभावं भगवान् बादरायणो मन्यत इति योजना। श्रुत्यर्थस्तु—‘सः’ मुक्तो ‘मर्त्यात्’ विनाश्यात् कर्मारब्धजडशरीराद्विमुक्तः ‘चिन्मात्रो’ चि