भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1117, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1117

१०७० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्ब- नान् परं नयति । ‘ स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति त- त्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ’ ( बृ. ६- ४-५० ) इति श्रुतेश्च । अत्र कर्मोपासनमेव अन्यान्का यै नयतीति भगवन्मतम् ॥ १५ ॥ ( १३ ) सू—ॐ ॥ विशेषं च दर्शयति ॥ ॐ ॥ १६ ॥ ‘ अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशा देवा वाव सर्वप्रकाशा ऋषयोऽन्तःप्रकाशाः मनुष्या एव बहिः रिं यान्ति, तदन्ये प्रतीकालम्बना वायुं, ‘अपक्वाः’ समाधिपरिपाक- रहितास्तु हरिं वायुं वा न यान्तीत्येवं पारयोगिनां प्रथमतां वायुशब्दि- तचतुर्मुखप्राप्तिनिषेधेऽपि स्थानपदोक्तमहर्लोकादौलोके किञ्चित्कालं साधनमनुष्ठाय वायुद्वारा कालान्तरं चतुर्मुखप्राप्त्यङ्गीकारे विरो- धाभावादिति भावः । अथ ‘संहारे’ सर्वकार्यात्ययरूपे प्रलये प्राप्ते तु ब्रह्मणा चतुर्मुखेन सह ‘परमं पदं’ ब्रह्म गच्छेयुरित्यर्थः । ‘सः’ ईश्वरो ‘यथाकामो भवति’ यदिच्छावान् भवति जीवोऽपि तथाकामो भवति ‘तत्क्रतुर्भवति’ इत्थं करिष्याम्येवेति निश्चयरूप- कामनावान् भवति । स जीवो ‘यत्क्रतुः’ यन्निष्ठावान् भवति ‘तत् ’ तादृशं तद्विषयमुपासनाख्यं कर्म कुरुते ततश्च ‘तदभिसम्पद्यते’ त- दापरोक्ष्यवान् भवति अथ तत्प्राप्तिरूपफलं च ‘अभिसम्पद्यते’ प्रा- प्नोतीति बृहद्भाष्यदिशा श्रुत्यर्थो ज्ञातव्यः ॥ ( १३ ) यदुक्तं नेच्छानुसारण प्राप्तिः, अपि तु प्रतीकालम्बनादिक्रमे- णैवेति, तन्न, केचिदप्रतीकालम्बनाः केचित्प्रतीकालम्बना इति नियमे प्रमाणाभावेन यथेष्टमप्रतीकालम्बनत्वापादनस्यापि सम्भवादित्याश- ङ्कां श्रुत्या परिहरत्सूत्रं पठित्वा तां श्रुतिमुदाहरति—विशेषं चेति ॥ उ- च्यत इति शेषः । अन्तर्बहिस्सर्वत्रेति क्रमेण विभक्तान् ज्ञानिनः प्राधा- न्यक्रमेण निर्दिशति—देवा इति । प्रतीकालम्बनेतरमनुष्योत्तमास्तु ब- हिर्दृष्टय इत्यर्थः । चतुर्वेदशिखायां श्रुतमिति शेषः । अस्य सूत्रेणान्व- यः । सूत्रार्थस्तु—‘चो’ यतश्चतुर्वेदशिखायां श्रुतं ‘अन्तःप्रकाशाः’ इति वाक्यमधिकारिणां ‘विशेषं’ अप्रतीकालम्बनत्वादिरूपं ‘दर्शय-